उत्तरकाण्ड

सर्ग 97: सीता का धरती माता में प्रवेश

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥

27 श्लोक · 97 में से 111

इस अध्याय में क्या होता है

सीता का धरती माता में प्रवेश

हाथ जोड़कर श्रीराम कहते हैं कि वाल्मीकि के निष्पाप वचनों से मुझे विश्वास है। सीता ने बहुत पहले लंका में प्रमाण दिया था, पर उन्हें निष्पाप जानते हुए भी मैंने लोक-भय से त्यागा, वे क्षमा करें। देवता और ऋषि शपथ देखने आते हैं। हाथ जोड़े सीता कहती हैं: यदि मैंने मन से भी श्रीराम के सिवा किसी का चिन्तन नहीं किया, तो धरती माता मुझे स्थान दें; यदि मैं मन, कर्म और वचन से श्रीराम की ही आराधना करती हूँ, तो वे मुझे स्थान दें। तभी धरती से नागों द्वारा उठा दिव्य सिंहासन प्रकट होता है। भूदेवी सीता को भुजाओं में लेकर उस पर बिठाती हैं; रसातल में प्रवेश करती सीता पर पुष्पवर्षा होती है। देवता 'धन्य सीता!' पुकारते हैं।

97.1

वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम्

vālmīkinaivamuktastu rāghavaḥ pratyabhāṣata |
prāñjalirjagato madhye dṛṣṭvā tāṃ varavarṇinīm

97.2

एवमेतन्महाभाग यथा वदसि धर्मवित् ।
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः

evametanmahābhāga yathā vadasi dharmavit |
pratyayastu mama brahmaṃstava vākyairakalmaṣaiḥ

97.3

प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।
शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।
लोकापवादो बलवान्येन त्यक्ता हि मैथिली

pratyayastu purā vṛtto vaidehyāḥ surasannidhau |
śapathastu kṛtastatra tena veśma praveśitā |
lokāpavādo balavānyena tyaktā hi maithilī

97.4

सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।
परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति

seyaṃ lokabhayādbrahmannapāpetyabhijānatā |
parityaktā mayā sītā tadbhāvankṣantumarhati

97.5

जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे

jānāmi cemau putrau me yamajātau kuśīlavau |
śuddhāyāṃ jagato madhye maithilyāṃ prītirastu me

97.6

अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।
सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः

abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ |
sītāyāḥ śapathe tasmin mahendrādyā mahaujasaḥ

97.7

पितामहं पुरस्कृत्य सर्व एव समागताः

pitāmahaṃ puraskṛtya sarva eva samāgatāḥ

97.8

आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव सर्व एव समागताः

ādityā vasavo rudrā hyaśvinau samarudgaṇāḥ |
gandharvāpsarasaścaiva sarva eva samāgatāḥ

97.9

साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।
नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।
सीताशपथसम्भ्रान्ताः सर्व एव समागताः

sādhyāśca viśvedevāśca sarve ca paramarṣayaḥ |
nāgāḥ suparṇāḥ siddhāśca te sarve hṛṣṭamānasāḥ |
sītāśapathasambhrāntāḥ sarva eva samāgatāḥ

97.10

दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।
प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः

dṛṣṭvā devānṛṣīṃścaiva rāghavaḥ punarabravīt |
pratyayo me naraśreṣṭhā ṛṣivākyairakalmaṣaiḥ

97.11

शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे

śuddhāyāṃ jagato madhye vaidehyāṃ prītirastu me

97.12

ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।
तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः

tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ |
tajjanaughaṃ suraśreṣṭho hlādayāmāsa sarvataḥ

97.13

तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा

tadadbhutamivācintyaṃ niraikṣanta samāgatāḥ |
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā

97.14

सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी

sarvānsamāgatāndṛṣṭvā sītā kāṣāyavāsinī |
abravītprāñjalirvākyamadhodṛṣṭiravāṅmukhī

97.15

यथा ऽहं राघवादन्यं मनसापि न चिन्तये ।
तथा मे माधवी देवी विवरं दातुमर्हति

yathā 'haṃ rāghavādanyaṃ manasāpi na cintaye |
tathā me mādhavī devī vivaraṃ dātumarhati

97.16

मनसा कर्मणा वाचा यथा रामं समर्चये ।
तथा मे माधवी देवी विवरं दातुमर्हति

manasā karmaṇā vācā yathā rāmaṃ samarcaye |
tathā me mādhavī devī vivaraṃ dātumarhati

97.17

यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा मे माधवी देवी विवरं दातुमर्हति

yathaitatsatyamuktaṃ me vedmi rāmātparaṃ na ca |
tathā me mādhavī devī vivaraṃ dātumarhati

97.18

तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम्

tathā śapantyāṃ vaidehyāṃ prādurāsīttadadbhutam |
bhūtalādutthitaṃ divyaṃ siṃhāsanamanuttamam

97.19

ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः

dhriyamāṇaṃ śirobhistu nāgairamitavikramaiḥ |
divyaṃ divyena vapuṣā divyaratnavibhūṣitaiḥ

97.20

तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत्

tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm |
svāgatenābhinandyaināmāsane copaveśayat

97.21

तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत्

tāmāsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam |
puṣpavṛṣṭiravicchinnā divyā sītāmavākirat

97.22

साधुकारश्च सुमहान्देवानां सहसोत्थितः ।
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम्

sādhukāraśca sumahāndevānāṃ sahasotthitaḥ |
sādhu sādhviti vai sīte yasyāste śīlamīdṛśam

97.23

एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम्

evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ |
vyājahrurhṛṣṭamanaso dṛṣṭvā sītāpraveśanam

97.24

यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे

yajñavāṭagatāścāpi munayaḥ sarva eva te |
rājānaśca naravyāghrā vismayānnoparemire

97.25

अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।
दानवाश्च महाकायाः पाताले पन्नगाधिपाः

antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ |
dānavāśca mahākāyāḥ pātāle pannagādhipāḥ

97.26

केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।
केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः

kecidvineduḥ saṃhṛṣṭāḥ keciddhyānaparāyaṇāḥ |
kecidrāmaṃ nirīkṣante kecitsītāmacetanāḥ

97.27

सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।
तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत्

sītāpraveśanaṃ dṛṣṭvā teṣāmāsītsamāgamaḥ |
tanmuhūrtamivātyarthaṃ samaṃ sammohitaṃ jagat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)