उमा संहिता

अध्याय 51: उमा का क्रियायोग और संहिता की समाप्ति

इति श्रीशिव महापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥

88 श्लोक · 51 में से 51

इस अध्याय में क्या होता है

उमा का क्रियायोग और संहिता की समाप्ति

व्यास सनत्कुमार से उमा का क्रियायोग पूछते हैं। सनत्कुमार कहते हैं कि ज्ञानयोग चित्त को आत्मा से जोड़ता है, क्रियायोग बाहरी कर्मों से चलता है: कर्म से भक्ति, भक्ति से ज्ञान और ज्ञान से मुक्ति। देवी का मन्दिर बनवाने से हजार पीढ़ियाँ तरती हैं, हर ईंट के बदले हजार वर्ष मणिद्वीप में वास मिलता है, और मूर्ति-स्थापना का पुण्य अपार है। जो केवल "उमा" ये दो अक्षर जपते हैं, वे शिव के गण बनते हैं। फिर पूजा बताई गई है, तुलसी और विष्णुक्रान्ता छोड़ सब फूल, कमल सबसे प्रिय; चैत्र और ज्येष्ठ शुक्ल तृतीया के व्रत; झूलनोत्सव और रथयात्रा; और नवरात्र व्रत, जिससे राजा सुदर्शन ने अयोध्या फिर पाई। सूत उमासंहिता के पाठ की महिमा कहकर इसे पूर्ण करते हैं।

मुनय ऊचुः

51.1

व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।
अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः

vyāsaśiṣya mahābhāga sūta paurāṇikottama |
aparaṃ śrotumicchāmaḥ kimapyākhyānamīśituḥ

51.2

उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ।
प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने

umāyā jagadambāyāḥ kriyāyogamanuttamam |
proktaṃ sanatkumāreṇa vyāsāya ca mahātmane

सूत उवाच

51.3

धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ।
पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात्

dhanyā yūyaṃ mahātmāno devībhaktidṛḍhavratāḥ |
parāśakteḥ paraṃ guptaṃ rahasyaṃ śṛṇutādarāt

व्यास उवाच

51.4

सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ।
उमायाश्श्रोतुमिच्छामि क्रियायोगं महाद्भुतम्

sanatkumāra sarvajña brahmaputra mahāmate |
umāyāśśrotumicchāmi kriyāyogaṃ mahādbhutam

51.5

कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ।
प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे

kīdṛkca lakṣaṇaṃ tasya kiṃ kṛte ca phalaṃ bhavet |
priyaṃ yacca parāmbāyāstadaśeṣaṃ vadasva me

सनत्कुमार उवाच

51.6

द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ।
तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः

dvaipāyana yadetattvaṃ rahasyaṃ paripṛcchasi |
tacchṛṇuṣva mahābuddhe sarvaṃ me varṇayiṣyataḥ

51.7

ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ।
त्रयो मार्गास्समाख्याताः श्रीमातुर्मुक्तिमुक्तिदा

jñānayogaḥ kriyāyogo bhaktiyogastathaiva ca |
trayo mārgāssamākhyātāḥ śrīmāturmuktimuktidā

51.8

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।
यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते

jñānayogastu saṃyogaścittasyaivātmanā tu yaḥ |
yastu bāhyārthasaṃyogaḥ kriyāyogaḥ sa ucyate

51.9

भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ।
त्रयाणामपि योगानां क्रियायोगस्स उच्यते

bhaktiyogo mato devyā ātmanaścaikyabhāvanam |
trayāṇāmapi yogānāṃ kriyāyogassa ucyate

51.10

कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।
ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः

karmaṇā jāyate bhaktirbhaktyā jñānaṃ prajāyate |
jñānātprajāyate muktiriti śāstreṣu niścayaḥ

51.11

प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ।
क्रियायोगस्तु योगस्य परमन्ध्येयसाधनम्

pradhānaṃ kāraṇaṃ yogo vimuktermunisattama |
kriyāyogastu yogasya paramandhyeyasādhanam

51.12

मायान्तु प्रकृतिं विद्यान्मायावि ब्रह्म शाश्वतम् ।
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात्

māyāntu prakṛtiṃ vidyānmāyāvi brahma śāśvatam |
abhinnaṃ tadvapurjñātvā mucyate bhavabandhanāt

51.13

यस्तु देव्यालयं कुर्यात्पाषाणन्दारवन्तथा ।
मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ।
अहन्यहनियोगेन जयतो यन्महाफलम्

yastu devyālayaṃ kuryātpāṣāṇandāravantathā |
mṛnmayaṃ vātha kāleya tasya puṇyaphalaṃ śṛṇu |
ahanyahaniyogena jayato yanmahāphalam

51.14

प्राप्नोति तत्फलन्देव्या यः कारयति मन्दिरम् ।
सहस्रकुलमागामि व्यतीतं च सहस्रकम् ।
तारयति धर्मात्मा श्रीमातुर्धाम कारयन्

prāpnoti tatphalandevyā yaḥ kārayati mandiram |
sahasrakulamāgāmi vyatītaṃ ca sahasrakam |
tārayati dharmātmā śrīmāturdhāma kārayan

51.15

कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति

koṭijanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu |
śrīmāturmandirārambhakṣaṇādeva praṇaśyati

51.16

नदीषु च यथा गंगा शोणः सर्वनदेषु च ।
क्षमायां च यथा पृथ्वी गांभीर्ये च यथोदधिः

nadīṣu ca yathā gaṃgā śoṇaḥ sarvanadeṣu ca |
kṣamāyāṃ ca yathā pṛthvī gāṃbhīrye ca yathodadhiḥ

51.17

ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते ॥ ।
तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते

grahāṇāṃ ca samastānāṃ yathā sūryo viśiṣyate || |
tathā sarveṣu deveṣu śrīparāmbā viśiṣyate

51.18

सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद्गृहम् ।
प्रतिष्ठां समवाप्नोति स च जन्म निजन्मनि

sarvadeveṣu sā mukhyā yastasyāḥ kārayedgṛham |
pratiṣṭhāṃ samavāpnoti sa ca janma nijanmani

51.19

वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ।
गंगासमुद्रतीरे च नैमिषेऽमरकण्टके

vārāṇasyāṃ kurukṣetre prayāge puṣkare tathā |
gaṃgāsamudratīre ca naimiṣe'marakaṇṭake

51.20

श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ।
मथुरायामयोध्यायां द्वारावत्यां तथैव च

śrīparvate mahāpuṇye gokarṇe jñānaparvate |
mathurāyāmayodhyāyāṃ dvārāvatyāṃ tathaiva ca

51.21

इत्यादि पुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ।
कारयन्मातुरावासं मुक्तो भवति बन्धनात्

ityādi puṇyadeśeṣu yatra kutra sthale'pi vā |
kārayanmāturāvāsaṃ mukto bhavati bandhanāt

51.22

इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि मणिद्वीपे महीयते

iṣṭakānāṃ tu vinyāso yāvadvarṣāṇi tiṣṭhati |
tāvadvarṣasahasrāṇi maṇidvīpe mahīyate

51.23

प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ।
स उमायाः परं लोकं निर्भयो व्रजति धुवम्

pratimāḥ kārayedyastu sarvalakṣaṇalakṣitāḥ |
sa umāyāḥ paraṃ lokaṃ nirbhayo vrajati dhuvam

51.24

देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुं ग्रहतारके ।
कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः

devīmūrtiṃ pratiṣṭhāpya śubhartuṃ grahatārake |
kṛtakṛtyo bhavenmartyo yogamāyāprasādataḥ

51.25

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।
तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम्

ye bhaviṣyanti ye'tītā ākalpātpuruṣāḥ kule |
tāṃstāṃstārayate devyā mūrtiṃ saṃsthāpya śobhanām

51.26

त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुंगव ।
तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत्

trilokīsthāpanātpuṇyaṃ yadbhavenmunipuṃgava |
tatkoṭiguṇitaṃ puṇyaṃ śrīdevīsthāpanādbhavet

51.27

मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ।
चतुर्द्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते

madhye devīṃ sthāpayitvā pañcāyatanadevatāḥ |
caturddikṣu sthāpayedyastasya puṇyaṃ na gaṇyate

51.28

विष्णोर्नाम्नां कोटिजपाद्ग्रहणेचन्द्रसूर्ययोः ।
यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम्

viṣṇornāmnāṃ koṭijapādgrahaṇecandrasūryayoḥ |
yatphalaṃ labhyate tasmācchatakoṭiguṇottaram

51.29

शिवनाम्नो जपादेव तस्मात्कोटि गुणोत्तरम् ।
श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम्

śivanāmno japādeva tasmātkoṭi guṇottaram |
śrīdevīnāmajāpāttu tataḥ koṭiguṇottaram

51.30

देव्याः प्रासादकरणात्पुण्यन्तु समवाप्यते ।
स्थापिता येन सा देवी जगन्माता त्रयीमयी

devyāḥ prāsādakaraṇātpuṇyantu samavāpyate |
sthāpitā yena sā devī jaganmātā trayīmayī

51.31

न तस्य दुर्लभं किंचिच्छ्रीमातुः करुणावशात् ।
वर्द्धते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम्

na tasya durlabhaṃ kiṃcicchrīmātuḥ karuṇāvaśāt |
varddhate putrapautrādyā naśyatyakhilakaśmalam

51.32

मनसा ये चिकीर्षंति मूर्तिस्थापनमुत्तमम् ।
तेत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम्

manasā ye cikīrṣaṃti mūrtisthāpanamuttamam |
tetyumāyāḥ paraṃ lokaṃ prayānti munidurlabham

51.33

क्रियमाणन्तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ।
कारयिष्याम्यहं यर्हि संपन्मे संभविष्यति

kriyamāṇantu yaḥ prekṣya cetasā hyanucintayet |
kārayiṣyāmyahaṃ yarhi saṃpanme saṃbhaviṣyati

51.34

एवन्तस्य कुलं सद्यो याति स्वर्गं न संशयः ।
महामायाप्रभावेण दुर्लभं किं जगत्त्रये

evantasya kulaṃ sadyo yāti svargaṃ na saṃśayaḥ |
mahāmāyāprabhāveṇa durlabhaṃ kiṃ jagattraye

51.35

श्रीपराम्बाजगद्योनिं केवलं ये समाश्रिताः ।
ते मनुष्या न मन्तव्यास्साक्षाद्देवीगणाश्च ते

śrīparāmbājagadyoniṃ kevalaṃ ye samāśritāḥ |
te manuṣyā na mantavyāssākṣāddevīgaṇāśca te

51.36

ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ।
उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः

ye vrajantaḥ svapantaśca tiṣṭhanto vāpyaharniśam |
umeti dvyakṣaraṃ nāma bruvate te śivāgaṇāḥ

51.37

नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम् ।
पुष्पैर्धूपैस्तथादीपैस्ते प्रयास्यन्त्युमालयम्

nitye naimittike devīṃ ye yajanti parāṃ śivām |
puṣpairdhūpaistathādīpaiste prayāsyantyumālayam

51.38

ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ।
उपलिंपन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम्

ye devīmaṇḍapaṃ nityaṃ gomayena mṛdāthavā |
upaliṃpanti mārjanti te prayāsyantyumālayam

51.39

यैर्देव्या मन्दिरं रम्यं निर्मापि तमनुत्तमम् ।
तत्कुलीनाञ्जनान्माता ह्याशिषः संप्रयच्छति

yairdevyā mandiraṃ ramyaṃ nirmāpi tamanuttamam |
tatkulīnāñjanānmātā hyāśiṣaḥ saṃprayacchati

51.40

मदीयाः शतवर्षाणि जीवन्तु प्रेमभाग्जनाः ।
नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम्

madīyāḥ śatavarṣāṇi jīvantu premabhāgjanāḥ |
nāpadāmayanānītthaṃ śrīmātā vaktyaharniśam

51.41

येन मूर्तिर्म्महादेब्या उमायाः कारिता शुभा ।
नरायुतन्तत्कुलजं मणिद्वीपे महीयते

yena mūrtirmmahādebyā umāyāḥ kāritā śubhā |
narāyutantatkulajaṃ maṇidvīpe mahīyate

51.42

स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च ।
यंयं प्रार्थयते कामं तंतं प्राप्नोति साधकः

sthāpayitvā mahāmāyāmūrtiṃ samyakprapūjya ca |
yaṃyaṃ prārthayate kāmaṃ taṃtaṃ prāpnoti sādhakaḥ

51.43

यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ।
घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः

yaḥ snāpayati śrīmātuḥ sthāpitāṃ mūrtimuttamām |
ghṛtena madhunāktena tatphalaṃ gaṇayettu kaḥ

51.44

चन्दनागुरुकर्पूर मांसीमुस्तादियुग्जलैः ।
एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम्

candanāgurukarpūra māṃsīmustādiyugjalaiḥ |
ekavarṇagavāṃ kṣīraiḥ snāpayetparameśvarīm

51.45

धूपेनाष्टादशांगेन दद्यादाहुतिमुत्तमाम् ।
नीराजनं चरेद्देव्या स्साज्यकर्पूरवर्तिभिः

dhūpenāṣṭādaśāṃgena dadyādāhutimuttamām |
nīrājanaṃ careddevyā ssājyakarpūravartibhiḥ

51.46

कृष्णाष्टम्यां नवम्यां वामायां वा पंचदिक्तिथौ ।
पूजयेज्जगतां धात्रीं गंधपुष्पैर्विशेषतः

kṛṣṇāṣṭamyāṃ navamyāṃ vāmāyāṃ vā paṃcadiktithau |
pūjayejjagatāṃ dhātrīṃ gaṃdhapuṣpairviśeṣataḥ

51.47

संपठञ्जननीसूक्तं श्रीसूक्तमथ वा पठन् ।
देवीसूक्तमथो वापि मूकमन्त्रमथापि वा

saṃpaṭhañjananīsūktaṃ śrīsūktamatha vā paṭhan |
devīsūktamatho vāpi mūkamantramathāpi vā

51.48

विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ।
देवीप्रीतिकरं ज्ञेयं कमलन्तु विशेषतः

viṣṇukrāntāṃ ca tulasīṃ varjayitvākhilaṃ sumam |
devīprītikaraṃ jñeyaṃ kamalantu viśeṣataḥ

51.49

अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ।
स याति परमं धाम सिद्धकोटि भिरन्वितम्

arpayetsvarṇapuṣpaṃ yo devyai rājatameva vā |
sa yāti paramaṃ dhāma siddhakoṭi bhiranvitam

51.50

पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम् ।
प्रसीद परमेशानि जगदानन्ददायिनि

pūjanānte sadā kāryaṃ dāsairenaḥ kṣamāpanam |
prasīda parameśāni jagadānandadāyini

51.51

इति वाक्यैस्स्तुवन्मन्त्री देवीभक्तिपरायणः ।
ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम्

iti vākyaisstuvanmantrī devībhaktiparāyaṇaḥ |
dhyāyetkaṇṭhīravārūḍhāṃ varadābhayapāṇikām

51.52

इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ।
नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत्

itthaṃ dhyātvā maheśānīṃ bhaktābhīṣṭaphalapradām |
nānāphalāni pakvāni naivedyatve prakalpayet

51.53

नैवेद्यं भक्षयेद्यस्तु शंभुशक्तेः परात्मनः ।
स निर्भूयाखिलं पङ्कं निर्मलो मानवो भवेत्

naivedyaṃ bhakṣayedyastu śaṃbhuśakteḥ parātmanaḥ |
sa nirbhūyākhilaṃ paṅkaṃ nirmalo mānavo bhavet

51.54

चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ।
भववन्धननिर्मुक्तः प्राप्नुयात्परमं पदम्

caitraśuklatṛtīyāyāṃ yo bhavānīvrataṃ caret |
bhavavandhananirmuktaḥ prāpnuyātparamaṃ padam

51.55

अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ।
पूजयेज्जगतां धात्रीमुमां शंकरसंयुताम्

asyāmeva tṛtīyāyāṃ kuryāddolotsavaṃ budhaḥ |
pūjayejjagatāṃ dhātrīmumāṃ śaṃkarasaṃyutām

51.56

कुसुमैः कुंकुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ।
धूपैर्द्दीपैस्सनैवेद्यैः स्रग्गन्धैरपरैरपि

kusumaiḥ kuṃkumairvastraiḥ karpūrāgurucandanaiḥ |
dhūpairddīpaissanaivedyaiḥ sraggandhairaparairapi

51.57

आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ।
श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम्

āndolayettato devīṃ mahāmāyāṃ maheśvarīm |
śrīgaurīṃ śivasaṃyuktāṃ sarvakalyāṇakāriṇīm

51.58

प्रत्यब्दं कुरुते योस्यां बतमान्दोलनं तथा ।
नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति

pratyabdaṃ kurute yosyāṃ batamāndolanaṃ tathā |
niyamena śivā tasmai sarvamiṣṭaṃ prayacchati

51.59

माधवस्य सिते पक्षे तृतीया याऽक्षयाभिधा ।
तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः

mādhavasya site pakṣe tṛtīyā yā'kṣayābhidhā |
tasyāṃ yo jagadambāyā vrataṃ kuryādatandritaḥ

51.60

मल्लिकामालतीचंपाजपाबन्धूकपंकजैः ।
कुसुमैः पूजयेद्गौरीं शंकरेण समन्विताम्

mallikāmālatīcaṃpājapābandhūkapaṃkajaiḥ |
kusumaiḥ pūjayedgaurīṃ śaṃkareṇa samanvitām

51.61

कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ।
निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते

koṭijanmakṛtaṃ pāpaṃ manovākkāyasambhavam |
nirdhūya caturo vargānakṣayāniha so'śnute

51.62

ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ।
योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किंचन

jyeṣṭhe śuklatṛtīyāyāṃ vrataṃ kṛtvā maheśvarīm |
yo'rcayetparamaprītyā tasyāsādhyaṃ na kiṃcana

51.63

आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ।
देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः

āṣāḍhaśuklapakṣīyatṛtīyāyāṃ rathotsavama |
devyāḥ priyatamaṃ kuryādyathāvittānusārataḥ

51.64

रथं पृथ्वीं विजानीयाद्रथांगे चन्द्रभास्करौ ।
वेदानश्वान्विजानीयात्सारथिं पद्मसं भवम्

rathaṃ pṛthvīṃ vijānīyādrathāṃge candrabhāskarau |
vedānaśvānvijānīyātsārathiṃ padmasaṃ bhavam

51.65

नानामणिगणाकीर्णं पुष्पमालाविराजितम् ।
एवं रथं कल्पयित्वा तस्मिन्त्संस्थापयेच्छिवाम्

nānāmaṇigaṇākīrṇaṃ puṣpamālāvirājitam |
evaṃ rathaṃ kalpayitvā tasmintsaṃsthāpayecchivām

51.66

लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ।
रथमध्ये संस्थितेति भावयेन्मतिमान्नरः

lokasaṃrakṣaṇārthāya lokaṃ draṣṭuṃ parāmbikā |
rathamadhye saṃsthiteti bhāvayenmatimānnaraḥ

51.67

रथे प्रचलिते मन्दं जयशब्दमुदीरयेत् ।
पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले

rathe pracalite mandaṃ jayaśabdamudīrayet |
pāhi devi janānasmānprapannāndīnavatsale

51.68

इति वाक्यैस्तोषयेच्च नानावादित्रनिस्वनैः ।
सीमान्ते तु रथं नीत्वा तत्र संपूजये द्रथे

iti vākyaistoṣayecca nānāvāditranisvanaiḥ |
sīmānte tu rathaṃ nītvā tatra saṃpūjaye drathe

51.69

नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ।
प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम्

nānāstotraistataḥ stutvāpyānayettāṃ svaveśmani |
praṇipātaśataṃ kṛtvā prārthayejjagadambikām

51.70

एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ।
इह भुक्त्वाखिलान्भोगान्सोन्ते देवीपदं व्रजेत्

evaṃ yaḥ kurute vidvānpūjāvratarathotsavam |
iha bhuktvākhilānbhogānsonte devīpadaṃ vrajet

51.71

शुक्लायान्तु तृतीयायामेवं श्रावणभाद्रयोः ।
यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि

śuklāyāntu tṛtīyāyāmevaṃ śrāvaṇabhādrayoḥ |
yo vrataṃ kurute'mbāyāḥ pūjanaṃ ca yathāvidhi

51.72

मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ।
सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम्

modate putrapautrādyairdhanādyairiha santatam |
so'nte gacchedumālokaṃ sarvalokopari sthitam

51.73

आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ।
यत्कृते सकलाः कामास्सिद्ध्यन्त्येव न संशयः

āśvine dhavale pakṣe navarātravrataṃ caret |
yatkṛte sakalāḥ kāmāssiddhyantyeva na saṃśayaḥ

51.74

नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ।
चतुरास्यो न पंचास्यो न षडास्यो न कोऽपरः

navarātravratasyāsya prabhāvaṃ vaktumīśvaraḥ |
caturāsyo na paṃcāsyo na ṣaḍāsyo na ko'paraḥ

51.75

नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः ।
हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः

navarātravrataṃ kṛtvā bhūpālo virathātmajaḥ |
hṛtaṃ rājyaṃ nijaṃ lebhe suratho munisattamāḥ

51.76

ध्रुवसंधिसुतो धीमानयोध्याधिपतिर्नृपः ।
सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः

dhruvasaṃdhisuto dhīmānayodhyādhipatirnṛpaḥ |
sudarśano hṛtaṃ rājyaṃ prāpadasya prabhāvataḥ

51.77

व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम् ।
संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत्

vratarājamimaṃ kṛtvā samārādhya maheśvarīm |
saṃsārabandhanānmuktaḥ samādhirmuktibhāgabhūt

51.78

तृतीयायां च पञ्चम्यां सप्तम्याम ष्टमीतिथौ ।
नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः

tṛtīyāyāṃ ca pañcamyāṃ saptamyāma ṣṭamītithau |
navamyāṃ vā caturdaśyāṃ yo devī pūjayennaraḥ

51.79

आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ।
तस्य सर्वं मनोभीष्टं पूरयत्यनिशं शिवा

āśvinasya site pakṣe vrataṃ kṛtvā vidhānataḥ |
tasya sarvaṃ manobhīṣṭaṃ pūrayatyaniśaṃ śivā

51.80

यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ।
तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत्

yaḥ kārttikasya mārgasya pauṣasya tapasastathā |
tapasyasya site pakṣe tṛtīyāyāṃ vrataṃ caret

51.81

लोहितैः करवीराद्यैः पुष्पैर्धूपैस्सुगन्धितैः ।
पूजयेन्मङ्गलान्देवीं स सर्वं मंगलं लभेत्

lohitaiḥ karavīrādyaiḥ puṣpairdhūpaissugandhitaiḥ |
pūjayenmaṅgalāndevīṃ sa sarvaṃ maṃgalaṃ labhet

51.82

सौभाग्याय सदा स्त्रीभिः कार्य्यमेतन्महाव्रतम् ।
विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि

saubhāgyāya sadā strībhiḥ kāryyametanmahāvratam |
vidyādhanasutāptyarthaṃ vidheyaṃ puruṣairapi

51.83

उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ।
देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः

umāmaheśvarādīni vratānyanyāni yānyapi |
devīpriyāṇi kāryāṇi svabhaktyaivaṃ mumukṣubhiḥ

51.84

संहितेयं महापुण्या शिवभक्तिविवर्द्धिनी ।
नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा

saṃhiteyaṃ mahāpuṇyā śivabhaktivivarddhinī |
nānākhyānasamāyuktā bhuktimuktipradā śivā

51.85

य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
पठेद्वा पाठयेद्वापि स याति परमां गतिम्

ya enāṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ |
paṭhedvā pāṭhayedvāpi sa yāti paramāṃ gatim

51.86

यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ।
संपूजिता च विधिवत्सर्वान्कामान्स आप्नुयात्

yasya gehe sthitā ceyaṃ likhitā lalitākṣaraiḥ |
saṃpūjitā ca vidhivatsarvānkāmānsa āpnuyāt

51.87

भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित ।
पुत्रपौत्रादिसम्पत्तिं लभत्येव न संशयः

bhūtapretapiśācādiduṣṭebhyo na bhayaṃ kvacita |
putrapautrādisampattiṃ labhatyeva na saṃśayaḥ

51.88

तस्मादियं महापुण्या रम्योमासंहिता सदा ।
श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः

tasmādiyaṃ mahāpuṇyā ramyomāsaṃhitā sadā |
śrotavyā paṭhitavyā ca śivabhaktimabhīpsubhiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)