उत्तरकाण्ड

सर्ग 100: युधाजित् का संदेश, गन्धर्व देश

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे शततमः सर्गः ॥ १०० ॥

25 श्लोक · 100 में से 111

इस अध्याय में क्या होता है

युधाजित् का संदेश, गन्धर्व देश

समय बीतने पर केकयराज युधाजित् अपने गुरु गार्ग्य को दस हजार घोड़ों और सुन्दर उपहारों के साथ श्रीराम के पास भेजते हैं। श्रीराम एक कोस आगे जाकर उनका स्वागत और सम्मान करते हैं। गार्ग्य कहते हैं: सिन्धु के दोनों तटों पर एक सुन्दर गन्धर्व देश है, जिसकी रक्षा शैलूष के तीन करोड़ बलवान पुत्र करते हैं। आप उन्हें जीतकर वहाँ दो सुन्दर नगर बसाइए। श्रीराम स्वीकार करते हैं और कहते हैं कि भरत के पुत्र तक्ष और पुष्कल भरत के साथ जाकर गन्धर्वों को मारेंगे और देश को दो नगरों में बाँटेंगे। शुभ नक्षत्र में भरत गार्ग्य और सेना के साथ निकलते हैं, और डेढ़ महीने बाद केकय पहुँचते हैं।

100.1

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।
स्वगुरुं प्रेषयामास राघवाय महात्मने ।
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्

kasyacittvatha kālasya yudhājitkekayo nṛpaḥ |
svaguruṃ preṣayāmāsa rāghavāya mahātmane |
gārgyamaṅgirasaḥ putraṃ brahmarṣimamitaprabham

100.2

दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्

daśa cāśvasahasrāṇi prītidānamanuttamam

100.3

कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।
रामाय प्रददौ राजा शुभान्याभरणानि च

kambalāni ca ratnāni citravastramathottamam |
rāmāya pradadau rājā śubhānyābharaṇāni ca

100.4

श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।
मातुलस्याश्वपतिनः प्रहितं तन्महाधनम्

śrutvā tu rāghavo dhīmānmaharṣiṃ gārgyamāgatam |
mātulasyāśvapatinaḥ prahitaṃ tanmahādhanam

100.5

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।
गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम्

pratyudgamya ca kākutsthaḥ krośamātraṃ sahānujaḥ |
gārgyaṃ sampūjayāmāsa yathā śakro bṛhaspatim

100.6

तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।
पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे

tathā sampūjya tamṛṣiṃ taddhanaṃ pratigṛhya ca |
pṛṣṭvā pratipadaṃ sarvaṃ kuśalaṃ mātulasya ca |
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame

100.7

किमाह मातुलो वाक्यं यदर्थं भगवानिह ।
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः

kimāha mātulo vākyaṃ yadarthaṃ bhagavāniha |
prāpto vākyavidāṃ śreṣṭhaḥ sākṣādiva bṛhaspatiḥ

100.8

रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।
वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे

rāmasya bhāṣitaṃ śrutvā maharṣiḥ kāryavistaram |
vaktumadbhutasaṅkāśaṃ rāghavāyopacakrame

100.9

मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते

mātulaste mahābāho vākyamāha nararṣabhaḥ |
yudhājitprītisaṃyuktaṃ śrūyatāṃ yadi rocate

100.10

अयं गन्धर्वविषयः फलमूलोपशोभितः ।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः

ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ |
sindhorubhayataḥ pārśve deśaḥ paramaśobhanaḥ

100.11

तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।
शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः

taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ |
śailūṣasya sutā vīra trikoṭyo vai mahābalāḥ

100.12

तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।
निवेशय महाबोहो स्वे पुरे सुसमाहिते

tānvinirjitya kākutstha gandharvanagaraṃ śubham |
niveśaya mahāboho sve pure susamāhite

100.13

अन्यस्य न गतिस्तत्र देशः परमशोभनः ।
रोचतां ते महाबाहो नाहं त्वामहितं वदे

anyasya na gatistatra deśaḥ paramaśobhanaḥ |
rocatāṃ te mahābāho nāhaṃ tvāmahitaṃ vade

100.14

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।
उवाच बाढमित्येव भरतं चान्ववैक्षत

tacchrutvā rāghavaḥ prīto maharṣermātulasya ca |
uvāca bāḍhamityeva bharataṃ cānvavaikṣata

100.15

सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।
इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः

so 'bravīdrāghavaḥ prītaḥ sāñjalipragraho dvijam |
imau kumārau taṃ deśaṃ brahmarṣe vicariṣyataḥ

100.16

भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।
मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ

bharatasyātmajau vīrau takṣaḥ puṣkala eva ca |
mātulena suguptau tu dharmeṇa susamāhitau

100.17

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः

bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau |
nihatya gandharvasutāndve pure vibhajiṣyataḥ

100.18

निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।
आगमिष्यति मे भूयः सकाशमतिधार्मिकः

niveśya te puravare ātmajau sanniveśya ca |
āgamiṣyati me bhūyaḥ sakāśamatidhārmikaḥ

100.19

ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्

brahmarṣimevamuktvā tu bharataṃ sabalānugam |
ājñāpayāmāsa tadā kumārau cābhyaṣecayat

100.20

नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।
भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ

nakṣatreṇa ca saumyena puraskṛtyāṅgirassutam |
bharataḥ saha sainyena kumārābhyāṃ viniryayau

100.21

सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।
राघवानुगता दूरं दुराधर्षा सुरैरपि

sā senā śakrayukteva nagarānniryayāvatha |
rāghavānugatā dūraṃ durādharṣā surairapi

100.22

मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।
अनुजग्मुर्हि भरतं रुधिरस्य पिपासया

māṃsādāni ca sattvāni rakṣāṃsi sumahānti ca |
anujagmurhi bharataṃ rudhirasya pipāsayā

100.23

भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः

bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ |
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ

100.24

सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः

siṃhavyāghravarāhāṇāṃ khecarāṇāṃ ca pakṣiṇām |
bahūni vai sahasrāṇi senāyā yayuragrataḥ

100.25

अध्यर्धमासमुषिता पथि सेना निरामया ।
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्

adhyardhamāsamuṣitā pathi senā nirāmayā |
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)