तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः ।
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च
tāṃ rātrimuṣitāstatra suvele hariyūthapāḥ |
laṅkāyāṃ dadṛśurvīrā vanānyupavanāni ca
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥६-३९॥
28 श्लोक · 39 में से 128
सुवेल पर रात बिताकर वानर सेनापति लंका के वन और उपवन देखते हैं और विस्मित हो जाते हैं। विशाल, समतल और रमणीय उपवन चम्पा, अशोक, बकुल, साल, ताड़ और तमाल के वृक्षों से भरे हैं, और लंका इंद्र की अमरावती जैसी लगती है। पक्षी निरंतर गाते हैं, भौंरे मँडराते हैं और कुंज कोयलों से गूँजते हैं। लंका त्रिकूट पर्वत के शिखर पर बसी है, जहाँ मन से भी चढ़ना कठिन है, कर्म से तो कहना ही क्या। सौ राक्षसों द्वारा सदा रक्षित राक्षसराज का विशाल चैत्य नगर का आभूषण है। अपनी विशाल सेना के साथ श्रीराम रत्नों से भरी, महलों की पंक्तियों से सजी और बड़े यंत्रयुक्त द्वारों वाली लंका को देखते हैं।
तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः ।
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च
tāṃ rātrimuṣitāstatra suvele hariyūthapāḥ |
laṅkāyāṃ dadṛśurvīrā vanānyupavanāni ca
समसौम्यानि रम्याणि विशालान्यायतानि च ।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः
samasaumyāni ramyāṇi viśālānyāyatāni ca |
dṛṣṭiramyāṇi te dṛṣṭvā babhūvurjātavismayāḥ
चम्पकाशोकबकुलशालतालसमाकुला ।
तमालवनसंछन्ना नागमालासमावृता
campakāśokabakulaśālatālasamākulā |
tamālavanasaṃchannā nāgamālāsamāvṛtā
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैः सुपुष्पितैः ।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः
hintālairarjunairnīpaiḥ saptaparṇaiḥ supuṣpitaiḥ |
tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती
śuśubhe puṣpitāgraiśca latāparigatairdrumaiḥ |
laṅkā bahuvidhairdivyairyathendrasyāmarāvatī
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः
vicitrakusumopetai raktakomalapallavaiḥ |
śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ
गन्धाढ्यान्यतिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः
gandhāḍhyānyatiramyāṇi puṣpāṇi ca phalāni ca |
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ
तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् ।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्
taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam |
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam
दात्यूहकोयष्टिबकैर्नृत्यमानैश्च बर्हिणैः ।
रुतं परभृतानां च शुश्रुवे वननिर्झरे
dātyūhakoyaṣṭibakairnṛtyamānaiśca barhiṇaiḥ |
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare
नित्यमत्तविहंगानि भ्रमराचरितानि च ।
कोकिलाकुलखण्डानि विहंगाभिरुतानि च
nityamattavihaṃgāni bhramarācaritāni ca |
kokilākulakhaṇḍāni vihaṃgābhirutāni ca
भृङ्गराजाधिगीतानि कुररस्वनितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ।
विविशुस्ते ततस्तानि वनान्युपवनानि च
bhṛṅgarājādhigītāni kurarasvanitāni ca |
koṇālakavighuṣṭāni sārasābhirutāni ca |
viviśuste tatastāni vanānyupavanāni ca
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ।
तेषां प्रविशतां तत्र वानराणां महौजसाम्
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ |
teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ।
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः ।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्
puṣpasaṃsargasurabhirvavau ghrāṇasukho'nilaḥ |
anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ |
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm
वित्रासयन्तो विहगान् ग्लापयन्तो मृगद्विपान् ।
कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः
vitrāsayanto vihagān glāpayanto mṛgadvipān |
kampayantaśca tāṃ laṅkāṃ nādaiḥ svairnadatāṃ varāḥ
कुर्वन्तस्ते महावेगा महीं चरणपीडिताम् ।
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम्
kurvantaste mahāvegā mahīṃ caraṇapīḍitām |
rajaśca sahasaivordhvaṃ jagāma caraṇotthitam
ऋक्षाः सिंहाश्च महिषा वारणाश्च मृगाः खगाः ।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश
ṛkṣāḥ siṃhāśca mahiṣā vāraṇāśca mṛgāḥ khagāḥ |
tena śabdena vitrastā jagmurbhītā diśo daśa
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।
समन्तात् पुष्पसंछन्नं महारजतसंनिभम्
śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam |
samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ।
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि
śatayojanavistīrṇaṃ vimalaṃ cārudarśanam |
ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunairapi
मनसापि दुरारोहं किं पुनः कर्मणा जनैः ।
निविष्टा तस्य शिखरे लङ्का रावणपालिता
manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ |
niviṣṭā tasya śikhare laṅkā rāvaṇapālitā
दशयोजनविस्तीर्णा विंशद्योजनमायता ।
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः ।
काञ्चनेन च शालेन राजतेन च शोभते
daśayojanavistīrṇā viṃśadyojanamāyatā |
sā purī gopurairuccaiḥ pāṇḍurāmbudasaṃnibhaiḥ |
kāñcanena ca śālena rājatena ca śobhate
प्रासादैश्च विमानैश्च लङ्का परमभूषिता ।
घनैरिवातपापाये मध्यमं वैष्णवं पदम्
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā |
ghanairivātapāpāye madhyamaṃ vaiṣṇavaṃ padam
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः ।
कैलासशिखराकारो दृश्यते खमिवोल्लिखन्
yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ |
kailāsaśikharākāro dṛśyate khamivollikhan
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ।
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam |
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्
manojñāṃ kāñcanavatīṃ parvatairupaśobhitām |
nānādhātuvicitraiśca udyānairupaśobhitām
नानाविहगसंघुष्टां नानामृगनिषेविताम् ।
नानाकुसुमसम्पन्नां नानाराक्षससेविताम्
nānāvihagasaṃghuṣṭāṃ nānāmṛganiṣevitām |
nānākusumasampannāṃ nānārākṣasasevitām
तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः ।
रावणस्य पुरीं रामो ददर्श सह वानरैः
tāṃ samṛddhāṃ samṛddhārthāṃ lakṣmīvām̐llakṣmaṇāgrajaḥ |
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान्
tāṃ mahāgṛhasambādhāṃ dṛṣṭvā lakṣmaṇapūrvajaḥ |
nagarīṃ tridivaprakhyāṃ vismayaṃ prāpa vīryavān
तां रत्नपूर्णां बहुसंविधानां
प्रासादमालाभिरलंकृतां च ।
पुरीं महायन्त्रकवाटमुख्यां
ददर्श रामो महता बलेन
tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ
prāsādamālābhiralaṃkṛtāṃ ca |
purīṃ mahāyantrakavāṭamukhyāṃ
dadarśa rāmo mahatā balena
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)