उत्तरकाण्ड

सर्ग 91: श्रीराम के अश्वमेध की तैयारी

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥

26 श्लोक · 91 में से 111

इस अध्याय में क्या होता है

श्रीराम के अश्वमेध की तैयारी

श्रीराम लक्ष्मण से कहते हैं कि वसिष्ठ, वामदेव, जाबालि, कश्यप और श्रेष्ठ ब्राह्मणों को बुलाओ, ताकि उनसे परामर्श कर शुभ लक्षणों वाला अश्व छोड़ूँ। ब्राह्मण श्रीराम को आशीर्वाद देते हैं, उनका संकल्प सुनकर अश्वमेध की प्रशंसा करते हैं। फिर श्रीराम कहते हैं कि सुग्रीव को बड़े वानरों के साथ, विभीषण को राक्षसों के साथ और सब मित्र राजाओं को आने का संदेश भेजो; दूर देशों के ब्राह्मण और ऋषि बुलाए जाएँ, और नैमिषारण्य में गोमती तट पर विशाल यज्ञशाला बने। अन्न, तेल, नमक और सुगन्ध आगे भेजी जाए; और भरत स्वर्ण, सेना, माताएँ, अन्तःपुर और यज्ञ के लिए मेरी पत्नी की स्वर्ण-प्रतिमा लेकर आगे चलें।

91.1

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः

etadākhyāya kākutstho bhrātṛbhyāmamitaprabhaḥ |
lakṣmaṇaṃ punarevāha dharmayuktamidaṃ vacaḥ

91.2

वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान्

vasiṣṭhaṃ vāmadevaṃ ca jābālimatha kaśyapam |
dvijāṃśca sarvapravarānaśvamedhapuraskṛtān

91.3

एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना

etānsarvānsamānīya mantrayitvā ca lakṣmaṇa |
hayaṃ lakṣaṇasampannaṃ vimokṣyāmi samādhinā

91.4

तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान्सर्वान्समाहूय दर्शयामास राघवम्

tadvākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ |
dvijānsarvānsamāhūya darśayāmāsa rāghavam

91.5

ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन्

te dṛṣṭvā devasaṅkāśaṃ kṛtapādābhivandanam |
rāghavaṃ sudurādharṣamāśīrbhiḥ samapūjayan

91.6

प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः

prāñjaliḥ sa tadā bhūtvā rāghavo dvijasattamān |
ācacakṣe 'śvamedhasya hyabhiprāyaṃ mahāyaśāḥ

91.7

ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः

te tu rāmasya tacchrutvā namaskṛtvā vṛṣadhvajam |
aśvamedhaṃ dvijāḥ sarve pūjayanti sma sarvaśaḥ

91.8

स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा

sa teṣāṃ dvijamukhyānāṃ vākyamadbhutadarśanam |
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavattadā

91.9

विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने

vijñāya karma tatteṣāṃ rāmo lakṣmaṇamabravīt |
preṣayasva drutaṃ dūtān sugrīvāya mahātmane

91.10

यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम्

yathā mahadbhirharibhirbahubhiśca vanaukasām |
sārdhamāgaccha bhadraṃ te hyanubhoktuṃ mahotsavam

91.11

बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः

bibhīṣaṇaśca rakṣobhiḥ kāmagairbahubhirvṛtaḥ |
aśvamedhaṃ mahāyajñamāyātvatulavikramaḥ

91.12

राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम्

rājānaśca mahābhāgā ye me priyacikīrṣavaḥ |
sānugāḥ kṣipramāyāntu yajñaṃ draṣṭumanuttamam

91.13

देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण

deśāntaragatā ye ca dvijā dharmasamāhitāḥ |
āmantrayasva tānsarvānaśvamedhāya lakṣmaṇa

91.14

ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।
तथैव तालावचरास्तथैव नटनर्तकाः

ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ |
deśāntaragatāḥ sarve sadārāśca dvijātayaḥ |
tathaiva tālāvacarāstathaiva naṭanartakāḥ

91.15

यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम्

yajñavāṭaśca sumahāngomatyā naimiśe vane |
ājñāpyatāṃ mahābāho taddhi puṇyamanuttamam

91.16

शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः

śāntayaśca mahābāho pravartyantāṃ samantataḥ

91.17

शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिशे रघुनन्दन

śataśaścāpi dharmajñāḥ kratumukhyamanuttamam |
anubhūya mahāyajñaṃ naimiśe raghunandana

91.18

तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।
प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः

tuṣṭaḥ puṣṭaśca sarvo 'sau mānitaśca yathāvidhi |
prītiṃ yāsyati dharmajña śīghramāmantryatāṃ janaḥ

91.19

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल

śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām |
ayutaṃ tilamudgānāṃ prayātvagre mahābala

91.20

चणकानां कुलित्थानां माषाणां लवणस्य च ।
अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च

caṇakānāṃ kulitthānāṃ māṣāṇāṃ lavaṇasya ca |
ato 'nurūpaṃ snehaṃ ca gandhaṃ saṅkṣiptameva ca

91.21

सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना

suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ |
agrato bharataḥ kṛtvā gacchatvagre samādhinā

91.22

अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः

antarā paṇyavīthyaśca sarve ca naṭanartakāḥ |
sūdā nāryaśca bahavo nityaṃ yauvanaśālinaḥ

91.23

भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः

bharatena tu sārdhaṃ te yāntu sainyāni cāgrataḥ |
naigamā balavṛddhāśca dvijāśca susamāhitāḥ

91.24

कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च

karmāntikānvardhakinaḥ kośādhyakṣāṃśca naigamān |
mama māta'stathā sarvāḥ kumārāntaḥpurāṇi ca

91.25

काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः

kāñcanīṃ mama patnīṃ ca dīkṣāyāṃ jñāṃśca karmaṇi |
agrato bharataḥ kṛtvā gacchatvagre mahāyaśāḥ

91.26

उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः

upakāryā mahārhāśca pārthivānāṃ mahaujasām |
sānugānāṃ naraśreṣṭho vyādideśa mahābalaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)