वायवीय संहिता — उत्तर भाग

अध्याय 17: छह अध्व और शोधन की पूर्व-संध्या

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः ॥

45 श्लोक · 17 में से 41

इस अध्याय में क्या होता है

छह अध्व और शोधन की पूर्व-संध्या

उपमन्यु छह अध्व बताते हैं जिनका शोधन गुरु करते हैं: कला, तत्त्व, भुवन, वर्ण, पद और मन्त्र। निवृत्ति आदि पाँच कलाएँ शेष सबमें व्याप्त हैं। जो गुरु यह व्याप्ति नहीं जानता, उसे यह कर्म करने का अधिकार नहीं। वे पाँच कलश स्थापित करते हैं, बीच में ईशान और चारों ओर शेष ब्रह्ममूर्तियाँ, और अग्नि में पायस की आहुति देते हैं। शिष्य की शिखा से तिगुना सूत्र बाँधकर पैर के अँगूठे तक लटकाया जाता है, ध्यान में सुषुम्ना से जोड़ा जाता है, और उसी पर शिष्य का देह भावित किया जाता है। शिष्य बचा पायस खाता, पंचगव्य लेता और दातुन करता है, जिसके गिरने की दिशा से शुभ-अशुभ जाना जाता है। फिर वह भस्म, तिल और सरसों की रेखाओं के भीतर कुशों पर सोता है।

उपमन्युरुवाच

17.1

अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ।
षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये

ataḥ paraṃ samāvekṣya guruḥ śiṣyasya yogyatām |
ṣaḍadhvaśuddhiṃ kurvīta sarvabaṃdhavimuktaye

17.2

कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ।
मंत्रश्चेति समासेन षडध्वा परिपठ्यते

kalāṃ tattvaṃ ca bhuvanaṃ varṇaṃ padamataḥ param |
maṃtraśceti samāsena ṣaḍadhvā paripaṭhyate

17.3

निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ।
व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः

nivṛttyādyāḥ kalāḥ pañca kalādhvā kathyate budhaiḥ |
vyāptāḥ kalābhiritare tvadhvānaḥ pañca pañcabhiḥ

17.4

शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ।
षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः

śivatattvādibhūmyaṃtaṃ tattvādhvā samudāhṛtaḥ |
ṣaḍviṃśatsaṃkhyayopetaḥ śuddhāśuddhobhayātmakaḥ

17.5

आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ।
विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः

ādhārādyunmanāṃtaśca bhuvanādhvā prakīrtitaḥ |
vinā bhedopabhedābhyāṃ ṣaṣṭisaṃkhyāsamanvitaḥ

17.6

पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ।
अनेकभेदसंपन्नः पदाध्वा समुदाहृतः

pañcāśadrudrarūpāstu varṇā varṇādhvasaṃjñitāḥ |
anekabhedasaṃpannaḥ padādhvā samudāhṛtaḥ

17.7

सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ।
यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः

sarvopamaṃtrairmaṃtrādhvā vyāptaḥ paramavidyayā |
yathā śivo na tattveṣu gaṇyate tattvanāyakaḥ

17.8

मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ।
कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम्

maṃtrādhvani na gaṇyeta tathāsau maṃtranāyakaḥ |
kalādhvano vyāpakatvaṃ vyāpyatvaṃ cetarādhvanām

17.9

न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ।
षड्विधस्याध्वनो रूपं न येन विदितं भवेत्

na vetti tattvato yasya naivārhatyadhvaśodhanam |
ṣaḍvidhasyādhvano rūpaṃ na yena viditaṃ bhavet

17.10

व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ।
तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा

vyāpyavyāpakatā tena jñātumeva na śakyate |
tasmādadhvasvarūpaṃ ca vyāpyavyāpakatāṃ tathā

17.11

यथावदवगम्यैव कुर्यादध्वविशोधनम् ।
कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा

yathāvadavagamyaiva kuryādadhvaviśodhanam |
kuṃḍamaṃḍalaparyaṃtaṃ tatra kṛtvā yathā purā

17.12

द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ।
ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः

dvihastamānaṃ kurvīta prācyāṃ kalaśamaṃḍalam |
tataḥ snātaśśivācāryaḥ saśiṣyaḥ kṛtanaityakaḥ

17.13

प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ।
तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः

praviśya maṃḍalaṃ śaṃbhoḥ pūjāṃ pūrvavadācaret |
tatrāḍhakāvaraissiddhaṃ taṃdulaiḥ pāyasaṃ prabhoḥ

17.14

अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ।
पुरतः कल्पिते वाथ मंडले वर्णिमंडिते

ardhaṃ nivedya homārthaṃ śeṣaṃ samupakalpayet |
purataḥ kalpite vātha maṃḍale varṇimaṃḍite

17.15

स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ।
तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः

sthāpayetpañcakalaśāndikṣu madhye ca deśikaḥ |
teṣu brahmāṇi mūlārṇairbindunādasamanvitaiḥ

17.16

नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ।
ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते

nama ādyairyakarāṃtaiḥ kalpayetkalpavittamaḥ |
īśānaṃ madhyame kuṃbhe puruṣaṃ purataḥ sthite

17.17

अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ।
रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम्

aghoraṃ dakṣiṇe vāme vāmaṃ sadyaṃ ca paścime |
rakṣāṃ vidhāya mudrā ca baddhvā kuṃbhābhimaṃtraṇam

17.18

कृत्वा शिवानलैर्होमं प्रारभेत्यथा पुरा ।
यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम्

kṛtvā śivānalairhomaṃ prārabhetyathā purā |
yadardhaṃ pāyasaṃ pūrvaṃ homārthaṃ parikalpitam

17.19

हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ।
तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा

hutvā śiṣyasya taccheṣaṃ bhoktuṃ samupakalpayet |
tarpaṇāṃtaṃ ca maṃtrāṇāṃ kṛtvā karma yathā purā

17.20

हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ।
ओंकारादनु हुंकारं ततो मूलं फडंतकम्

hutvā pūrṇāhutiṃ teṣāṃ tataḥ kuryātpradīpanam |
oṃkārādanu huṃkāraṃ tato mūlaṃ phaḍaṃtakam

17.21

स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ।
तेषामाहुतयस्तिस्रो देया दीपनकर्मणि

svāhāṃtaṃ dīpane prāhuraṃgāni ca yathākramam |
teṣāmāhutayastisro deyā dīpanakarmaṇi

17.22

मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ।
त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम्

maṃtrairekaikaśastaistu vicintyā dīptamūrtayaḥ |
triguṇaṃ triguṇī kṛtya dvijakanyākṛtaṃ sitam

17.23

सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ।
चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः

sūtraṃ sūtreṇa saṃmaṃtrya śikhāgre baṃdhayecchiśoḥ |
caraṇāṃguṣṭhaparyaṃtamūrdhvakāyasya tiṣṭhataḥ

17.24

लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ।
शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित्

laṃbayitvā tu tatsūtraṃ suṣumṇāṃ tatra yojayet |
śāṃtayā mudrayādāya mūlamaṃtreṇa maṃtravit

17.25

हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ।
हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत्

hutvāhutitrayaṃ tasyāssānnidhyamupakalpayet |
hṛdi saṃtāḍya śiṣyasya puṣpakṣepeṇa pūrvavat

17.26

चैतन्यं समुपादाय द्वादशांते निवेद्य च ।
सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा

caitanyaṃ samupādāya dvādaśāṃte nivedya ca |
sūtraṃ sūtreṇa saṃyojya saṃrakṣyāstreṇa varmaṇā

17.27

अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ।
मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम्

avaguṃṭhyātha tatsūtraṃ śiṣyadehaṃ viciṃtayet |
mūlatrayamayaṃ pāśaṃ bhogabhogyatvalakṣaṇam

17.28

विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ।
व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः

viṣayendriyadehādijanakaṃ tasya bhāvayet |
vyomādibhūtarūpiṇyaḥ śāṃtyatītādayaḥ kalāḥ

17.29

सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ।
अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात्

sūtre svanāmabhiryojyaḥ pūjyaścaiva namoyutaiḥ |
athavā bījabhūtaistatkṛtvā pūrvoditaṃ kramāt

17.30

ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ।
कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः

tato malādestattvādau vyāptiṃ samalokayet |
kalāvyāptiṃ malādau ca hutvā saṃdīpayetkalāḥ

17.31

शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ।
शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन्

śiṣyaṃ śirasi saṃtāḍya sūtraṃ dehe yathākramam |
śāṃtyatītapade sūtraṃ lāñchayenmaṃtramuccaran

17.32

एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ।
हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत्

evaṃ kṛtvā nivṛttyantaṃ śāṃtyatītamanukramāt |
hutvāhutitrayaṃ paścānmaṇḍale ca śivaṃ yajet

17.33

देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ।
सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः

devasya dakṣiṇe śiṣyamupaveśyottarāmukham |
sadarbhe maṇḍale dadyāddhomaśiṣṭaṃ caruṃ guruḥ

17.34

शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ।
भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत्

śiṣyastadguruṇā dattaṃ satkṛtya śivapūrvakam |
bhuktvā paścāddvirācamya śivamantramudīrayet

17.35

अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ।
सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत्

apare maṇḍale dadyātpañcagavyaṃ tathā guruḥ |
so 'pi tacchaktitaḥ pītvā dvirācamya śivaṃ smaret

17.36

तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ।
प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम्

tṛtīye maṇḍale śiṣyamupaveśya yathā purā |
pradadyāddaṃtapavanaṃ yathāśāstroktalakṣaṇam

17.37

अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ।
वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत्

agreṇa tasya mṛdunā prāṅmukho vāpyudaṅmukhaḥ |
vācaṃ niyamya cāsīnaśśiṣyo daṃtānviśodhayet

17.38

प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ।
प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम्

prakṣālya daṃtapavanaṃ tyaktvācamya śivaṃ smaret |
praviśeddeśikādiṣṭaḥ prāṃjaliḥ śivamaṇḍalam

17.39

त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ।
प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम्

tyaktaṃ taddantapavanaṃ dṛśyate guruṇā yadi |
prāgudakpaścime vāgre śivamanyacchivetaram

17.40

अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ।
शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः

aśastāśāmukhe tasmingurustaddoṣaśāṃtaye |
śatamardhaṃ tadardhaṃ vājuhuyānmūlamantrataḥ

17.41

ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ।
देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत्

tataḥ śiṣyaṃ samālabhya japitvā karṇayoḥ śivam |
devasya dakṣiṇe bhāge taṃ śiṣyamadhivāsayet

17.42

अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ।
मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि

ahatāstaraṇāstīrṇe sa darbhaśayane śuciḥ |
maṃtrite 'ntaḥ śivaṃ dhyāyañśayīta prākchirā niśi

17.43

शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ।
आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा

śikhāyāṃ baddhasūtrasya śikhayā tacchikhāṃ guruḥ |
ābadhyāhatavastreṇa tamācchādya ca varmaṇā

17.44

रेखात्रयं च परितो भस्मना तिलसर्षपैः ।
कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत्

rekhātrayaṃ ca parito bhasmanā tilasarṣapaiḥ |
kṛtvāstrajaptaistadvāhye digīśānāṃ baliṃ haret

17.45

शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ।
प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत्

śiṣyo 'pi parato 'naśnankṛtvaivamadhivāsanam |
prabudhyotthāya gurave svapnaṃ dṛṣṭaṃ nivedayet

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)