अतः परं प्रवक्ष्यामि साधकं नाम नामतः ।
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ |
saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः ॥
27 श्लोक · 19 में से 41
उपमन्यु अब साधक-संस्कार बताते हैं। गुरु शिव-पूजा करके शिष्य का जल और पुष्पों से अभिषेक करते हैं और कहते हैं कि यह महामन्त्र इस लोक और परलोक की सब सिद्धियाँ देगा। फिर वे उसका पुरश्चरण सिखाते हैं, यद्यपि मुमुक्षु को इसमें अधिक लगने की आवश्यकता नहीं। शुभ दिन स्नान और शृंगार करके साधक शिव को पूजता और पायस अर्पित करता है। वह करोड़ बार जप करे, या आधा, या चौथाई, या बीस लाख। वह बिना नमक का पायस, या फल, मूल, दूध और दही खाए, अहिंसक और शान्त रहे, मन्त्रपूत जल से स्नान करे और प्रतिदिन होम करे। अथवा उपवास रखकर प्रतिदिन हजार जप करे। उसके लिए कुछ भी दुर्लभ नहीं। जप शुद्ध होकर, शिखा बाँधकर, यज्ञोपवीत, त्रिपुण्ड्र और रुद्राक्ष धारण करके किया जाता है।
उपमन्युरुवाच
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ।
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया
ataḥ paraṃ pravakṣyāmi sādhakaṃ nāma nāmataḥ |
saṃskāramantramāhātmyaṃ kathane sūcitaṃ mayā
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ।
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले
saṃpūjya maṃḍale devaṃ sthāpya kumbhe ca pūrvavat |
hutvā śiṣyamanuṣṇīṣaṃ prāpayedbhuvi maṃḍale
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ।
संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः
pūrvāṃtaṃ pūrvavatkṛtvā hutvāhutiśataṃ tathā |
saṃtarpya mūlamantreṇa kalaśairdeśikottamaḥ
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ।
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम्
sandīpya ca yathāpūrvaṃ kṛtvā pūrvoditaṃ kramāt |
abhiṣicya yathāpūrvaṃ pradadyānmantramuttamam
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ।
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत्
tatra vidyopadeśāṃtaṃ kṛtvā vistaraśaḥ kramāt |
puṣpāmbunā śiśoḥ pāṇau vidyāṃ śaivīṃ samarpayet
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ।
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः
tavaihikāmuṣmikayoḥ sarvasiddhiphalapradaḥ |
bhavatyeva mahāmantraḥ prasādātparameṣṭhinaḥ
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ।
साधनं शिवयोगं च साधकाय समादिशेत्
ityutvā devamabhyarcya labdhānujñaḥ śivādguruḥ |
sādhanaṃ śivayogaṃ ca sādhakāya samādiśet
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ।
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत्
tacchrutvā gurusaṃdeśaṃ kramaśo maṃtrasādhakaḥ |
purato viniyogasya mantrasādhanamācaret
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः
sādhanaṃ mūlamantrasya puraścaraṇamucyate |
purataścaraṇīyatvādviniyogākhyakarmaṇaḥ
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ।
कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत्
nātyantaṃ karaṇīyantu mumukṣormantrasādhanam |
kṛtantu tadihānyatra tāsyāpi śubhadaṃ bhavet
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ।
शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः
śubhe 'hani śubhe deśe kāle vā doṣavarjite |
śukladantanakhaḥ snātaḥ kṛtapūrvāhṇikakriyaḥ
अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ।
सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः
alaṃkṛtya yathā labdhairgaṃdhamālyavibhūṣaṇaiḥ |
soṣṇīṣaḥ sottarāsaṃgaḥ sarvaśuklasamāhitaḥ
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ।
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः
devālaye gṛhe 'nyasmindeśe vā sumanohare |
sukhenābhyastapūrveṇa tvāsanena kṛtāsanaḥ
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ।
संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम्
tanuṃ kṛtvātmanaḥ śaivīṃ śivaśāstroktavartmanā |
saṃpūjya devadeveśaṃ nakulīśvaramīśvaram
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ।
प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात्
nivedya pāyasaṃ tasmai samapyārādhanaṃ kramāt |
praṇipatya ca taṃ devaṃ prāptānujñaśca tanmukhāt
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ।
लक्षविंशतिकं वापि दशलक्षमथापि वा
koṭivāraṃ tadardhaṃ vā tadardhaṃ vā japecchivam |
lakṣaviṃśatikaṃ vāpi daśalakṣamathāpi vā
ततश्च पायसाक्षारलवणैकमिताशनः ।
अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत्
tataśca pāyasākṣāralavaṇaikamitāśanaḥ |
ahiṃsakaḥ kṣamī śāṃto dāṃtaścaiva sadā bhavet
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ।
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम्
alābhe pāyasasyāśnanphalamūlādikāni vā |
vihitāni śivenaiva viśiṣṭānyuttarottaram
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ।
शाकं पयो दधि घृतं मूलं फलमथोदकम्
caruṃ bhakṣyamatho saktukaṇānyāvakameva ca |
śākaṃ payo dadhi ghṛtaṃ mūlaṃ phalamathodakam
अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ।
साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः
abhimaṃtrya ca mantreṇa bhakṣyabhojyādikāni ca |
sādhane 'sminviśeṣeṇa nityaṃ bhuñjīta vāgyataḥ
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ।
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः
mantrāṣṭaśatapūtena jalena śucinā vratī |
snāyānnadīnadotthena prokṣayedvātha śaktitaḥ
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ।
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा
tarpayecca tathā nityaṃ juhuyācca śivānale |
saptabhiḥ pañcabhirdravyaistribhirvātha ghṛtena vā
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ।
तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते
itthaṃ bhaktyā śivaṃ śaivo yaḥ sādhayati sādhakaḥ |
tasyehāmutra duṣprāpaṃ na kiṃcidapi vidyate
अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ।
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम्
athavā 'haraharmaṃtraṃ japedekāgramānasaḥ |
anaśnanneva sāhasraṃ vinā mantrasya sādhanam
न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ।
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति
na tasya durlabhaṃ kiṃcinna tasyāstyaśubhaṃ kvacit |
iha vidyāṃ śriyaṃ saukhyaṃ labdhvā muktiṃ ca viṃdati
साधने विनियोगे च नित्ये नैमित्तिके तथा ।
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात्
sādhane viniyoge ca nitye naimittike tathā |
japejjalairbhasmanā ca snātvā mantreṇa ca kramāt
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ।
धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत्
śucirbaddhaśikhassūtrī sapavitrakarastathā |
dhṛtatripuṃḍrarudrākṣo vidyāṃ pañcākṣarīṃ japet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)