उत्तरकाण्ड

सर्ग 99: आगे के वर्ष, माताओं का स्वर्गगमन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥

20 श्लोक · 99 में से 111

इस अध्याय में क्या होता है

आगे के वर्ष, माताओं का स्वर्गगमन

भोर में कुश-लव काव्य का भविष्य-भाग गाते हैं। सीता के धरती में चले जाने पर श्रीराम दुःखी मन से यज्ञ पूरा करते हैं; उनके बिना उन्हें संसार सूना लगता है। वे राजाओं को विदा करते हैं, ब्राह्मणों को दान देकर भेजते हैं और दोनों पुत्रों के साथ अयोध्या लौटते हैं। वे दूसरी पत्नी नहीं लेते; हर यज्ञ में जानकी की स्वर्ण-प्रतिमा रहती है। दस हजार वर्ष वे अश्वमेध करते हैं। समय पर वर्षा होती है और श्रीराम के राज्य में कोई अनर्थ नहीं होता। बहुत समय बाद कौसल्या का देहान्त होता है, फिर सुमित्रा और कैकेयी का; वे स्वर्ग में राजा दशरथ से मिलती हैं। श्रीराम उनके नाम पर बड़े दान देते हैं, और अनेक हजार वर्ष सुख से बीतते हैं।

99.1

रजन्यां तु प्रभातायां समानीय महामुनीन् ।
गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह

rajanyāṃ tu prabhātāyāṃ samānīya mahāmunīn |
gīyatāmaviśaṅkābhyāṃ rāmaḥ putrāvuvāca ha

99.2

ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ

tataḥ samupaviṣṭeṣu brahmarṣiṣu mahātmasu |
bhaviṣyaduttaraṃ kāvyaṃ jagatustau kuśīlavau

99.3

प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा ।
तस्यावसाने यज्ञस्य रामः परमदुर्मनाः

praviṣṭāyāṃ tu sītāyāṃ bhūtalaṃ satyasampadā |
tasyāvasāne yajñasya rāmaḥ paramadurmanāḥ

99.4

अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।
शोकेन परमायस्तो न शान्तिं मनसा ऽगमत्

apaśyamāno vaidehīṃ mene śūnyamidaṃ jagat |
śokena paramāyasto na śāntiṃ manasā 'gamat

99.5

विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।
जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च

visṛjya pārthivānsarvānṛkṣavānararākṣasān |
janaughaṃ vipramukhyānāṃ vittapūrvaṃ visṛjya ca

99.6

एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः

evaṃ samāpya yajñaṃ tu vidhivatsa tu rāghavaḥ |
tato visṛjya tānsarvānrāmo rājīvalocanaḥ

99.7

हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।
इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः

hṛdi kṛtvā tadā sītāmayodhyāṃ praviveśa ha |
iṣṭayajño narapatiḥ putradvayasamanvitaḥ

99.8

न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत्

na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ |
yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat

99.9

दशवर्षसहस्राणि वाजिमेघानथाकरोत् ।
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान्

daśavarṣasahasrāṇi vājimeghānathākarot |
vājapeyāndaśaguṇāṃstathā bahusuvarṇakān

99.10

अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः

agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ |
īje kratubhiranyaiśca sa śrīmānāptadakṣiṇaiḥ

99.11

एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु

evaṃ sa kālaḥ sumahānrājyasthasya mahātmanaḥ |
dharme prayatamānasya vyatīyādrāghavasya tu

99.12

अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।
ऋक्षवानररक्षांसि स्थिता रामस्य शासने

anurañjanti rājānamahanyahani rāghavam |
ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane

99.13

काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा

kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ |
hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadāstathā

99.14

नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।
नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति

nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tathā |
nānartho vidyate kaścidrāme rājyaṃ praśāsati

99.15

अथ दीर्घस्य कालस्य राममाता यशस्विनी ।
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत्

atha dīrghasya kālasya rāmamātā yaśasvinī |
putrapautraiḥ parivṛtā kāladharmamupāgamat

99.16

अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता

anviyāya sumitrā ca kaikeyī ca yaśasvinī |
dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā

99.17

सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।
समागता महाभागाः सर्वधर्मं च लेभिरे

sarvāḥ pramuditāḥ svarge rājñā daśarathena ca |
samāgatā mahābhāgāḥ sarvadharmaṃ ca lebhire

99.18

तासां रामो महादानं काले काले प्रयच्छति ।
मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु

tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati |
māta'ṇāmaviśeṣeṇa brāhmaṇeṣu tapasviṣu

99.19

पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।
चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन्

pitryāṇi brahmaratnāni yajñānparamadustarān |
cakāra rāmo dharmātmā pita'ndevānvivardhayan

99.20

एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।
यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा

evaṃ varṣasahasrāṇi bahūnyatha yayuḥ sukham |
yajñairbahuvidhaṃ dharmaṃ vardhayānasya sarvadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)