ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम्
ṛṣervacanamājñāya rāmaḥ sandhyāmupāsitum |
upākramatsaraḥ puṇyamapsarogaṇasevitam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्यशीतितमः सर्गः ॥ ८२ ॥
20 श्लोक · 82 में से 111
श्रीराम पवित्र सरोवर पर जाकर आचमन करते हैं और सायं संध्या करके अगस्त्य के आश्रम में प्रवेश करते हैं। महर्षि उन्हें कन्द, मूल, औषधियाँ और पवित्र अन्न कराते हैं, और श्रीराम रात बिताते हैं। भोर में नित्यकर्म करके वे प्रणाम कर नगर लौटने की आज्ञा माँगते हैं। प्रसन्न अगस्त्य कहते हैं कि सब प्राणियों को पवित्र करने वाले तो आप हैं: जो आपको देखते हैं, वे स्वर्ग में पूजित होते हैं; जो द्वेष-भरी दृष्टि से देखते हैं, वे यमदण्ड से मारे जाते हैं। वे आशीर्वाद देते हैं कि निर्भय जाइए और धर्म से राज कीजिए। श्रीराम तपस्वियों को प्रणाम कर पुष्पक पर चढ़ते हैं, दोपहर को अयोध्या पहुँचकर और द्वारपाल से भरत और लक्ष्मण को तुरंत बुलाने को कहते हैं।
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम्
ṛṣervacanamājñāya rāmaḥ sandhyāmupāsitum |
upākramatsaraḥ puṇyamapsarogaṇasevitam
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः
tatrodakamupaspṛśya sandhyāmanvāsya paścimām |
āśramaṃ prāviśadrāmaḥ kumbhayonermahātmanaḥ
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् ।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत्
tasyāgastyo bahuguṇaṃ kandamūlaṃ tathauṣadhim |
śālyādīni pavitrāṇi bhojanārthamakalpayat
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत्
sa bhuktavānnaraśreṣṭhastadannamamṛtopamam |
prītaśca parituṣṭaśca tāṃ rātriṃ samupāviśat
प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः
prabhāte kālyamutthāya kṛtvā ' 'hnikamarindamaḥ |
ṛṣiṃ samupacakrāma gamanāya raghūttamaḥ
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि
abhivādyābravīdrāmo maharṣiṃ kumbhasambhavam |
āpṛcche svāṃ purīṃ gantuṃ māmanujñātumarhasi
धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः
dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ |
draṣṭuṃ caivāgamiṣyāmi pāvanārthamihātmanaḥ
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः
tathā vadati kākutsthe vākyamadbhutadarśanam |
uvāca paramaprīto dharmanetrastapodhanaḥ
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन
atyadbhutamidaṃ vākyaṃ tava rāma śubhākṣaram |
pāvanaḥ sarvabhūtānāṃ tvameva raghunandana
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।
पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः
muhūrtamapi rāma tvāṃ ye ca paśyanti kecana |
pāvitāḥ svargabhūtāśca pūjyāste sarvadaivataiḥ
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः
ye ca tvāṃ ghoracakṣurbhiḥ paśyanti prāṇino bhuvi |
hatāste yamadaṇḍena sadyo nirayagāminaḥ
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव
īdṛśastvaṃ raghuśreṣṭha pāvanaḥ sarvadehinām |
bhuvi tvāṃ kathayanto 'pi siddhimeṣyanti rāghava
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान्
gaccha cāriṣṭamavyāgraḥ panthānamakutobhayam |
praśādhi rājyaṃ dharmeṇa gatirhi jagato bhavān
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम्
evamuktastu muninā prāñjaliḥ pragraho nṛpaḥ |
abhyavādayata prājñastamṛṣiṃ puṇyaśālinam
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम्
abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān |
adhyārohattadavyagraḥ puṣpakaṃ hemabhūṣitam
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।
अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः
taṃ prayāntaṃ munigaṇā hyāśīrvādaiḥ samantataḥ |
apūjayanmahendrābhaṃ sahasrākṣamivāmarāḥ
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे
svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite |
śaśī meghasamīpastho yathā jaladharāgame
ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत्
tato 'rdhadivase prāpte pūjyamānastatastataḥ |
ayodhyāṃ prāpya kākutstho madhyakakṣyāmavāruhat
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।
विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः
tato visṛjya ruciraṃ puṣpakaṃ kāmagāmi tat |
visarjayitvā gaccheti svasti te 'stviti ca prabhuḥ
कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ॥
ममागमनमाख्याय शब्दापयत मा चिरम्
kakṣāntaravinikṣiptaṃ dvāssthaṃ rāmo 'bravīdvacaḥ |
lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau ||
mamāgamanamākhyāya śabdāpayata mā ciram
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)