सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता
sūtasūta mahābhāga dhanyastvaṃ śivasaktadhīḥ |
mahābalasya liṃgasya śrāviteyaṃ kathādbhutā
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥
21 श्लोक · 11 में से 43
ऋषि उत्तर दिशा के लिंगों के विषय में पूछते हैं। सूत एक और गोकर्ण क्षेत्र बताते हैं, जहाँ महावन में अनुपम चन्द्रभाल लिंग है, जिसे रावण भक्तिपूर्वक लाया था और जो वैद्यनाथ की भाँति सबके हित के लिए वहाँ है। गोकर्ण में स्नान करके चन्द्रभाल को पूजने से शिवलोक मिलता है। फिर वे दाधीचेश्वर का नाम लेते हैं, जिनकी पूजा से मनुष्य कृतार्थ होता है, और देवप्रयाग के ललितेश्वर का, जो सब पाप हरते हैं। नयपाल नगरी में शिव के शिरोभाग रूप में पशुपतीश लिंग है, जिसकी कथा वे केदारेश्वर के वर्णन में कहेंगे, और उसके पास अद्भुत मुक्तिनाथ हैं, जिनके दर्शन से भोग और मोक्ष मिलते हैं। चारों दिशाओं का वर्णन पूरा करके सूत पूछते हैं कि ऋषि आगे क्या सुनना चाहते हैं।
ऋषय ऊचुः
सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता
sūtasūta mahābhāga dhanyastvaṃ śivasaktadhīḥ |
mahābalasya liṃgasya śrāviteyaṃ kathādbhutā
उत्तरस्यां दिशायां च शिवलिंगानि यानि च ।
तेषां माहात्म्यमनघ वद त्वं पापनाशकम्
uttarasyāṃ diśāyāṃ ca śivaliṃgāni yāni ca |
teṣāṃ māhātmyamanagha vada tvaṃ pāpanāśakam
सूत उवाच
शृणुतादरतो विप्रा औत्तराणां विशेषतः ।
माहात्म्यं शिवलिंगानां प्रवदामि समासतः
śṛṇutādarato viprā auttarāṇāṃ viśeṣataḥ |
māhātmyaṃ śivaliṃgānāṃ pravadāmi samāsataḥ
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ।
महावनं च तत्रास्ति पवित्रमतिविस्तरम्
gokarṇaṃ kṣetramaparaṃ mahāpātakanāśanam |
mahāvanaṃ ca tatrāsti pavitramativistaram
तत्रास्ति चन्द्रभालाख्यं शिवलिंगमनुत्तमम् ।
रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम्
tatrāsti candrabhālākhyaṃ śivaliṃgamanuttamam |
rāvaṇena samānītaṃ sadbhaktyā sarvasiddhidam
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ।
सर्वलोकहितार्थाय करुणासागरस्य च
tasya tatra sthitirvaidyanāthasyeva munīśvarāḥ |
sarvalokahitārthāya karuṇāsāgarasya ca
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ।
शिवलोकमवाप्नोति सत्यंसत्यं न संशयः
snānaṃ kṛtvā tu gokarṇe candrabhālaṃ samarcya ca |
śivalokamavāpnoti satyaṃsatyaṃ na saṃśayaḥ
चन्द्रभालस्य लिंगस्य महिमा परमाद्भुतः ।
न शक्यो वर्णितुं व्यासाद्भक्तस्नेहितरस्य हि
candrabhālasya liṃgasya mahimā paramādbhutaḥ |
na śakyo varṇituṃ vyāsādbhaktasnehitarasya hi
चन्द्रभालमहादेव लिंगस्य महिमा महान् ।
यथाकथंचित्संप्रोक्तः परलिंगस्य वै शृणु
candrabhālamahādeva liṃgasya mahimā mahān |
yathākathaṃcitsaṃproktaḥ paraliṃgasya vai śṛṇu
दाधीचं शिवलिंगं तु मिश्रर्षिवरतीर्थके ।
दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम्
dādhīcaṃ śivaliṃgaṃ tu miśrarṣivaratīrthake |
dadhīcinā munīśena suprītyā ca pratiṣṭhitam
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ।
शिवलिंगं समर्चेद्वै दाधीचेश्वरमादरात्
tatra gatvā ca tattīrthe snātvā samyagvidhānataḥ |
śivaliṃgaṃ samarcedvai dādhīceśvaramādarāt
दाधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ।
शिवप्रीत्यर्थमेवाशु तीर्थयात्रा फलार्थिभिः
dādhīcamūrtistatraiva samarcyā vidhipūrvakam |
śivaprītyarthamevāśu tīrthayātrā phalārthibhiḥ
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ।
इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात्
evaṃ kṛte muniśreṣṭhāḥ kṛtakṛtyo bhavennaraḥ |
iha sarvasukhaṃ bhuktvā paratra gatimāpnuyāt
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ।
ऋषीश्वरमिति ख्यातं शिवलिंगं सुखप्रदम्
naimiṣāraṇyatīrthe tu nikhilarṣipratiṣṭhitam |
ṛṣīśvaramiti khyātaṃ śivaliṃgaṃ sukhapradam
तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ।
भुक्तिमुक्तिश्च तेषां तु परत्रेह मुनीश्वराः
taddarśanātpūjanācca janānāṃ pāpināmapi |
bhuktimuktiśca teṣāṃ tu paratreha munīśvarāḥ
हत्याहरणतीर्थे तु शिवलिंगमघापहम् ।
पूजनीयं विशेषेण हत्याकोटिविनाशनम्
hatyāharaṇatīrthe tu śivaliṃgamaghāpaham |
pūjanīyaṃ viśeṣeṇa hatyākoṭivināśanam
देवप्रयागतीर्थे तु ललितेश्वरनामकम् ।
शिवलिंगं सदा पूज्यं नरैस्सर्वाघनाशनम्
devaprayāgatīrthe tu laliteśvaranāmakam |
śivaliṃgaṃ sadā pūjyaṃ naraissarvāghanāśanam
नयपालाख्यपुर्य्यां तु प्रसिद्धायां महीतले ।
लिंगं पशुपतीशाख्यं सर्वकामफलप्रदम्
nayapālākhyapuryyāṃ tu prasiddhāyāṃ mahītale |
liṃgaṃ paśupatīśākhyaṃ sarvakāmaphalapradam
शिरोभागस्वरूपेण शिवलिंगं तदस्ति हि ।
तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने
śirobhāgasvarūpeṇa śivaliṃgaṃ tadasti hi |
tatkathāṃ varṇayiṣyāmi kedāreśvaravarṇane
तदारान्मुक्तिनाथाख्यं शिवलिंगं महाद्भुतम् ।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते
tadārānmuktināthākhyaṃ śivaliṃgaṃ mahādbhutam |
darśanādarcanāttasya bhuktirmuktiśca labhyate
इति वश्च समाख्यातं लिंगवर्णनमुत्तमम् ।
चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ
iti vaśca samākhyātaṃ liṃgavarṇanamuttamam |
caturdikṣu muniśreṣṭhāḥ kimanyacchrotumicchatha
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)