उत्तरकाण्ड

सर्ग 92: नैमिषारण्य में अश्वमेध

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥

19 श्लोक · 92 में से 111

इस अध्याय में क्या होता है

नैमिषारण्य में अश्वमेध

सब कुछ आगे भेजकर श्रीराम शुभ लक्षणों वाला कृष्णसार अश्व छोड़ते हैं, लक्ष्मण और ऋत्विजों को उसकी रक्षा पर लगाते हैं और सेना के साथ नैमिष जाते हैं। सब राजा उपहार लाते हैं। भरत और शत्रुघ्न राजाओं की, सुग्रीव और वानर ब्राह्मणों की, विभीषण राक्षसों के साथ ऋषियों की सेवा करते हैं। पूरे यज्ञ में एक ही स्वर सुनाई देता है: खुले हाथ दो, जब तक माँगने वाले तृप्त न हों। चिरंजीवी मुनि कहते हैं कि ऐसा यज्ञ इन्द्र, कुबेर, यम या वरुण का भी नहीं देखा। चाँदी, सोने, रत्नों और वस्त्रों के ढेर सदा बँटते रहते हैं, और यज्ञ एक वर्ष से अधिक बिना किसी कमी के चलता है।

92.1

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह

tatsarvamakhilenāśu prasthāpya bharatāgrajaḥ |
hayaṃ lakṣaṇasampannaṃ kṛṣṇasāraṃ mumoca ha

92.2

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।
ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम्

ṛtvigbhirlakṣmaṇaṃ sārdhamaśvatantre niyojya ca |
tato 'bhyagacchatkākutsthaḥ saha sainyena naimiśam

92.3

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत्

yajñavāṭaṃ mahābāhurdṛṣṭvā paramamadbhutam |
prabarṣamatulaṃ lebhe śrīmāniti vaco 'bravīt

92.4

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत्

naimiṣe vasatastasya sarva eva narādhipāḥ |
āninyurupahārāṃśca tānrāmaḥ pratyapūjayat

92.5

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः

upakāryā mahārhāśca pārthivānāṃ mahātmanām |
sānugānāṃ naraśreṣṭho vyādideśa mahāmatiḥ

92.6

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।
भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा

annapānāni vastrāṇi sānugānāṃ mahātmanām |
bharataḥ sandadāvāśu śatrughnasahitastadā

92.7

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्

vānarāśca mahātmānaḥ sugrīvasahitāstadā |
viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam

92.8

बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम्

bibhīṣaṇaśca rakṣobhirbahubhiḥ sragvibhirvṛtaḥ |
ṛṣīṇāmugratapasāṃ pūjāṃ cakre mahātmanām

92.9

एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।
लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।
ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम्

evaṃ suvihito yajño hayamedho 'bhyavartata |
lakṣmaṇenāguptā ca hayacaryā pravartata |
īdṛśaṃ rājasiṃhasya yajñapravaramuttamam

92.10

नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः

nānyaḥ śabdo 'bhavattatra hayamedhe mahātmanaḥ |
chandato dehi visrabdho yāvattuṣyanti yācakāḥ

92.11

तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।
विविधानि च गौडानि खाण्डवानि तथैव च

tāvatsarvāṇi dattāni kratumadhye mahātmanaḥ |
vividhāni ca gauḍāni khāṇḍavāni tathaiva ca

92.12

न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत

na nissṛtaṃ bhatatyoṣṭhādvacanaṃ yāvadarthinām |
tāvadvānararakṣobhirdattamevābhyadṛśyata

92.13

न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते

na kaścinmalinastatra dīno vā 'pyatha kṛrśataḥ |
tasminyajñavare rājño hṛṣṭapuṣṭajanāvṛte

92.14

ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन

ye ca tatra mahātmāno munayaścirajīvinaḥ |
nāsmaraṃstādṛśaṃ yajñaṃ nāpyāsīt sa kadācana

92.15

यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च

yaḥ kṛtyavānsuvarṇena suvarṇaṃ labhate sma saḥ |
vittārthī labhate vittaṃ ratnārthī ratnameva ca

92.16

रजतानां सुवर्णानामश्मनामथ वाससाम् ।
अनिशं दीयमानानां राशिः समुपदृश्यते

rajatānāṃ suvarṇānāmaśmanāmatha vāsasām |
aniśaṃ dīyamānānāṃ rāśiḥ samupadṛśyate

92.17

न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः

na śakrasya dhaneśasya yamasya varuṇasya vā |
īdṛśo dṛṣṭapūrvo na evamūcustapodhanāḥ

92.18

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।
वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम्

sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ |
vāsodhanānnamarthibhyaḥ pūrṇahastā dadurbhṛśam

92.19

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते

īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ |
saṃvatsaramatho sāgraṃ vartate na ca hīyate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)