शतरुद्र संहिता

अध्याय 40: बाण को लेकर विवाद

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायाम किरातावतारवर्णने भिल्लार्जुनसंवादोनाम चत्वारिंशोऽध्यायः ॥

49 श्लोक · 40 में से 42

इस अध्याय में क्या होता है

बाण को लेकर विवाद

शिव एक अनुचर को बाण लाने भेजते हैं, और उसी समय अर्जुन भी अपना बाण लेने पहुँचते हैं। अर्जुन उसे डाँटकर बाण उठा लेते हैं। भील गण उसे अपने स्वामी का बताता है। शंकर का स्मरण करते हुए अर्जुन उसे मूर्ख वनवासी कहते हैं: बाण मेरा है। गण उत्तर देता है कि उसके स्वामी, भीलों के नायक, दण्ड और कृपा दोनों में समर्थ हैं; उन्होंने शत्रु को मारा और बाण की रक्षा की, इसलिए अर्जुन कृतघ्न हैं और उनका तप दिखावा है। अर्जुन कहते हैं कि यदि नायक को बाण चाहिए तो स्वयं आकर लड़े। जब गण चेताता है कि भाई और पत्नी दुःखी होंगे और राज्य जाएगा, तब अर्जुन कहते हैं कि सिंह सियार से नहीं डरता। यह सुनकर किरात रूप महादेव सेना सहित आते हैं।

नन्दीश्वर उवाच

40.1

सनत्कुमार सर्वज्ञ शृणु लीलाम्परात्मनः ।
भक्तवात्सल्यसंयुक्तां तद्दृढत्वविदर्भिताम्

sanatkumāra sarvajña śṛṇu līlāmparātmanaḥ |
bhaktavātsalyasaṃyuktāṃ taddṛḍhatvavidarbhitām

40.2

शिवोप्यथ स्वभृत्यं वै प्रेषयामास स द्रुतम् ।
बाणार्थे च तदा तत्रार्जुनोपि समगात्ततः

śivopyatha svabhṛtyaṃ vai preṣayāmāsa sa drutam |
bāṇārthe ca tadā tatrārjunopi samagāttataḥ

40.3

एकस्मिन् समये प्राप्तौ बाणार्थं तद्गणार्जुनौ ।
अर्जुनस्तं पराभर्त्स्य स्वबाणं चाग्रहीत्तदा

ekasmin samaye prāptau bāṇārthaṃ tadgaṇārjunau |
arjunastaṃ parābhartsya svabāṇaṃ cāgrahīttadā

40.4

गण प्रोवाच तं तत्र किमर्थं गृह्यते शरः ।
बाणश्चैवास्मदीयो वै मुच्यतां ऋषिसत्तम

gaṇa provāca taṃ tatra kimarthaṃ gṛhyate śaraḥ |
bāṇaścaivāsmadīyo vai mucyatāṃ ṛṣisattama

40.5

इत्युक्तस्तेन भिल्लस्य गणेन मुनिसत्तमः ।
सोर्जुनः शंकरं स्मृत्वा वचनं च तमब्रवीत्

ityuktastena bhillasya gaṇena munisattamaḥ |
sorjunaḥ śaṃkaraṃ smṛtvā vacanaṃ ca tamabravīt

अर्जुन उवाच

40.6

अज्ञात्वा किंच वदसि मूर्खोसि त्वं वनेचर ।
बाणश्च मोचितो मेऽद्य त्वदीयश्च कथं पुनः

ajñātvā kiṃca vadasi mūrkhosi tvaṃ vanecara |
bāṇaśca mocito me'dya tvadīyaśca kathaṃ punaḥ

40.7

रेखारूपं च पिच्छानि मन्नामांकित एव च ।
त्वदीयश्च कथं जातः स्वभावो दुस्त्यजस्तव

rekhārūpaṃ ca picchāni mannāmāṃkita eva ca |
tvadīyaśca kathaṃ jātaḥ svabhāvo dustyajastava

नन्दीश्वर उवाच

40.8

इत्येवन्तद्वचः श्रुत्वा विहस्य स गणेश्वरः ।
अर्जुनं ऋषिरूपं तं भिल्लो वाक्यमुपाददे

ityevantadvacaḥ śrutvā vihasya sa gaṇeśvaraḥ |
arjunaṃ ṛṣirūpaṃ taṃ bhillo vākyamupādade

40.9

तापस श्रूयतां रे त्वं न तपः क्रियते त्वया ।
वेषतश्च तपस्वी त्वं न यथार्थं छलायते

tāpasa śrūyatāṃ re tvaṃ na tapaḥ kriyate tvayā |
veṣataśca tapasvī tvaṃ na yathārthaṃ chalāyate

40.10

तपस्वी च कथं मिथ्या भाषते कुरुते नरः ।
नैकाकिनं च मां त्वं च जानीहि वाहिनीपतिम्

tapasvī ca kathaṃ mithyā bhāṣate kurute naraḥ |
naikākinaṃ ca māṃ tvaṃ ca jānīhi vāhinīpatim

40.11

बहुभिर्वनभिल्लैश्च युक्तः स्वामी स आसत ।
समर्थस्सर्वथा कर्तुं विग्रहानुग्रहौ पुनः

bahubhirvanabhillaiśca yuktaḥ svāmī sa āsata |
samarthassarvathā kartuṃ vigrahānugrahau punaḥ

40.12

वर्तते तस्य वाणीयं यो नीतश्च त्वयाधुना ।
अयं बाणश्च ते पार्श्वे न स्थास्यति कदाचन

vartate tasya vāṇīyaṃ yo nītaśca tvayādhunā |
ayaṃ bāṇaśca te pārśve na sthāsyati kadācana

40.13

तपःफलं कथं त्वं च हातुमिच्छसि तापस ।
चौर्य्याच्छलार्द्यमानाच्च विस्मयात्सत्य भञ्जनात्

tapaḥphalaṃ kathaṃ tvaṃ ca hātumicchasi tāpasa |
cauryyācchalārdyamānācca vismayātsatya bhañjanāt

40.14

तपसा क्षीयते सत्यमेतदेव मया श्रुतम् ।
तस्माच्च तपसस्तेद्य भविष्यति फलं कुतः

tapasā kṣīyate satyametadeva mayā śrutam |
tasmācca tapasastedya bhaviṣyati phalaṃ kutaḥ

40.15

तस्माच्च मुच्यते बाणात्कृतघ्नस्त्वं भविष्यसि ।
ममैव स्वामिनो बाणस्तवार्थे मोचितो ध्रुवम्

tasmācca mucyate bāṇātkṛtaghnastvaṃ bhaviṣyasi |
mamaiva svāmino bāṇastavārthe mocito dhruvam

40.16

शत्रुश्च मारितस्तेन पुनर्बाणश्च रक्षितः ।
अत्यन्तं च कृतघ्नोसि तपोशुभकरस्तथा

śatruśca māritastena punarbāṇaśca rakṣitaḥ |
atyantaṃ ca kṛtaghnosi tapośubhakarastathā

40.17

सत्यं न भाषसे त्वं च किमतः सिद्धिमिच्छसि ।
प्रयोजनं चेद्बाणेन स्वामी च याच्यतां मम

satyaṃ na bhāṣase tvaṃ ca kimataḥ siddhimicchasi |
prayojanaṃ cedbāṇena svāmī ca yācyatāṃ mama

40.18

ईदृशांश्च बहून्बाणांस्तदा दातुं क्षमः स्वयम् ।
राजा च वर्तते मेऽद्य किं त्वेवं याच्यते त्वया

īdṛśāṃśca bahūnbāṇāṃstadā dātuṃ kṣamaḥ svayam |
rājā ca vartate me'dya kiṃ tvevaṃ yācyate tvayā

40.19

उपकारं परित्यज्य ह्यपकारं समीहसे ।
नैतद्युक्तं त्वयाद्यैव क्रियते त्यज चापलम्

upakāraṃ parityajya hyapakāraṃ samīhase |
naitadyuktaṃ tvayādyaiva kriyate tyaja cāpalam

40.20

इत्येवं वचनन्तस्य श्रुत्वा पार्थोर्जुनस्तदा ।
क्रोधं कृत्वा शिवं स्मृत्वा मितं वाक्यमथाब्रवीत्

ityevaṃ vacanantasya śrutvā pārthorjunastadā |
krodhaṃ kṛtvā śivaṃ smṛtvā mitaṃ vākyamathābravīt

अर्जुन उवाच

40.21

शृणु भिल्ल प्रवक्ष्यामि न सत्यं तव भाषणम् ।
यथा जातिस्तथा त्वां च जानामि हि वनेचर

śṛṇu bhilla pravakṣyāmi na satyaṃ tava bhāṣaṇam |
yathā jātistathā tvāṃ ca jānāmi hi vanecara

40.22

अहं राजा भवांश्चौरः कथं युद्धप्रयुक्तता ।
युद्धं मे सबलैः कार्यं नाधमैर्हि कदाचन

ahaṃ rājā bhavāṃścauraḥ kathaṃ yuddhaprayuktatā |
yuddhaṃ me sabalaiḥ kāryaṃ nādhamairhi kadācana

40.23

तस्मात्ते च तथा स्वामी भविष्यति भवादृशः ।
दातारश्च वयं प्रोक्ताश्चौरा यूयं वनेचराः

tasmātte ca tathā svāmī bhaviṣyati bhavādṛśaḥ |
dātāraśca vayaṃ proktāścaurā yūyaṃ vanecarāḥ

40.24

कथं याच्यो मया भिल्लराज एवं च साम्प्रतम् ।
त्वमेव याचसे नैव बाणं मां किं वनेचरः

kathaṃ yācyo mayā bhillarāja evaṃ ca sāmpratam |
tvameva yācase naiva bāṇaṃ māṃ kiṃ vanecaraḥ

40.25

ददामि ते तथा बाणान्सन्ति मे बहवो ध्रुवम् ।
राजा च ग्रहणं चैव न दास्यति तथा भवेत्

dadāmi te tathā bāṇānsanti me bahavo dhruvam |
rājā ca grahaṇaṃ caiva na dāsyati tathā bhavet

40.26

किम्पुनश्च तथा बाणान्प्रयच्छामि वनेचर ।
यदि मे या चिकीर्षा स्यात्कथं नागम्यतेऽधुना

kimpunaśca tathā bāṇānprayacchāmi vanecara |
yadi me yā cikīrṣā syātkathaṃ nāgamyate'dhunā

40.27

यथागच्छतु ते भर्ता किमर्थं भाषतेऽधुना ।
आगत्य च मया सार्द्धं जित्वा युद्धे च माम्पुनः

yathāgacchatu te bhartā kimarthaṃ bhāṣate'dhunā |
āgatya ca mayā sārddhaṃ jitvā yuddhe ca māmpunaḥ

40.28

नीत्वा बाणमिमं भिल्ल स्वामी ते वाहिनीपतिः ।
निजालयं सुखं यातु विलंबः क्रियते कथम्

nītvā bāṇamimaṃ bhilla svāmī te vāhinīpatiḥ |
nijālayaṃ sukhaṃ yātu vilaṃbaḥ kriyate katham

नन्दीश्वर उवाच

40.29

महेश्वरकृपाप्राप्तसद्बलस्यार्जुनस्य हि ।
इत्येतद्वचनं श्रुत्वा भिल्लो वाक्यमथाब्रवीत्

maheśvarakṛpāprāptasadbalasyārjunasya hi |
ityetadvacanaṃ śrutvā bhillo vākyamathābravīt

भिल्ल उवाच

40.30

अज्ञोसि त्वं ऋषिर्नासि मरणं त्वीहसे कथम् ।
देहि बाणं सुखन्तिष्ठ त्वन्यथा क्लेशभाग्भवेः

ajñosi tvaṃ ṛṣirnāsi maraṇaṃ tvīhase katham |
dehi bāṇaṃ sukhantiṣṭha tvanyathā kleśabhāgbhaveḥ

नन्दीश्वर उवाच

40.31

इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ।
गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम्

ityuktastena bhillena śivasacchaktiśobhinā |
gaṇena pāṇḍavastaṃ ca prāha smṛtvā ca śaṅkaram

अर्जुन उवाच

40.32

मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर ।
आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा

madvākyantattvato bhilla śṛṇu tvaṃ ca vanecara |
āgamiṣyati te svāmī darśayiṣye phalantadā

40.33

न शोभते त्वया युद्धं करिष्ये स्वामिना तव ।
उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः

na śobhate tvayā yuddhaṃ kariṣye svāminā tava |
upahāsakaraṃ jñeyaṃ yuddhaṃ siṃhasṛgālayoḥ

40.34

श्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ।
गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु

śrutaṃ ca madvacaste'dya drakṣyasi tvaṃ mahābalam |
gaccha svasvāminaṃ bhilla yathecchasi tathā kuru

नन्दीश्वर उवाच

40.35

इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ।
शिवावतारो यत्रास्ते किरातो वाहिनीपतिः

ityuktastu gatastatra bhillaḥ pārthena vai mune |
śivāvatāro yatrāste kirāto vāhinīpatiḥ

40.36

अथार्जुनस्य वचनं भिल्लनाथाय विस्तरात् ।
सर्वं निवेदयामास तस्यै भिल्लपरात्मने

athārjunasya vacanaṃ bhillanāthāya vistarāt |
sarvaṃ nivedayāmāsa tasyai bhillaparātmane

40.37

स किरातेश्वरः श्रुत्वा तद्वचो हर्षमागतः ।
आजगाम स्वसैन्येन शंकरो भिल्लरूपधृक्

sa kirāteśvaraḥ śrutvā tadvaco harṣamāgataḥ |
ājagāma svasainyena śaṃkaro bhillarūpadhṛk

40.38

अर्जुनश्च तदा सेनां किरातस्य च पाण्डवः ।
दृष्ट्वा गृहीत्वा सशरन्धनुः सन्मुख आययौ

arjunaśca tadā senāṃ kirātasya ca pāṇḍavaḥ |
dṛṣṭvā gṛhītvā saśarandhanuḥ sanmukha āyayau

40.39

अथो किरातश्च पुनः प्रेषयामास तं चरम् ।
तन्मुखेन जगौ वाक्यम्भारताय महात्मने

atho kirātaśca punaḥ preṣayāmāsa taṃ caram |
tanmukhena jagau vākyambhāratāya mahātmane

किरात उवाच

40.40

पश्य सैन्यं तपस्विस्त्वं मुञ्च बाणं व्रजाधुना ।
मरणं स्वल्पकार्यार्थं कथमिच्छसि साम्प्रतम्

paśya sainyaṃ tapasvistvaṃ muñca bāṇaṃ vrajādhunā |
maraṇaṃ svalpakāryārthaṃ kathamicchasi sāmpratam

40.41

भ्रातरस्तव दुःखार्त्ताः कलत्रं च ततः परम् ।
पृथिवी हस्ततस्तेद्य यास्यतीति मतिर्मम

bhrātarastava duḥkhārttāḥ kalatraṃ ca tataḥ param |
pṛthivī hastatastedya yāsyatīti matirmama

नन्दीश्वर उवाच

40.42

इत्युक्तं परमेशेन पार्थदार्ढ्यपरीक्षया ।
सर्वथार्जुनरक्षार्थं धृतरूपेण शंभुना

ityuktaṃ parameśena pārthadārḍhyaparīkṣayā |
sarvathārjunarakṣārthaṃ dhṛtarūpeṇa śaṃbhunā

40.43

इत्युक्तस्तु तदागत्य सगणश्शंकरश्च तत् ।
विस्तराद्वृत्तमखिलमर्जुनाय न्यवेदयत्

ityuktastu tadāgatya sagaṇaśśaṃkaraśca tat |
vistarādvṛttamakhilamarjunāya nyavedayat

40.44

तच्छ्रुत्वा तु पुनः प्राह प्रार्थस्तं दूतमागतम् ।
वाहिनीपतये वाच्यम्विपरीतम्भविष्यति

tacchrutvā tu punaḥ prāha prārthastaṃ dūtamāgatam |
vāhinīpataye vācyamviparītambhaviṣyati

40.45

यद्यहं चैव ते बाणं यच्छामि च मदीयकम् ।
कुलस्य दूषणं चाहं भविष्यामि न संशयः

yadyahaṃ caiva te bāṇaṃ yacchāmi ca madīyakam |
kulasya dūṣaṇaṃ cāhaṃ bhaviṣyāmi na saṃśayaḥ

40.46

भ्रातरश्चैव दुखार्ताः भवन्तु च तथा ध्रुवम् ।
विद्याश्च निष्फलाः स्युस्तास्तस्मादागच्छ वै ध्रुवम्

bhrātaraścaiva dukhārtāḥ bhavantu ca tathā dhruvam |
vidyāśca niṣphalāḥ syustāstasmādāgaccha vai dhruvam

40.47

सिंहश्चैव शृगालाद्वा भीतो नैव मया श्रुतः ।
तथा वनेचराद्राजा न बिभेति कदाचन

siṃhaścaiva śṛgālādvā bhīto naiva mayā śrutaḥ |
tathā vanecarādrājā na bibheti kadācana

40.48

इत्युक्तस्तं पुनर्गत्वा स्वामिनं पाण्डवेन सः ।
सर्वं निवेदयामास तदुक्तं हि विशेषतः

ityuktastaṃ punargatvā svāminaṃ pāṇḍavena saḥ |
sarvaṃ nivedayāmāsa taduktaṃ hi viśeṣataḥ

40.49

अथ सोपि किराताह्वो महादेवस्ससैन्यकः ।
तच्छ्रुत्वा सैन्यसंयुक्तो ह्यर्जुनं चागमत्तदा

atha sopi kirātāhvo mahādevassasainyakaḥ |
tacchrutvā sainyasaṃyukto hyarjunaṃ cāgamattadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)