प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।
अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ |
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशत्यधिकशततमः सर्गः ॥ १२० ॥
24 श्लोक · 120 में से 128
दशरथ के जाने के बाद अत्यंत प्रसन्न इंद्र श्रीराम से कहते हैं कि देवताओं का दर्शन कभी व्यर्थ नहीं जाता, जो चाहो माँगो। श्रीराम माँगते हैं: मेरे लिए युद्ध में मारे गए सब वानर फिर जीवित हो उठें, और मैं उन्हें घाव रहित, पुत्रों और पत्नियों से मिलकर प्रसन्न देखूँ। और जहाँ भी वानर रहें, वहाँ वृक्ष बिना ऋतु के भी फूल, मूल और फल दें, और नदियाँ निर्मल बहें। इंद्र इसे प्रदान करते हैं। उसी क्षण मारे गए वानर और रीछ उठ खड़े होते हैं, उनके घाव भर चुके हैं। मित्र, बंधु और परिवार बड़े आनंद से फिर मिलते हैं। देवता राम और लक्ष्मण की स्तुति करके कहते हैं: अब अयोध्या जाओ और वानरों को घर जाने दो। सेना उस रात आनंद से विश्राम करती है।
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।
अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ |
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
अमोघं दर्शनं राम तवास्माकं नरर्षभ ।
प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम्
amoghaṃ darśanaṃ rāma tavāsmākaṃ nararṣabha |
prītiyuktāḥ sma tena tvaṃ brūhi yanmanasepsitam
एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना ।
सुप्रसन्नमना हृष्टो वचनं प्राह राघवः
evamukto mahendreṇa prasannena mahātmanā |
suprasannamanā hṛṣṭo vacanaṃ prāha rāghavaḥ
यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर ।
वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर
yadi prītiḥ samutpannā mayi te vibudheśvara |
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara
मम हेतोः पराक्रान्ता ये गता यमसादनम् ।
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः
mama hetoḥ parākrāntā ye gatā yamasādanam |
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ।
तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद
matkṛte viprayuktā ye putrairdāraiśca vānarāḥ |
tān prītamanasaḥ sarvān draṣṭumicchāmi mānada
विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च ।
कृतयत्ना विपन्नाश्च जीवयैतान् पुरंदर
vikrāntāścāpi śūrāśca na mṛtyuṃ gaṇayanti ca |
kṛtayatnā vipannāśca jīvayaitān puraṃdara
मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये ।
त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे
matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ye |
tvatprasādāt sameyuste varametamahaṃ vṛṇe
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।
गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद
nīrujo nirvraṇāṃścaiva sampannabalapauruṣān |
golāṅgūlāṃstatharkṣāṃśca draṣṭumicchāmi mānada
अकाले चापि पुष्पाणि मूलानि च फलानि च ।
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः
akāle cāpi puṣpāṇi mūlāni ca phalāni ca |
nadyaśca vimalāstatra tiṣṭheyuryatra vānarāḥ
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम्
śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ |
mahendraḥ pratyuvācedaṃ vacanaṃ prītisaṃyutam
महानयं वरस्तात यस्त्वयोक्तो रघूत्तम ।
द्विर्मया नोक्तपूर्वं च तस्मादेतद् भविष्यति
mahānayaṃ varastāta yastvayokto raghūttama |
dvirmayā noktapūrvaṃ ca tasmādetad bhaviṣyati
समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः ।
ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः
samuttiṣṭhantu te sarve hatā ye yudhi rākṣasaiḥ |
ṛkṣāśca saha gopucchairnikṛttānanabāhavaḥ
नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ।
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा
nīrujo nirvraṇāścaiva sampannabalapauruṣāḥ |
samutthāsyanti harayaḥ suptā nidrākṣaye yathā
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च ।
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा
suhṛdbhirbāndhavaiścaiva jñātibhiḥ svajanena ca |
sarva eva sameṣyanti saṃyuktāḥ parayā mudā
अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः
akāle puṣpaśabalāḥ phalavantaśca pādapāḥ |
bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ
सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः ।
ततः समुत्थिताः सर्वे सुप्त्वेव हरिसत्तमाः
savraṇaiḥ prathamaṃ gātrairidānīṃ nirvraṇaiḥ samaiḥ |
tataḥ samutthitāḥ sarve suptveva harisattamāḥ
बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः ।
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः
babhūvurvānarāḥ sarve kiṃ tvetaditi vismitāḥ |
kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम् ।
गच्छायोध्यामितो राजन् विसर्जय च वानरान्
abruvan paramaprītāḥ stutvā rāmaṃ salakṣmaṇam |
gacchāyodhyāmito rājan visarjaya ca vānarān
मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम् ।
भ्रातरं भरतं पश्य त्वच्छोकाद् व्रतचारिणम्
maithilīṃ sāntvayasvaināmanuraktāṃ yaśasvinīm |
bhrātaraṃ bharataṃ paśya tvacchokād vratacāriṇam
शत्रुघ्नं च महात्मानं मातॄः सर्वाः परंतप ।
अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय
śatrughnaṃ ca mahātmānaṃ mātṝḥ sarvāḥ paraṃtapa |
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya
एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह ।
विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह
evamuktvā sahasrākṣo rāmaṃ saumitriṇā saha |
vimānaiḥ sūryasaṃkāśairyayau hṛṣṭaḥ suraiḥ saha
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा
abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān |
lakṣmaṇena saha bhrātrā vāsamājñāpayat tadā
ततस्तु सा लक्ष्मणरामपालिता
महाचमूर्हृष्टजना यशस्विनी ।
श्रिया ज्वलन्ती विरराज सर्वतो
निशा प्रणीतेव हि शीतरश्मिना
tatastu sā lakṣmaṇarāmapālitā
mahācamūrhṛṣṭajanā yaśasvinī |
śriyā jvalantī virarāja sarvato
niśā praṇīteva hi śītaraśminā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)