वायवीय संहिता — उत्तर भाग

अध्याय 27: शिवाग्नि: होम-कुण्ड और अग्निकार्य

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः ॥

74 श्लोक · 27 में से 41

इस अध्याय में क्या होता है

शिवाग्नि: होम-कुण्ड और अग्निकार्य

उपमन्यु अग्निकार्य सिखाते हैं। अग्नि कुण्ड, स्थण्डिल, वेदी, या लोहे अथवा मिट्टी के नये पात्र में स्थापित हो सकती है। कुण्ड एक या दो हाथ का, गोल या चौकोर हो, भीतर अष्टदल कमल, एक से तीन मेखलाएँ और पीपल के पत्ते जैसी योनि हो। वह्नि-बीज से अग्नि लाई जाती है, उसकी सात जिह्वाओं के नाम लेकर संस्कार किए जाते हैं, तब वह शिवाग्नि बनती है जिसमें अर्धनारीश्वर का आवाहन होता है। समिधा, घृत, लाजा, सरसों, जौ, तिल और मिष्टान्न की आहुति दी जाती है। अग्नि का ध्यान तीन पाँव, सात हाथ, चार सींग और दो सिर वाले रूप में है। विद्याकोश अर्थात मन्त्र-ग्रन्थ के आदर के नियम भी हैं। रात्रि में साधक शिव और देवी के चरणों में सोता है और प्रभात में शंखनाद से उन्हें जगाता है।

उपमन्युरुवाच

27.1

अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ।
वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे

athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile 'pi vā |
vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe

27.2

आधायाग्निं विधानेन संस्कृत्य च ततः परम् ।
तत्राराध्य महादेवं होमकर्म समाचरेत्

ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param |
tatrārādhya mahādevaṃ homakarma samācaret

27.3

कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ।
वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम्

kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā |
vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam

27.4

कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ।
चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा

kuṇḍaṃ vistāravannimnaṃ tanmadhye 'ṣṭadalāmbujam |
caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā

27.5

वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ।
मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः

vitastidviguṇonnatyā nābhimantaḥ pracakṣate |
madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ

27.6

अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ।
मेखलानां त्रयं वापि द्वयमेकमथापि वा

aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ |
mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā

27.7

यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ।
अश्वत्थपत्रवद्योनिं गजाधारवदेव वा

yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram |
aśvatthapatravadyoniṃ gajādhāravadeva vā

27.8

मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ।
शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः

mekhalāmadhyataḥ kuryātpaścime dakṣiṇe 'pi vā |
śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ

27.9

अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ।
नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती

agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām |
notsedhaniyamo vedyāḥ sā mārdī vātha saikatī

27.10

मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ।
कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना

maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam |
kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā

27.11

प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ।
स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः

prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā |
svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ

27.12

संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ।
अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत्

saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram |
arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet

27.13

प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ।
मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम्

prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet |
maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam

27.14

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ।
त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात्

anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet |
triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt

27.15

वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ।
योनिमार्गेण वा तद्वदात्मनः संमुखेन वा

vahnibījaṃ samuccārya tvādadhītāgnimāsane |
yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā

27.16

नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ।
स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद्

niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ |
svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad

27.17

निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ।
आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम्

nirgamya pāvake bāhye līnaṃ biṃbākṛti smaret |
ājyasaṃskāraparyaṃtamanvādhānapurassaram

27.18

स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ।
शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः

svasūtroktakramātkuryānmūlamantreṇa mantravit |
śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ

27.19

न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ।
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ

nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām |
sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau

27.20

यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ।
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते

yajñadārumayau vāpi smārtau vā śilpasammatau |
parṇe vā brahmavṛkṣāderacchidre madhya utthite

27.21

संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ।
पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः

saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ |
pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ

27.22

जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ।
भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम्

juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye |
bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param

27.23

बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ।
त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया

bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ |
triśikhā madhyamā jihvā bahurūpasamāhvayā

27.24

रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ।
अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा

raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā |
atiriktā marujjihvā svanāmānuguṇaprabhā

27.25

स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ।
जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात्

svabījānantaraṃ vācyā svāhāṃtañca yathākramam |
jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt

27.26

रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ।
सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत्

raṃ vahnayeti svāheti madhye hutvāhutitrayam |
sarpiṣā vā samidbhirvā pariṣecanamācaret

27.27

एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ।
तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ।
दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत्

evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam |
tatrāvāhya yajeddevamardhanārīśvaraṃ śivam |
dīpāntaṃ pariṣicyātha samiddhomaṃ samācaret

27.28

ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ।
अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः

tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ |
avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ

27.29

दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ।
प्रादेशमात्रा वालाभे होतव्याः सकला अपि

daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ |
prādeśamātrā vālābhe hotavyāḥ sakalā api

27.30

दूर्वापत्रसमाकारां चतुरंगुलमायताम् ।
दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः

dūrvāpatrasamākārāṃ caturaṃgulamāyatām |
dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ

27.31

लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ।
सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे

lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā |
sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave

27.32

दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ।
होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम्

daśaivāhutayastatra pañca vā tritayaṃ ca vā |
hotavyāḥ śaktito dadyādekamevātha vāhutim

27.33

श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ।
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा

śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā |
tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā

27.34

द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ।
प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम्

dravyeṇaikena vā 'lābhe juhuyācchraddhayā punaḥ |
prāyaścittāya juhuyānmaṃtrayitvāhutitrayam

27.35

ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ।
निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम्

tato homaviśiṣṭena ghṛtenāpūrya vai srucam |
nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām

27.36

सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ।
वौषडंतेन जुहुयाद्धारां तु यवसंमिताम्

sadarbhena samācchādya mūlenāṃjalinotthitaḥ |
vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām

27.37

इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ।
तत उद्वास्य देवेशं गोपयेत्तु हुताशनम्

itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat |
tata udvāsya deveśaṃ gopayettu hutāśanam

27.38

तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ।
अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना

tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ |
athavā vahnimānīya śivaśāstroktavartmanā

27.39

वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ।
अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च

vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet |
anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca

27.40

पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ।
संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा

pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ |
saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā

27.41

प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ।
आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ

praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ |
ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau

27.42

गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ।
कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत्

garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ |
kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet

27.43

त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ।
मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम्

tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam |
madhupiṃgaṃ trinayanaṃ sakapardenduśekharam

27.44

रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ।
सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम्

raktaṃ raktāmbarālepaṃ mālyabhūṣaṇabhūṣitam |
sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam

27.45

शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ।
तोमरं तालवृंतं च घृतपात्रं तथेतरैः

śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare |
tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ

27.46

जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ।
नालापनयनं कृत्वा ततः संशोध्य सूतकम्

jātaṃ dhyātvaivamākāraṃ jātakarma samācaret |
nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam

27.47

शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ।
पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम्

śivāgnirucināmāsya kṛtvāhutipurassaram |
pitrorvisarjanaṃ kṛtvā caulopanayanādikam

27.48

अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ।
आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः

aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu |
ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ

27.49

रमित्यनेन बीजेन परिषिंचेत्ततः परम् ।
ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च

ramityanena bījena pariṣiṃcettataḥ param |
brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca

27.50

तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ।
धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित्

tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam |
dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit

27.51

साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ।
कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा

sādhayitvājyapūrvāṇi dravyāṇi punareva ca |
kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā

27.52

संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ।
अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम्

saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret |
atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam

27.53

बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ।
शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा

buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ |
śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā

27.54

वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ।
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत्

vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca |
kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat

27.55

न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ।
उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि

na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam |
uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi

27.56

पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ।
अपक्वमतिपाक्वं च संत्यज्य भसितं सितम्

piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ |
apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam

27.57

आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ।
तैजसं दारवं वापि मृन्मयं शैलमेव च

ādāya vā samāloḍya bhasmādhāre vinikṣipet |
taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca

27.58

अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ।
समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत्

anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet |
same deśe śubhe śuddhe dhanavadbhasma nikṣipet

27.59

न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ।
न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत्

na cāyuktakare dadyānnaivāśucitale kṣipet |
na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet

27.60

तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ।
कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत्

tasmādbhasitamādāya viniyuṃjīta mantrataḥ |
kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet

27.61

भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ।
उद्वासने कृते यस्माच्चण्डभस्म प्रजापते

bhasmasaṃgrahaṇaṃ kuryāddeve 'nudvāsite sati |
udvāsane kṛte yasmāccaṇḍabhasma prajāpate

27.62

अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ।
स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत्

agnikārye kṛte paścācchivaśāstroktamārgataḥ |
svasūtroktaprakārādvā balikarma samācaret

27.63

अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ।
विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात्

atha vidyāsanaṃ nyasya supralipte tu maṇḍale |
vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt

27.64

विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ।
तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत्

vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam |
tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet

27.65

ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ।
ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम्

tatonupūjayetpūjyān bhojayecca bubhukṣitān |
tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham

27.66

निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ।
श्रद्दधानो न लोभेन न चण्डाय समर्पितम्

niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye |
śraddadhāno na lobhena na caṇḍāya samarpitam

27.67

गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ।
न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः

gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ |
na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ

27.68

भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ।
कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः

bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret |
kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ

27.69

रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ।
शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम्

rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām |
śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam

27.70

भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ।
मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम्

bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā |
manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam

27.71

ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ।
गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः

tato devasya devyāśca pādamūle śucissvapet |
gṛhastho bhāryayā sārdhaṃ tadanye 'pi tu kevalāḥ

27.72

प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ।
प्रणम्य मनसां देवं सांबं सगणमव्ययम्

pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet |
praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam

27.73

देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ।
शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत्

deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ |
śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet

27.74

ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ।
निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम्

tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ |
nirvartya śivayoḥ pūjāṃ prārabheta puroditam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)