वायवीय संहिता — उत्तर भाग

अध्याय 28: वर्ष के उत्सव और उनका फल

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः ॥

35 श्लोक · 28 में से 41

इस अध्याय में क्या होता है

वर्ष के उत्सव और उनका फल

उपमन्यु नैमित्तिक कर्म बताते हैं। प्रत्येक पक्ष की अष्टमी और चतुर्दशी, अयन, विषुव और ग्रहण पर महापूजा करनी चाहिए, और हर मास ब्रह्मकूर्च से शिव का स्नान हो, जिसका शेष उपवासी भक्त पीता है, जिससे बड़े पाप भी धुल जाते हैं। वे पूरा पञ्चांग देते हैं: पौष में पुष्य पर आरती, माघ में घृत-कम्बल, फाल्गुन में महोत्सव, चैत्र में दोला, वैशाख में पुष्प-मण्डप, ज्येष्ठ में शीत-कुम्भ, आषाढ़ में पवित्रारोपण, कार्तिक में सहस्र दीप, मार्गशीर्ष में घृत-स्नान। दुःस्वप्न और अपशकुन में जप और होम करे। दृढ़ भक्त एक ही जन्म में मुक्त होता है; अन्य अनेक लोकों से होते हुए शिव तक पहुँचते हैं। उपमन्यु कहते हैं कि वे यह मार्ग किसी पर थोपते नहीं।

उपमन्युरुवाच

28.1

अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ।
शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम्

ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām |
śivaśāstroktamārgeṇa naimittikavidhikramam

28.2

सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ।
अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात्

sarveṣvapi ca māseṣu pakṣayorubhayorapi |
aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt

28.3

अयने विषुवे चैव ग्रहणेषु विशेषतः ।
कर्तव्या महती पूजा ह्यधिका वापि शक्तितः

ayane viṣuve caiva grahaṇeṣu viśeṣataḥ |
kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ

28.4

मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ।
स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः

māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu |
snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ

28.5

ब्रह्महत्यादिदोषाणामतीव महतामपि ।
निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते

brahmahatyādidoṣāṇāmatīva mahatāmapi |
niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate

28.6

पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ।
माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम्

pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ |
māghe maghākhye nakṣatre pradadyādghṛtakaṃbalam

28.7

फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ।
चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि

phālgune cottarānte vai prārabheta mahotsavam |
caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi

28.8

वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ।
ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत्

vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam |
jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet

28.9

आषाढे चोत्तराषाढे पवित्रारोपणं तथा ।
श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत्

āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā |
śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet

28.10

श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ।
प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने

śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param |
prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine

28.11

आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ।
अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने

āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam |
agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine

28.12

कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ।
मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम्

kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam |
mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam

28.13

अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ।
आस्थानं वा महापूजामधिकं वा समर्चनम्

aśaktasteṣu kāleṣu kuryādutsavameva vā |
āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam

28.14

आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ।
दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने

āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu |
daurmanasye durācāre duḥsvapne duṣṭadarśane

28.15

उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ।
स्नानपूजाजपध्यानहोमदानादिकाः क्रियः

utpāte vāśubhenyasminroge vā prabale 'tha vā |
snānapūjājapadhyānahomadānādikāḥ kriyaḥ

28.16

निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ।
शिवानले च विहते पुनस्सन्धानमाचरेत्

nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ |
śivānale ca vihate punassandhānamācaret

28.17

य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ।
तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः

ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ |
tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ

28.18

एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ।
दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति

etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ |
divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati

28.19

तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ।
कालांतरेच्युतस्तस्मादौमं कौमारमेव च

tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ |
kālāṃtarecyutastasmādaumaṃ kaumārameva ca

28.20

संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ।
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान्

saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ |
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān

28.21

पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ।
श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत्

punaścordhvaṃ gatastasmādatītya sthānapañcakam |
śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet

28.22

अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ।
पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात्

ardhacaryārataścāpi dvirāvṛttyaivameva tu |
paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt

28.23

अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ।
अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम्

ardhārdhacarito yastu dehī dehakṣayātparam |
aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam

28.24

संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ।
अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा

saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ |
anekayugasāhasraṃ bhuktvā bhogānanekadhā

28.25

पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ।
तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः

puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate |
tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ

28.26

पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ।
तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत्

paśudharmānparityajya śivadharmarato bhavet |
taddharmagauravādeva dhyātvā śivapuraṃ vrajet

28.27

भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ।
तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात्

bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet |
tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt

28.28

अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ।
ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च

aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ |
tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca

28.29

शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ।
यश्चातीव शिवे भक्तो विषयासक्तचित्तवत्

śivasādharmyamāsādya na bhūyo vinivartate |
yaścātīva śive bhakto viṣayāsaktacittavat

28.30

शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ।
एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः

śivadarmānaso kurvannakurvanvāpi mucyate |
ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ

28.31

न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ।
तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना

na punaścakravartī syācchivadharmādhikāravān |
tasmāccchivāśrito bhūtvā yena kenāpi hetunā

28.32

शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ।
नात्र निर्बंधयिष्यामो वयं केचन केनचित्

śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ |
nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit

28.33

निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ।
रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात्

nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate |
rocate vā parebhyastu puṇyasaṃskāragauravāt

28.34

संसारकारणं येषां न प्ररोढुमलं भवेत् ।
प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः

saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet |
prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ

28.35

शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः

śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)