युद्धकाण्ड

सर्ग 118: अग्निदेव द्वारा सीता को श्रीराम को सौंपना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशाधिकशततमः सर्गः ॥ ११८ ॥

22 श्लोक · 118 में से 128

इस अध्याय में क्या होता है

अग्निदेव द्वारा सीता को श्रीराम को सौंपना

ब्रह्मा के वचन सुनकर अग्निदेव चिता को बिखेरते हुए देहधारी होकर प्रकट होते हैं और वैदेही को गोद में लिए उठते हैं। वे प्रातःकाल के सूर्य जैसी दमक रही हैं, लाल वस्त्र पहने, उनकी मालाएँ मुरझाई नहीं हैं। लोकसाक्षी अग्नि उन्हें श्रीराम को सौंपते हैं: राम, यह तुम्हारी वैदेही है, इसमें कोई पाप नहीं। हर प्रकार से लुभाए और डराए जाने पर भी इन्होंने रावण का विचार तक नहीं किया, क्योंकि इनका मन तुममें लगा था। दृढ़ श्रीराम कहते हैं कि सीता तीनों लोकों के सामने यह शुद्धि आवश्यक थी। बिना परीक्षा जानकी को लेता तो लोग कहते कि दशरथपुत्र मूर्ख और कामी है। मैं जानता था कि वे पवित्र हैं; जलती अग्निशिखा की तरह रावण उन्हें छू भी नहीं सकता था। श्रीराम उन्हें स्वीकार करके प्रसन्न होते हैं।

118.1

एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् ।
अङ्केनादाय वैदेहीमुत्पपात विभावसुः

etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam |
aṅkenādāya vaidehīmutpapāta vibhāvasuḥ

118.2

विधूयाथ चितां तां तु वैदेहीं हव्यवाहनः ।
उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम्

vidhūyātha citāṃ tāṃ tu vaidehīṃ havyavāhanaḥ |
uttasthau mūrtimānāśu gṛhītvā janakātmajām

118.3

तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् ।
रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्

taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām |
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām

118.4

अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम् ।
ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः

akliṣṭamālyābharaṇāṃ tathārūpāmaninditām |
dadau rāmāya vaidehīmaṅke kṛtvā vibhāvasuḥ

118.5

अब्रवीत् तु तदा रामं साक्षी लोकस्य पावकः ।
एषा ते राम वैदेही पापमस्यां न विद्यते

abravīt tu tadā rāmaṃ sākṣī lokasya pāvakaḥ |
eṣā te rāma vaidehī pāpamasyāṃ na vidyate

118.6

नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा ।
सुवृत्ता वृत्तशौटीर्यं न त्वामत्यचरच्छुभा

naiva vācā na manasā naiva buddhyā na cakṣuṣā |
suvṛttā vṛttaśauṭīryaṃ na tvāmatyacaracchubhā

118.7

रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा ।
त्वया विरहिता दीना विवशा निर्जने सती

rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā |
tvayā virahitā dīnā vivaśā nirjane satī

118.8

रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा ।
रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः

ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā |
rakṣitā rākṣasībhiśca ghorābhirghorabuddhibhiḥ

118.9

प्रलोभ्यमाना विविधं तर्ज्यमाना च मैथिली ।
नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना

pralobhyamānā vividhaṃ tarjyamānā ca maithilī |
nācintayata tadrakṣastvadgatenāntarātmanā

118.10

विशुद्धभावां निष्पापां प्रतिगृह्णीष्व मैथिलीम् ।
न किंचिदभिधातव्या अहमाज्ञापयामि ते

viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva maithilīm |
na kiṃcidabhidhātavyā ahamājñāpayāmi te

118.11

ततः प्रीतमना रामः श्रुत्वैवं वदतां वरः ।
दध्यौ मुहूर्तं धर्मात्मा हर्षव्याकुललोचनः

tataḥ prītamanā rāmaḥ śrutvaivaṃ vadatāṃ varaḥ |
dadhyau muhūrtaṃ dharmātmā harṣavyākulalocanaḥ

118.12

एवमुक्तो महातेजा धृतिमानुरुविक्रमः ।
उवाच त्रिदशश्रेष्ठं रामो धर्मभृतां वरः

evamukto mahātejā dhṛtimānuruvikramaḥ |
uvāca tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ

118.13

अवश्यं चापि लोकेषु सीता पावनमर्हति ।
दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा

avaśyaṃ cāpi lokeṣu sītā pāvanamarhati |
dīrghakāloṣitā hīyaṃ rāvaṇāntaḥpure śubhā

118.14

बालिशो बत कामात्मा रामो दशरथात्मजः ।
इति वक्ष्यति मां लोको जानकीमविशोध्य हि

bāliśo bata kāmātmā rāmo daśarathātmajaḥ |
iti vakṣyati māṃ loko jānakīmaviśodhya hi

118.15

अनन्यहृदयां सीतां मच्चित्तपरिरक्षिणीम् ।
अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्

ananyahṛdayāṃ sītāṃ maccittaparirakṣiṇīm |
ahamapyavagacchāmi maithilīṃ janakātmajām

118.16

इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ।
रावणो नातिवर्तेत वेलामिव महोदधिः

imāmapi viśālākṣīṃ rakṣitāṃ svena tejasā |
rāvaṇo nātivarteta velāmiva mahodadhiḥ

118.17

प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः ।
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्

pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ |
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam

118.18

न हि शक्तः सुदुष्टात्मा मनसापि हि मैथिलीम् ।
प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव

na hi śaktaḥ suduṣṭātmā manasāpi hi maithilīm |
pradharṣayitumaprāpyāṃ dīptāmagniśikhāmiva

118.19

नेयमर्हति वैक्लव्यं रावणान्तःपुरे सती ।
अनन्या हि मया सीता भास्करस्य प्रभा यथा

neyamarhati vaiklavyaṃ rāvaṇāntaḥpure satī |
ananyā hi mayā sītā bhāskarasya prabhā yathā

118.20

विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ।
न विहातुं मया शक्या कीर्तिरात्मवता यथा

viśuddhā triṣu lokeṣu maithilī janakātmajā |
na vihātuṃ mayā śakyā kīrtirātmavatā yathā

118.21

अवश्यं च मया कार्यं सर्वेषां वो वचो हितम् ।
स्निग्धानां लोकनाथानामेवं च वदतां हितम्

avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam |
snigdhānāṃ lokanāthānāmevaṃ ca vadatāṃ hitam

118.22

इत्येवमुक्त्वा विजयी महाबलः
प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामः प्रियया महायशाः
सुखं सुखार्होऽनुबभूव राघवः

ityevamuktvā vijayī mahābalaḥ
praśasyamānaḥ svakṛtena karmaṇā |
sametya rāmaḥ priyayā mahāyaśāḥ
sukhaṃ sukhārho'nubabhūva rāghavaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)