रुद्र संहिता — कुमार खण्ड

अध्याय 13: पार्वती द्वारा द्वारपाल गणेश की रचना

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥

39 श्लोक · 13 में से 20

इस अध्याय में क्या होता है

पार्वती द्वारा द्वारपाल गणेश की रचना

नारद गणेश का जन्म पूछते हैं। ब्रह्मा कहते हैं कि कल्पभेद से कथा भिन्न है: एक में शनि की दृष्टि से सिर कटता है और गज का मुख जोड़ा जाता है; यहाँ वे श्वेतकल्प की कथा कहते हैं, जिसमें स्वयं शिव सिर काटते हैं। सखियाँ जया और विजया कहती हैं कि नन्दी, भृंगी आदि सब गण केवल शंकर की आज्ञा मानते हैं। एक दिन पार्वती के स्नान के समय सदाशिव भीतर आ जाते हैं, और लज्जित पार्वती सखियों की बात मान लेती हैं। अपने शरीर के मैल से वे एक बलवान युवक रचती हैं और कहती हैं कि वह उनका पुत्र है। वे उसे छड़ी देकर द्वार पर बिठाती हैं कि कोई भीतर न आए। शिव आते हैं, बालक उन्हें रोकता है, और हठ करने पर छड़ी से मारता है।

सूत उवाच

13.1

तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ।
नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम्

tārakāreriti śrutvā vṛttamadbhutamuttamam |
nāradassuprasannotha papraccha prītito vidhim

नारद उवाच

13.2

देवदेव प्रजानाथ शिवज्ञाननिधे मया ।
श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम्

devadeva prajānātha śivajñānanidhe mayā |
śrutaṃ kārtikasadvṛttamamṛtādapi cottamam

13.3

अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ।
तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम्

adhunā śrotumicchāmi gāṇeśaṃ vṛttamuttamam |
tajjanmacaritaṃ divyaṃ sarvamaṃgalamaṃgalam

सूत उवाच

13.4

इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ।
प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन्

ityākarṇya vacastasya nāradasya mahāmune |
prasannamānaso brahmā pratyuvāca śivaṃ smaran

ब्रह्मोवाच

13.5

कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् ।
शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्

kalpabhedādgaṇeśasya janiḥ proktā vidheḥ parāt |
śanidṛṣṭaṃ śiraśchinnaṃ saṃcitaṃ gajamānanam

13.6

इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ।
यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना

idānīṃ śvetakalpoktā gaṇeśotpattirucyate |
yatra cchinnaṃ śirastasya śivena ca kṛpālunā

13.7

संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ।
स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि

saṃdeho nātra kartavyaḥ śaṃkarassūtikṛnmune |
sa hi sarvādhipaḥ śaṃbhurnirguṇassaguṇo 'pi hi

13.8

तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ।
विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात्

tallīlayākhilaṃ viśvaṃ sṛjyate pālyate tathā |
vināśyate muniśreṣṭha prastutaṃ śṛṇu cādarāt

13.9

उद्वाहिते शिवे चात्र कैलासं च गते सति ।
कियता चैव कालेन जातो गणपतेर्भवः

udvāhite śive cātra kailāsaṃ ca gate sati |
kiyatā caiva kālena jāto gaṇapaterbhavaḥ

13.10

एकस्मिन्नेव काले च जया च विजया सखी ।
पार्वत्या च मिलित्वा वै विचारे तत्पराभवत्

ekasminneva kāle ca jayā ca vijayā sakhī |
pārvatyā ca militvā vai vicāre tatparābhavat

13.11

रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ।
ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः

rudrasya ca gaṇāssarve śivasyājñāparāyaṇāḥ |
te sarvepyasmadīyāśca nandibhṛṃgipurassarāḥ

13.12

प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ।
द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः

pramathāste hyasaṃkhyātā asmadīyo na kaścana |
dvāri tiṣṭhanti te sarve śaṃkarājñāparāyaṇāḥ

13.13

ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ।
एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे

te sarvepyasmadīyāṃśca tathāpi na milenmanaḥ |
ekaścaivāsmadīyo hi racanīyastvayānaghe

13.14

इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ।
हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति

ityuktvā pārvatī devī sakhībhyāṃ sundaraṃ vacaḥ |
hitaṃ mene tadā tacca kartuṃ smāpyadhyavasyati

13.15

ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ।
नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम्

tataḥ kadācinmajjatyāṃ pārvatyāṃ vai sadāśivaḥ |
naṃdinaṃ paribhartsyātha hyājagāma gṛhāṃtaram

13.16

आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ।
उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा

āyāṃtaṃ śaṃkaraṃ dṛṣṭvā'samaye jagadaṃbikā |
uttasthau majjatī sā vai lajjitā sundarī tadā

13.17

तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ।
तदीयं तद्वचश्चैव हितं मेने सुखावहम्

tasminnavasare devī kautukenātisaṃyutā |
tadīyaṃ tadvacaścaiva hitaṃ mene sukhāvaham

13.18

एवं जाते सदा काले कदाचित्पार्वती शिवा ।
विचिंत्य मनसा चेति परमाया परेश्वरी

evaṃ jāte sadā kāle kadācitpārvatī śivā |
viciṃtya manasā ceti paramāyā pareśvarī

13.19

मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ।
मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह

madīyassevakaḥ kaścidbhavecchubhataraḥ kṛtī |
madājñayā paraṃ nānyadrekhāmātraṃ calediha

13.20

विचार्येति च सा देवी वपुषो मलसंभवम् ।
पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम्

vicāryeti ca sā devī vapuṣo malasaṃbhavam |
puruṣaṃ nirmamau sā tu sarvalakṣaṇasaṃyutam

13.21

सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ।
विशालं सर्वशोभाढ्यं महाबलपराक्रमम्

sarvāvayavanirddoṣaṃ sarvāvayava sundaram |
viśālaṃ sarvaśobhāḍhyaṃ mahābalaparākramam

13.22

वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ।
नानालंकरणं चैव बह्वाशिषमनुत्तमाम्

vastrāṇi ca tadā tasmai dattvā sā vividhāni hi |
nānālaṃkaraṇaṃ caiva bahvāśiṣamanuttamām

13.23

मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ।
एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ

matputrastvaṃ madīyosi nānyaḥ kaścidihāsti me |
evamuktasya puruṣo namaskṛtya śivāṃ jagau

गणेश उवाच

13.24

किं कार्यं विद्यते तेद्य करवाणि तवोदितम् ।
इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा

kiṃ kāryaṃ vidyate tedya karavāṇi tavoditam |
ityuktā sā tadā tena pratyuvāca sutaṃ śivā

शिवोवाच

13.25

हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ।
मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे

he tāta śṛṇu madvākyaṃ dvārapālo bhavādya me |
matputrastvaṃ madīyo'si nānyathā kaścidasti me

13.26

विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ।
कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम्

vinā madājñāṃ matputra naivāyānma dgṛhāntaram |
ko'pi kvāpi haṭhāttāta satyametanmayoditam

ब्रह्मोवाच

13.27

इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ।
तदीयं रूपमालोक्य सुन्दरं हर्षमागता

ityuktvā ca dadau tasmai yaṣṭiṃ cātidṛḍhāṃ mune |
tadīyaṃ rūpamālokya sundaraṃ harṣamāgatā

13.28

मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ।
स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम्

mukhamācuṃbya suprītyāliṃgya taṃ kṛpayā sutam |
svadvāri sthāpayāmāsa yaṣṭipāṇiṃ gaṇādhipam

13.29

अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ।
यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया

atha devīsutastāta gṛhadvāri sthito gaṇaḥ |
yaṣṭipāṇirmahāvīraḥ pārvatīhitakāmyayā

13.30

स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ।
स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता

svadvāri sthāpayitvā taṃ gaṇeśaṃ svasutaṃ śivā |
svayaṃ ca majjatī sā vai saṃsthitāsītsakhīyutā

13.31

एतस्मिन्नेव काले तु शिवो द्वारि समागतः ।
कौतुकी मुनिर्शादूल नानालीलाविशारदः

etasminneva kāle tu śivo dvāri samāgataḥ |
kautukī munirśādūla nānālīlāviśāradaḥ

13.32

उवाच च शिवेशं तमविज्ञाय गणाधिपः ।
मातुराज्ञां विना देव गम्यतां न त्वया धुना

uvāca ca śiveśaṃ tamavijñāya gaṇādhipaḥ |
māturājñāṃ vinā deva gamyatāṃ na tvayā dhunā

13.33

मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ।
इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत्

majjanārthaṃ sthitā mātā kva yāsīto vrajādhunā |
ityuktvā yaṣṭikāṃ tasya rodhanāya tadāgrahīt

13.34

तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ।
मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा

taṃ dṛṣṭvā tu śivaḥ prāha kaṃ niṣedhasi mūḍhadhīḥ |
māṃ na jānāsyasadbuddhe śivohamiti nānyathā

13.35

ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ।
प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः

tāḍitastena yaṣṭyā hi gaṇeśena maheśvaraḥ |
pratyuvāca sa taṃ putraṃ bahulīlaśca kopitaḥ

शिव उवाच

13.36

मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ।
स्वगृहं यामि रे बाल निषेधसि कथं हि माम्

murkhosi tvaṃ na jānāsi śivohaṃ girijāpatiḥ |
svagṛhaṃ yāmi re bāla niṣedhasi kathaṃ hi mām

13.37

इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ।
क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः

ityuktvā praviśaṃtaṃ taṃ maheśaṃ gaṇanāyakaḥ |
krodhaṃ kṛtvā tato vipra daṃḍenātāḍayatpunaḥ

13.38

ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ।
को वायं वर्तते किंच क्रियते पश्यतां गणाः

tataśśivaśca saṃkruddho gaṇānājñāpayannijān |
ko vāyaṃ vartate kiṃca kriyate paśyatāṃ gaṇāḥ

13.39

इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ।
भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः

ityuktvā tu śivastatra sthitaḥ kruddho gṛhādbahiḥ |
bhavācāraratassvāmī bahvadbhutasulīlakaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)