उत्तरकाण्ड

सर्ग 85: इन्द्र द्वारा वृत्र-वध, ब्रह्महत्या का पीछा

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥

22 श्लोक · 85 में से 111

इस अध्याय में क्या होता है

इन्द्र द्वारा वृत्र-वध, ब्रह्महत्या का पीछा

श्रीराम लक्ष्मण से पूरी कथा कहने को कहते हैं। भगवान विष्णु ने देवताओं से कहा कि मैं पुराने स्नेह से वृत्र से बँधा हूँ, स्वयं उसे नहीं मारूँगा; मैं अपने को तीन भागों में बाँटकर इन्द्र, वज्र और पृथ्वी में प्रवेश करूँगा। तब इन्द्र ने वज्र वृत्र के सिर पर दे मारा और सिर गिर पड़ा। इस वध को अनुचित मानकर इन्द्र लोकों के छोर तक भाग गए, और ब्रह्महत्या उनके अंगों पर आ पड़ी। देवताओं ने भगवान विष्णु की स्तुति कर पूछा कि इन्द्र कैसे मुक्त हों। भगवान ने कहा कि इन्द्र पवित्र अश्वमेध से मेरी आराधना करें, तब वे पवित्र होकर निर्भय फिर इन्द्र-पद पाएँगे।

85.1

लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रत

lakṣmaṇasya tu tadvākyaṃ śrutvā śatrunibarhaṇaḥ |
vṛtraghātamaśeṣeṇa kathayetyāha suvrata

85.2

राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।
भूय एव कथां दिव्यां कथयामास सुव्रतः

rāghaveṇaivamuktastu sumitrānandavardhanaḥ |
bhūya eva kathāṃ divyāṃ kathayāmāsa suvrataḥ

85.3

सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान्

sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām |
viṣṇurdevānuvācedaṃ sarvānindrapurogamān

85.4

पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः ।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम्

pūrvaṃ sauhṛdabaddho 'smi vṛtrasya ha mahātmanaḥ |
tena yuṣmatpriyārthaṃ hi nāhaṃ hanmi mahāsuram

85.5

अवश्यं करणीयं च भवतां सुखमुत्तमम् ।
तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते

avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukhamuttamam |
tasmādupāyamākhyāsye yena vṛtro nihanyate

85.6

त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः

tridhābhūtaṃ kariṣyāmi hyātmānaṃ surasattamāḥ |
tena vṛtraṃ sahasrākṣo vadhiṣyati na saṃśayaḥ

85.7

एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।
तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति

ekāṃśo vāsavaṃ yātu dvitīyo vajrameva tu |
tṛtīyo bhūtalaṃ śakrastadā vṛtraṃ vadhiṣyati

85.8

तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन्

tathā bruvati deveśe devā vākyamathābruvan |
evametanna sandeho yathā vadasi daityahan

85.9

भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।
भजस्व परमोदार वासवं स्वेन तेजसा

bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ |
bhajasva paramodāra vāsavaṃ svena tejasā

85.10

ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।
तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः

tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ |
tadāraṇyamupākrāmanyatra vṛtro mahāsuraḥ

85.11

ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम्

te paśyaṃstejasā bhūtaṃ tapyantamasurottamam |
pibantamiva lokāṃstrīnnirdahantamivāmbaram

85.12

दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।
कथमेनं वधिष्यामः कथं न स्यात्पराजयः

dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsamupāgaman |
kathamenaṃ vadhiṣyāmaḥ kathaṃ na syātparājayaḥ

85.13

तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि

teṣāṃ cintayatāṃ tatra sahasrākṣaḥ purandaraḥ |
vajraṃ pragṛhya pāṇibhyāṃ prāhiṇodvṛtramūrdhani

85.14

कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।
पतता वृत्रशिरसा जगत्त्रासमुपागमत्

kālāgnineva ghoreṇa taptenaiva mahārciṣā |
patatā vṛtraśirasā jagattrāsamupāgamat

85.15

असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः

asambhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ |
cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ

85.16

तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति ।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत्

tamindraṃ brahmahatyā ' 'śu gacchantamanugacchati |
apataccāsya gātreṣu tamindraṃ duḥkhamāviśat

85.17

हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन्

hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ |
viṣṇuṃ tribhuvaneśānaṃ muhurmuhurapūjayan

85.18

त्वं गतिः परमेशान पूर्वजो जगतः पिता ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्

tvaṃ gatiḥ parameśāna pūrvajo jagataḥ pitā |
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān

85.19

हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश

hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam |
bādhate suraśārdūla mokṣaṃ tasyā vinirdiśa

85.20

तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्

teṣāṃ tadvacanaṃ śrutvā devānāṃ viṣṇurabravīt |
māmeva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam

85.21

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम्

puṇyena hayamedhena māmiṣṭvā pākaśāsanaḥ |
punareṣyati devānāmindratvamakutobhayam

85.22

एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् ।
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम्

evaṃ sandiśya tāṃ vāṇīṃ devānāmamṛtopamām |
jagāma viṣṇurdeveśaḥ stūyamānastriviṣṭapam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)