वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः
vartamāne tathābhūte yajñe ca paramādbhute |
saśiṣya ājagāmāśu vālmīkirmunipuṅgavaḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
19 श्लोक · 93 में से 111
महायज्ञ चल ही रहा है कि महर्षि वाल्मीकि शिष्यों के साथ आते हैं और ऋषियों के क्षेत्र के एकान्त कोने में कुटियाँ बनाते हैं। वे अपने दो शिष्यों से कहते हैं कि जाकर पूरा रामायण काव्य ऋषियों के आवासों, राजमार्गों और विशेषकर श्रीराम के द्वार पर गाओ। यदि श्रीराम बैठे हुए ऋषियों के बीच सुनने बुलाएँ, तो प्रतिदिन बीस सर्ग गाना। धन का लोभ मत करना। यदि श्रीराम पूछें कि तुम किसके पुत्र हो, तो बस इतना कहना कि हम वाल्मीकि के शिष्य हैं। आरम्भ से गाना और राजा का अनादर न करना, क्योंकि धर्म से राजा सब प्राणियों का पिता है। सीता के दोनों पुत्र वैसा ही करने का वचन देते हैं।
वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः
vartamāne tathābhūte yajñe ca paramādbhute |
saśiṣya ājagāmāśu vālmīkirmunipuṅgavaḥ
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।
एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान्
sa dṛṣṭvā divyasaṅkāśaṃ yajñamadbhutadarśanam |
ekānte ṛṣivāṭānāṃ cakāra uṭajāñchubhān
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।
वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः
śakaṭāṃśca bahūnpūrṇānphalamūlaiśca śobhanān |
vālmīkivāṭe rucire sthāpayannavidūrataḥ
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।
वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान्
āsītsupūjito rājñā munibhiśca mahātmabhiḥ |
vālmīkiḥ sumahātejā nyavasatparamātmavān
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।
कृत्स्नं रामायणं काव्यं गायेथां परया मुदा
sa śiṣyāvabravīddhṛṣṭau yuvāṃ gatvā samāhitau |
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyethāṃ parayā mudā
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च
ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca |
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca
रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः
rāmasya bhavanadvāri yatra karma ca kurvate |
ṛtvijāmagrataścaiva tatra geyaṃ viśeṣataḥ
इमानि च फलान्यत्र स्वादूनि विविधानि च ।
जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम्
imāni ca phalānyatra svādūni vividhāni ca |
jātāni parvatāgreṣu cāsvādyāsvādya gāyatām
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।
मूलानि च सुमृष्टानि नगराद्बहिरास्यथः
na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai |
mūlāni ca sumṛṣṭāni nagarādbahirāsyathaḥ
यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम्
yadi śabdāpayedrāmaḥ śravaṇāya mahīpatiḥ |
ṛṣīṇāmupaviṣṭānāṃ tato geyaṃ pravartatām
दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा
divase viṃśatiḥ sargā geyā madhurayā girā |
pramāṇairbahubhistatra yathoddiṣṭā mayā purā
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया ।
किं धनेनाश्रमस्थानां फलमूलोपजीविना
lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā |
kiṃ dhanenāśramasthānāṃ phalamūlopajīvinā
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।
आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम्
yadi pṛcchetsa kākutstho yuvāṃ kasyeti dārakau |
āvāṃ vālmīkiśiṣyau svo brūtamevaṃ narādhipam
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् ।
मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ
imāstantrīḥ sumadhurāḥ sthānaṃ vā 'pūrvadarśanam |
mūrcchayitvā sumadhuraṃ gāyatāṃ vigatajvarau
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।
पिता हि सर्वभूतानां राजा भविति धर्मतः
ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam |
pitā hi sarvabhūtānāṃ rājā bhaviti dharmataḥ
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।
गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम्
tadyuvāṃ hṛṣṭamanasau śvaḥ prabhāte samāsthitau |
gāyethāṃ madhuraṃ geyaṃ tantrīlayasamanvitam
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः
iti sandiśya bahuśo muniḥ prācetasastadā |
vālmīkiḥ paramodārastūṣṇīmāsīnmahāyaśāḥ
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।
तथैव करवावेति निर्जग्मतुररिन्दमौ
sandiṣṭau muninā tena tāvubhau maithilīsutau |
tathaiva karavāveti nirjagmaturarindamau
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।
समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम्
tāmadbhutāṃ tau hṛdaye kumārau niveśya vāṇīmṛṣibhāṣitāṃ tadā |
samutsukau tau samamūṣaturniśāṃ yathā 'śvinau bhārgavanītisaṃhitām
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)