वायवीय संहिता — उत्तर भाग

अध्याय 18: शिष्य के छह अध्वों का शोधन

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः ॥

63 श्लोक · 18 में से 41

इस अध्याय में क्या होता है

शिष्य के छह अध्वों का शोधन

अगली सुबह स्नान के बाद शिष्य फिर आँखें बँधी अवस्था में पुष्प डालता है। उसने बुरा स्वप्न देखा हो तो गुरु शान्ति के लिए आहुतियाँ देते हैं। शिष्य के देह-रूप सूत्र पर गुरु शोधन करते हैं। वे भावना से शिष्य को देव, पशु और मनुष्य सब योनियों में एक साथ जन्म देते हैं, फिर उसके कर्म जलाकर पाश काटते हैं। निवृत्ति से शान्त्यतीता तक हर कला में वे ब्रह्मा, विष्णु, नीलरुद्र, महेश्वर और सदाशिव की पूजा करके कहते हैं कि शिष्य के शिवधाम जाने में बाधा न डालें। सूत्र सहित शिखा काटकर गोबर में रखी जाती है। गुरु शिष्य में शिव के गुण, सिद्धियाँ और सर्वज्ञता आवाहित करते हैं, पाँच कलशों से अभिषेक करते हैं और मन्त्र देते हैं। सभासदों का उदारता से दान देकर सत्कार किया जाता है।

उपमन्युरुवाच

18.1

ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ।
गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः

tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ |
gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ

18.2

अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ।
नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः

atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā |
netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ

18.3

बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ।
यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत्

baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte |
yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet

18.4

तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ।
पूजयेद्देवमीशानं जुहुयाच्च शिवानले

taṃ copanīya nirmālyamaṇḍale 'sminyathā purā |
pūjayeddevamīśānaṃ juhuyācca śivānale

18.5

शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ।
शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया

śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye |
śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā

18.6

ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ।
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम्

tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā |
ādhārapūjāprabhṛti yannivṛttikalāśrayam

18.7

वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ।
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम्

vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram |
atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm

18.8

मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ।
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु

maṇḍale devamabhyarcya hutvā caivāhutitrayam |
prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu

18.9

सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ।
कृत्वात्मानं समादाय द्वादशांते निवेद्य च

sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam |
kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca

18.10

ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ।
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु

tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā |
yojayenmanasācāryo yugapatsarvayoniṣu

18.11

देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ।
जात्यैकया च मानुष्या योनयश्च चतुर्दश

devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ |
jātyaikayā ca mānuṣyā yonayaśca caturdaśa

18.12

तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ।
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत्

tāsu sarvāsu yugapatpraveśāya śiśordhiyā |
vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet

18.13

गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ।
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत्

garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca |
hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret

18.14

निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ।
आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा

niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā |
ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā

18.15

निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ।
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः

niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye |
hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ

18.16

भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ।
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः

bhoktṛtvaviṣayāsaṃgamalaṃ tatkāyaśodhanam |
kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ

18.17

निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ।
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम्

nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ |
kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam

18.18

हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ।
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत्

hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ |
hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet

18.19

पितामह त्वया नास्य यातुः शैवं परं पदम् ।
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी

pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam |
pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī

18.20

इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ।
समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम्

ityādiśya tamabhyarcya visṛja ca vidhānataḥ |
samabhyarcya mahādevaṃ juhuyādāhutitrayam

18.21

निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ।
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः

nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā |
niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ

18.22

हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ।
कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह

hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām |
kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha

18.23

संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ।
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत्

saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam |
śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet

18.24

ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ।
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत्

tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam |
tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet

18.25

पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ।
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः

pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat |
viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ

18.26

विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ।
प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा

viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā |
pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā

18.27

कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ।
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत्

kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam |
dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat

18.28

नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ।
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना

nīlarudramupasthāpya tasmai pūjādikaṃ tathā |
kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā

18.29

तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ।
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत्

tapastamapi codvāsya kṛtvā tasyātha śāṃtaye |
vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet

18.30

स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ।
बालार्कसदृशाकारां भासयंतीं दिशो दश

svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā |
bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa

18.31

ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ।
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत्

tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram |
āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet

18.32

महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ।
शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत्

maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām |
śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet

18.33

स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ।
नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत्

svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet |
nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat

18.34

कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ।
तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः

kṛtvā śeṣavidhānena samabhyarcya sadāśivam |
tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ

18.35

तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ।
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत्

tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat |
samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet

18.36

ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ।
विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत्

tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat |
vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet

18.37

षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ।
कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत्

ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām |
koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet

18.38

तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ।
प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः

tadagre śiṣyamānīya śuddhasphaṭikanirmalam |
prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ

18.39

कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ।
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम्

kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ |
tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām

18.40

वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ।
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत्

vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm |
haste śiṣyasya caitanyaṃ taddehe vinivartayet

18.41

ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ।
प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत्

tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum |
praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat

18.42

पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ।
वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम्

pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye |
vācakenaiva maṃtreṇa juhuyādāhutitrayam

18.43

उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ।
पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये

upāṃśūccārayogena juhuyādāhutitrayam |
punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye

18.44

मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ।
तत्र शंभुं समाराध्य मंडलस्थं सहांबया ।
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः

mānasoccārayogena juhuyādāhutitrayam |
tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā |
hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ

18.45

भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ।
कृता तस्मात्परं धाम गमयैनं तवाव्ययम्

bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ |
kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam

18.46

इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ।
पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत्

iti vijñāpya devāya nāḍīsaṃdhānapūrvakam |
pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet

18.47

स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ।
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि

sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade |
dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi

18.48

भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ।
भूतानि स्थितयोगेन यो जपेत्परमे शिवे

bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ |
bhūtāni sthitayogena yo japetparame śive

18.49

विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ।
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः

viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ |
sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ

18.50

तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ।
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा

tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām |
śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā

18.51

विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ।
जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत्

vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt |
jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet

18.52

स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ।
बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत्

svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam |
buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet

18.53

आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ।
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान्

āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ |
śivatejomayasyāsya śiśorāpādayedguṇān

18.54

अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ।
तथैव तु गुणानेव पुनरस्योपपादयेत्

aṇimādīnprasīdeti pradadyādāhutitrayam |
tathaiva tu guṇāneva punarasyopapādayet

18.55

सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ।
अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च

sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam |
aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca

18.56

ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ।
अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम्

tato devamanujñāpya sadyādikalaśaistu tam |
abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam

18.57

अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ।
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत्

athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat |
labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet

18.58

ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ।
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम्

oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām |
śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm

18.59

ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ।
पूजां सावरणां शम्भोरासनानि च सन्दिशेत्

ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā |
pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet

18.60

पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ।
सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम्

punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam |
sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam

18.61

सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ।
प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि

sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale |
praṇamyodvāsayettasmānmaṃḍalātpāvakādapi

18.62

ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात्

tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt

18.63

सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः

sevyā vittānusāreṇa sadasyāśca sahartvijaḥ |
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)