युद्धकाण्ड

सर्ग 48: सीता का विलाप और त्रिजटा की सांत्वना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥

37 श्लोक · 48 में से 128

इस अध्याय में क्या होता है

सीता का विलाप और त्रिजटा की सांत्वना

पति और महाबली लक्ष्मण को गिरा देखकर सीता करुण विलाप करती हैं। जिन लक्षण-ज्ञाताओं ने कहा था कि मैं पुत्रवती होऊँगी और कभी विधवा नहीं होऊँगी, जिन ज्ञानियों ने मुझे यज्ञ करने वाले महान राजा की पटरानी बताया था, वे सब आज झूठे हो गए। वे अपने शरीर में वैधव्य के लक्षण खोजती हैं और कोई नहीं पातीं। वे कहती हैं कि जब राम भाई सहित मारे पड़े हैं तो काल के लिए कुछ भी असंभव नहीं। त्रिजटा उन्हें सांत्वना देती है। यदि ये मर गए होते तो यह पुष्पक विमान तुम्हें धारण न करता, यह विधवा को नहीं उठाता। इनके मुख की कांति नहीं गई और वानर भी भाग नहीं रहे। शांत होकर सीता अशोक वाटिका लौट जाती हैं।

48.1

भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् ।
विललाप भृशं सीता करुणं शोककर्शिता

bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam |
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā

48.2

ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः

ūcurlākṣaṇikā ye māṃ putriṇyavidhaveti ca |
te'dya sarve hate rāme jñānino'nṛtavādinaḥ

48.3

यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः

yajvano mahiṣīṃ ye māmūcuḥ patnīṃ ca satriṇaḥ |
te'dya sarve hate rāme jñānino'nṛtavādinaḥ

48.4

वीरपार्थिवपत्नीनां ये विदुर्भर्तृपूजिताम् ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः

vīrapārthivapatnīnāṃ ye vidurbhartṛpūjitām |
te'dya sarve hate rāme jñānino'nṛtavādinaḥ

48.5

ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः

ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām |
te'dya sarve hate rāme jñānino'nṛtavādinaḥ

48.6

इमानि खलु पद्मानि पादयोर्वै कुलस्त्रियः ।
आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह

imāni khalu padmāni pādayorvai kulastriyaḥ |
ādhirājye'bhiṣicyante narendraiḥ patibhiḥ saha

48.7

वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः ।
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा

vaidhavyaṃ yānti yairnāryo'lakṣaṇairbhāgyadurlabhāḥ |
nātmanastāni paśyāmi paśyantī hatalakṣaṇā

48.8

सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।
तान्यद्य निहते रामे वितथानि भवन्ति मे

satyanāmāni padmāni strīṇāmuktāni lakṣaṇaiḥ |
tānyadya nihate rāme vitathāni bhavanti me

48.9

केशाः सूक्ष्माः समा नीला भ्रुवौ चासंहते मम ।
वृत्ते चारोमके जङ्घे दन्ताश्चाविरला मम

keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃhate mama |
vṛtte cāromake jaṅghe dantāścāviralā mama

48.10

शङ्खे नेत्रे करौ पादौ गुल्फावूरू समौ चितौ ।
अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम

śaṅkhe netre karau pādau gulphāvūrū samau citau |
anuvṛttanakhāḥ snigdhāḥ samāścāṅgulayo mama

48.11

स्तनौ चाविरलौ पीनौ मामकौ मग्नचूचुकौ ।
मग्ना चोत्सेधनी नाभिः पार्श्वोरस्कं च मे चितम्

stanau cāviralau pīnau māmakau magnacūcukau |
magnā cotsedhanī nābhiḥ pārśvoraskaṃ ca me citam

48.12

मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।
प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम्

mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca |
pratiṣṭhitāṃ dvādaśabhirmāmūcuḥ śubhalakṣaṇām

48.13

समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।
मन्दस्मितेत्येव च मां कन्यालाक्षणिका विदुः

samagrayavamacchidraṃ pāṇipādaṃ ca varṇavat |
mandasmitetyeva ca māṃ kanyālākṣaṇikā viduḥ

48.14

आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ।
कृतान्तकुशलैरुक्तं तत् सर्वं वितथीकृतम्

ādhirājye'bhiṣeko me brāhmaṇaiḥ patinā saha |
kṛtāntakuśalairuktaṃ tat sarvaṃ vitathīkṛtam

48.15

शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ

śodhayitvā janasthānaṃ pravṛttimupalabhya ca |
tīrtvā sāgaramakṣobhyaṃ bhrātarau goṣpade hatau

48.16

ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यत

nanu vāruṇamāgneyamaindraṃ vāyavyameva ca |
astraṃ brahmaśiraścaiva rāghavau pratyapadyata

48.17

अदृश्यमानेन रणे मायया वासवोपमौ ।
मम नाथावनाथाया निहतौ रामलक्ष्मणौ

adṛśyamānena raṇe māyayā vāsavopamau |
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau

48.18

नहि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः

nahi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ |
jīvan pratinivarteta yadyapi syānmanojavaḥ

48.19

न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः ।
यत्र रामः सह भ्रात्रा शेते युधि निपातितः

na kālasyātibhāro'sti kṛtāntaśca sudurjayaḥ |
yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ

48.20

न शोचामि तथा रामं लक्ष्मणं च महारथम् ।
नात्मानं जननीं चापि यथा श्वश्रूं तपस्विनीम्

na śocāmi tathā rāmaṃ lakṣmaṇaṃ ca mahāratham |
nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm

48.21

सा तु चिन्तयते नित्यं समाप्तव्रतमागतम् ।
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम्

sā tu cintayate nityaṃ samāptavratamāgatam |
kadā drakṣyāmi sītāṃ ca lakṣmaṇaṃ ca sarāghavam

48.22

परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् ।
मा विषादं कृथा देवि भर्तायं तव जीवति

paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt |
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati

48.23

कारणनि च वक्ष्यामि महान्ति सदृशानि च ।
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ

kāraṇani ca vakṣyāmi mahānti sadṛśāni ca |
yathemau jīvato devi bhrātarau rāmalakṣmaṇau

48.24

नहि कोपपरीतानि हर्षपर्युत्सुकानि च ।
भवन्ति युधि योधानां मुखानि निहते पतौ

nahi kopaparītāni harṣaparyutsukāni ca |
bhavanti yudhi yodhānāṃ mukhāni nihate patau

48.25

इदं विमानं वैदेहि पुष्पकं नाम नामतः ।
दिव्यं त्वां धारयेन् नेदं यद्येतौ गतजीवितौ

idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ |
divyaṃ tvāṃ dhārayen nedaṃ yadyetau gatajīvitau

48.26

हतवीरप्रधाना हि गतोत्साहा निरुद्यमा ।
सेना भ्रमति संख्येषु हतकर्णेव नौर्जले

hatavīrapradhānā hi gatotsāhā nirudyamā |
senā bhramati saṃkhyeṣu hatakarṇeva naurjale

48.27

इयं पुनरसम्भ्रान्ता निरुद्विग्ना तपस्विनि ।
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ

iyaṃ punarasambhrāntā nirudvignā tapasvini |
senā rakṣati kākutsthau mayā prītyā niveditau

48.28

सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।
अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते

sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ |
ahatau paśya kākutsthau snehādetad bravīmi te

48.29

अनृतं नोक्तपूर्वं मे न च वक्ष्यामि मैथिलि ।
चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम

anṛtaṃ noktapūrvaṃ me na ca vakṣyāmi maithili |
cāritrasukhaśīlatvāt praviṣṭāsi mano mama

48.30

नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।
तादृशं दर्शनं दृष्ट्वा मया चोदीरितं तव

nemau śakyau raṇe jetuṃ sendrairapi surāsuraiḥ |
tādṛśaṃ darśanaṃ dṛṣṭvā mayā codīritaṃ tava

48.31

इदं तु सुमहच्चित्रं शरैः पश्यस्व मैथिलि ।
विसंज्ञौ पतितावेतौ नैव लक्ष्मीर्विमुञ्चति

idaṃ tu sumahaccitraṃ śaraiḥ paśyasva maithili |
visaṃjñau patitāvetau naiva lakṣmīrvimuñcati

48.32

प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्

prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām |
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam

48.33

त्यज शोकं च दुःखं च मोहं च जनकात्मजे ।
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्

tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje |
rāmalakṣmaṇayorarthe nādya śakyamajīvitum

48.34

श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।
कृताञ्जलिरुवाचेमामेवमस्त्विति मैथिली

śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā |
kṛtāñjaliruvācemāmevamastviti maithilī

48.35

विमानं पुष्पकं तत्तु संनिवर्त्य मनोजवम् ।
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता

vimānaṃ puṣpakaṃ tattu saṃnivartya manojavam |
dīnā trijaṭayā sītā laṅkāmeva praveśitā

48.36

ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।
अशोकवनिकामेव राक्षसीभिः प्रवेशिता

tatastrijaṭayā sārdhaṃ puṣpakādavaruhya sā |
aśokavanikāmeva rākṣasībhiḥ praveśitā

48.37

प्रविश्य सीता बहुवृक्षखण्डां
तां राक्षसेन्द्रस्य विहारभूमिम् ।
सम्प्रेक्ष्य संचिन्त्य च राजपुत्रौ
परं विषादं समुपाजगाम

praviśya sītā bahuvṛkṣakhaṇḍāṃ
tāṃ rākṣasendrasya vihārabhūmim |
samprekṣya saṃcintya ca rājaputrau
paraṃ viṣādaṃ samupājagāma

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)