युद्धकाण्ड

सर्ग 6: रावण द्वारा मंत्रियों से परामर्श

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः ॥६-६॥

18 श्लोक · 6 में से 128

इस अध्याय में क्या होता है

रावण द्वारा मंत्रियों से परामर्श

हनुमान के कार्य से लज्जित रावण राक्षसों से कहता है। एक साधारण वानर ने इस अजेय नगरी में प्रवेश किया, सीता को देखा, चैत्य प्रासाद तोड़ा, श्रेष्ठ राक्षसों को मारा और सारी लंका को व्याकुल कर दिया। फिर रावण तीन प्रकार के पुरुषों की बात करता है। उत्तम पुरुष मित्रों और हितैषियों से मंत्रणा करके कार्य करता है और दैव पर भी भरोसा रखता है, मध्यम अकेले निर्णय करता है, और अधम बिना विचारे कार्य करता है। मंत्रणा भी तीन प्रकार की होती है: उत्तम में सब मंत्री एकमत होते हैं, मध्यम में विवाद के बाद एकता होती है, अधम में निर्णय ही नहीं होता। राम हजारों वानरों के साथ आ रहे हैं। अतः नगर और सेना के हित में परामर्श दो।

6.1

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् ।
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ।
अब्रवीद् राक्षसान् सर्वान् ह्रिया किंचिदवाङ्मुखः

laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham |
rākṣasendro hanumatā śakreṇeva mahātmanā |
abravīd rākṣasān sarvān hriyā kiṃcidavāṅmukhaḥ

6.2

धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ।
तेन वानरमात्रेण दृष्टा सीता च जानकी

dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī |
tena vānaramātreṇa dṛṣṭā sītā ca jānakī

6.3

प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः ।
आविला च पुरी लङ्का सर्वा हनुमता कृता

prāsādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ |
āvilā ca purī laṅkā sarvā hanumatā kṛtā

6.4

किं करिष्यामि भद्रं वः किं वो युक्तमनन्तरम् ।
उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत्

kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vo yuktamanantaram |
ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet

6.5

मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः ।
तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः

mantramūlaṃ ca vijayaṃ pravadanti manasvinaḥ |
tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ

6.6

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः ।
तेषां तु समवेतानां गुणदोषौ वदाम्यहम्

trividhāḥ puruṣā loke uttamādhamamadhyamāḥ |
teṣāṃ tu samavetānāṃ guṇadoṣau vadāmyaham

6.7

मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैर्मन्त्रनिर्णये ।
मित्रैर्वापि समानार्थैर्बान्धवैरपि वाधिकैः

mantrastribhirhi saṃyuktaḥ samarthairmantranirṇaye |
mitrairvāpi samānārthairbāndhavairapi vādhikaiḥ

6.8

सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् ।
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्

sahito mantrayitvā yaḥ karmārambhān pravartayet |
daive ca kurute yatnaṃ tamāhuḥ puruṣottamam

6.9

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्

eko'rthaṃ vimṛśedeko dharme prakurute manaḥ |
ekaḥ kāryāṇi kurute tamāhurmadhyamaṃ naram

6.10

गुणदोषौ न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम् ।
करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः

guṇadoṣau na niścitya tyaktvā daivavyapāśrayam |
kariṣyāmīti yaḥ kāryamupekṣet sa narādhamaḥ

6.11

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ।
एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः

yatheme puruṣā nityamuttamādhamamadhyamāḥ |
evaṃ mantro'pi vijñeya uttamādhamamadhyamaḥ

6.12

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम्

aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā |
mantriṇo yatra niratāstamāhurmantramuttamam

6.13

बह्वीरपि मतीर्गत्वा मन्त्रिणामर्थनिर्णयः ।
पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः

bahvīrapi matīrgatvā mantriṇāmarthanirṇayaḥ |
punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ

6.14

अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते ।
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते

anyonyamatimāsthāya yatra sampratibhāṣyate |
na caikamatye śreyo'sti mantraḥ so'dhama ucyate

6.15

तस्मात् सुमन्त्रितं साधु भवन्तो मतिसत्तमाः ।
कार्यं सम्प्रतिपद्यन्तमेतत् कृत्यं मतं मम

tasmāt sumantritaṃ sādhu bhavanto matisattamāḥ |
kāryaṃ sampratipadyantametat kṛtyaṃ mataṃ mama

6.16

वानराणां हि धीराणां सहस्रैः परिवारितः ।
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः

vānarāṇāṃ hi dhīrāṇāṃ sahasraiḥ parivāritaḥ |
rāmo'bhyeti purīṃ laṅkāmasmākamuparodhakaḥ

6.17

तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ।
तरसा युक्तरूपेण सानुजः सबलानुगः

tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham |
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ

6.18

समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा ।
तस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह ।
हितं पुरे च सैन्ये च सर्वं सम्मन्त्र्यतां मम

samudramucchoṣayati vīryeṇānyatkaroti vā |
tasminnevaṃvidhe kārye viruddhe vānaraiḥ saha |
hitaṃ pure ca sainye ca sarvaṃ sammantryatāṃ mama

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)