उमा संहिता

अध्याय 33: मरुतों का जन्म और ब्रह्मा द्वारा राज्य-विभाजन

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रयस्त्रिंशत्तमोध्यायः ॥

31 श्लोक · 33 में से 51

इस अध्याय में क्या होता है

मरुतों का जन्म और ब्रह्मा द्वारा राज्य-विभाजन

पुत्रों के मारे जाने पर दिति कश्यप की सेवा कर इन्द्र को मारने में समर्थ पुत्र माँगती हैं; कश्यप सौ वर्ष के ब्रह्मचर्य की शर्त पर वर देते हैं। इन्द्र अवसर ताकते हैं, और जब अवधि पूरी होने से पहले दिति बिना पैर धोए सो जाती हैं, तो वे गर्भ में प्रवेश कर शिशु के सात टुकड़े करते हैं, फिर हर टुकड़े के सात। रोते हुए वे कहते हैं, "इन्द्र, हमें क्यों मारते हो? हम तुम्हारे भाई हैं।" इन्द्र उन्हें अपना लेते हैं, और शंकर की इच्छा से वे उनचास मरुत बनते हैं। फिर ब्रह्मा पृथु का अभिषेक कर राज्य बाँटते हैं: सोम को ब्राह्मण और औषधियाँ, वरुण को जल, यम को पितर, गिरीश को यक्ष और भूत, हिमवान को पर्वत, वट को वृक्ष, और चारों दिशाओं के चार राजा।

सूत उवाच

33.1

एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः ।
वैवस्वते तु महति वारुणे वितते क्रतौ

eṣa manvantare tāta sargassvārociṣe smṛtaḥ |
vaivasvate tu mahati vāruṇe vitate kratau

33.2

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।
पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान्

juhvānasya brahmaṇo vai prajāsarga ihocyate |
pūrvaṃ yānatha brahmarṣīnutpannānsapta mānasān

33.3

पुत्रान्वै कल्पयामास स्वयमेव पितामहः ।
तेषां विरोधो देवानां दानवानां महानृषे

putrānvai kalpayāmāsa svayameva pitāmahaḥ |
teṣāṃ virodho devānāṃ dānavānāṃ mahānṛṣe

33.4

दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता ।
स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया

diti vinaṣṭaputrā tu kaśyapaṃ samupasthitā |
sa kaśyapaḥ prasannātmā samgayagārādhitastayā

33.5

वरेणच्छंदयामास सा च वव्रे वरं तदा ।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम्

vareṇacchaṃdayāmāsa sā ca vavre varaṃ tadā |
putramindravadhārthāya samarthamamitaujasam

33.6

स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ।
ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः

sa tasyai ca varaṃ prādātprārthitaṃ sumahātapāḥ |
brahmacaryyādiniyamaṃ prāha caiva śataṃ samāḥ

33.7

धारयामास गर्भं तु शुचिस्सा वरवर्णिनी ।
ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै

dhārayāmāsa garbhaṃ tu śucissā varavarṇinī |
brahmacaryyādiniyamaṃ ditirdadhre tathaiva vai

33.8

ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः ।
जगाम कश्यपस्तप्तुं तपस्संहृष्टमानसः

tatastvādhāya so'dityāṃ garbhaṃ taṃ śaṃsitavrataḥ |
jagāma kaśyapastaptuṃ tapassaṃhṛṣṭamānasaḥ

33.9

तस्याश्चैवांतरं प्रेप्सुस्सोऽभवत्पाकशासनः ।
ऊनवर्षे शते चास्या ददर्शान्तरमेव सः

tasyāścaivāṃtaraṃ prepsusso'bhavatpākaśāsanaḥ |
ūnavarṣe śate cāsyā dadarśāntarameva saḥ

33.10

अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा ।
निद्रामाहारयामास भाविनोऽर्थस्य गौरवात्

akṛtvā pādayoḥ śaucaṃ ditirarvākśirāstadā |
nidrāmāhārayāmāsa bhāvino'rthasya gauravāt

33.11

एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।
वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत

etasminnantare śakrastasyāḥ kukṣiṃ praviśya saḥ |
vajrapāṇistu taṃ garbhaṃ saptadhā hi nyakṛntata

33.12

स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ।
रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः ।
चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते

sa pāṭyamāno garbho'tha vajreṇa praruroda ha |
rudantaṃ saptadhaikaikaṃ mārodīriti tānpunaḥ |
cakarta vajrapāṇistānneva mamrustathāpi te

33.13

ते तमूचुः पात्यमानास्सर्वे प्रांजलयो मुने ।
नो जिघांससि किं शक्र भ्रातरो मरुतस्तव

te tamūcuḥ pātyamānāssarve prāṃjalayo mune |
no jighāṃsasi kiṃ śakra bhrātaro marutastava

33.14

इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ॥ ।
तत्यजुर्द्दैत्यभावं ते विप्रर्षे शंकरेच्छया

iṃdreṇa svīkṛtāste hi bhrātṛtve sarva eva ca || |
tatyajurddaityabhāvaṃ te viprarṣe śaṃkarecchayā

33.15

मरुतो नाम ते देवा बभूवुस्तु महाबलाः ।
खगा एकोनपंचाशत्सहाया वज्रपाणिनः

maruto nāma te devā babhūvustu mahābalāḥ |
khagā ekonapaṃcāśatsahāyā vajrapāṇinaḥ

33.16

तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ।
क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत्

teṣāmeva pravṛddhānāṃ hariḥ prādātprajāpatiḥ |
kramaśastāni rājyāni pṛthupūrvaṃ śṛṇuṣva tat

33.17

अरिष्टपुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत्

ariṣṭapuruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ |
parjanyastu dhanādhyakṣastasya sarvamidaṃ jagat

33.18

भूतसर्गमिमं सम्यगवोचं ते महामुने ।
विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना

bhūtasargamimaṃ samyagavocaṃ te mahāmune |
vibhāgaṃ śṛṇu rājyānāṃ kramaśastaṃ bruve'dhunā

33.19

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे

abhiṣicyādhirājye tu pṛthuṃ vainyaṃ pitāmahaḥ |
tataḥ krameṇa rājyāni vyādeṣṭumupacakrame

33.20

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्

dvijānāṃ vīrudhāṃ caiva nakṣatragrahayostathā |
yajñānāṃ tapasāṃ caiva somaṃ rājye'bhyaṣecayat

33.21

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम्

apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ prabhum |
ādityānāṃ tathā viṣṇuṃ vasūnāmatha pāvakam

33.22

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम्

prajāpatīnāṃ dakṣaṃ tu marutāmatha vāsavam |
daityānāṃ dānavānāṃ ca prahlādamamitaujasam

33.23

वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम्

vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye'bhyaṣecayat |
mātṝṇāṃ ca vratānāṃ ca mantrāṇāṃ ca tathā gavām

33.24

यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम्

yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca |
sarvabhūtapiśācānāṃ giriśaṃ śūlapāṇinam

33.25

शैलानां हिमवन्तं च नदीनामथ सागरम् ।
मृगाणामथ शार्दूलं गोवृषं तु गवामपि

śailānāṃ himavantaṃ ca nadīnāmatha sāgaram |
mṛgāṇāmatha śārdūlaṃ govṛṣaṃ tu gavāmapi

33.26

वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ।
इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात्

vanaspatīnāṃ vṛkṣāṇāṃ vaṭaṃ rājye'bhyaṣecayat |
iti dattaṃ prajeśena rājyaṃ sarvatra vai kramāt

33.27

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।
स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः

pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ |
sthāpayāmāsa sarvātmā rājye viśvapatirvibhuḥ

33.28

तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ।
दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत्

tathaiva muniśārdūla kardamasya prajāpateḥ |
dakṣiṇasyāṃ tathā putraṃ sudhanvānamacīklṛpat

33.29

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः

paścimāyāṃ diśi tathā rajasaḥ putramacyutam |
ketumantaṃ mahātmānaṃ rājānaṃ vyādiśatprabhuḥ

33.30

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत्

tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ |
udīcyāṃ diśi rājānaṃ durdharṣaṃ so'bhyaṣecayat

33.31

तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक ।
महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम्

tasya vistāramākhyātaṃ pṛthorvenyasya śaunaka |
mahardhye tadadhiṣṭhānaṃ purāṇe parikīrtitam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)