नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्
nāradasya tu tadvākyaṃ śrutvā 'mṛtamayaṃ tadā |
praharṣamatulaṃ lebhe lakṣmaṇaṃ cedamabravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
19 श्लोक · 75 में से 111
श्रीराम लक्ष्मण से कहते हैं कि बालक के शरीर को सुगन्धित औषधियों के साथ तेल की द्रोणी में रखवाओ। वे पुष्पक का स्मरण करते हैं और वह तुरंत आ जाता है। धनुष और तलवार लेकर, नगर का भार लक्ष्मण और भरत को सौंपकर श्रीराम निकलते हैं। वे पश्चिम, उत्तर और पूर्व खोजते हैं, पर कोई दोष नहीं मिलता। दक्षिण की ओर मुड़कर वे शैवल पर्वत के पास एक विशाल सरोवर पर पहुँचते हैं। वहाँ एक तपस्वी सिर नीचे लटकाए घोर तप कर रहा है। श्रीराम स्वयं को बताकर पूछते हैं कि सच कहो, तुम किस वर्ण के हो, ब्राह्मण, क्षत्रिय, वैश्य या शूद्र, और इस तप से क्या चाहते हो? नीचे सिर किए तपस्वी राजा को अपनी जाति और प्रयोजन बताता है।
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्
nāradasya tu tadvākyaṃ śrutvā 'mṛtamayaṃ tadā |
praharṣamatulaṃ lebhe lakṣmaṇaṃ cedamabravīt
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय
gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya suvratam |
bālasya tu śarīraṃ tattailadroṇyāṃ nidhāpaya
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम्
gandhaiśca paramodāraistailaiścāpi sugandhibhiḥ |
yathā na kṣīyate bālastathā saumya vidhīyatām
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु
yathā śarīro bālasya guptaḥ san śiṣṭakarmaṇaḥ |
vipattiḥ paribhedo vā na bhavecca tathā kuru
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः
evamādiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam |
manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै
iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ |
ājagāma muhūrtena samīpe rāghavasya vai
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः
so 'bravītpraṇato bhūtvā ayamasmi narādhipa |
vaśyastava mahābāho kiṅkaraḥ samupasthitaḥ
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत
bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ |
abhivādya maharṣīṃstān vimānaṃ so 'dhyarohata
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ
dhanurgṛhītvā tūṇī ca khaḍgaṃ ca ruciraprabham |
nikṣipya nagare vīrau saumitribharatāvubhau
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम्
prāyātpratīcīṃ haritaṃ vicinvaṃśca tatastataḥ |
uttarāmagamacchrīmāndiśaṃ himavatā vṛtām
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः
apaśyamānastatrāpi svalpamapyatha duṣkṛtam |
pūrvāmapi diśaṃ sarvāmatho 'paśyannarādhipaḥ
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः
praviśuddhasamācārāmādarśatalanirmalām |
puṣpakastho mahābāhustadāpaśyannarādhipaḥ
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः
dakṣiṇāṃ diśamākrāmattato rājarṣinandanaḥ |
śaivalasyottare pārśve dadarśa sumahatsaraḥ
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम्
tasminsarasi tapyantaṃ tāpasaṃ sumahattapaḥ |
dadarśa rāghavaḥ śrīmām̐llambamānamadhomukham
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत
rāghavastamupāgamya tapyantaṃ tapa uttamam |
uvāca sa tadā vākyaṃ dhanyastvamasi suvrata
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम्
kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama |
kautūhalāttvāṃ pṛcchāmi rāmo dāśarathirhyaham
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा ।
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस
ko 'rtho manīṣitastubhyaṃ svargalābhaḥ paro 'thavā |
varāśrayo yadarthaṃ tvaṃ tapasyasi suduṣkaram |
yamāśritya tapastaptaṃ śrotumicchāmi tāpasa
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव
brāhmaṇo vā 'si bhadraṃ te kṣatriyo vā 'si durjayaḥ |
vaiśyastṛtīyavarṇo vā śūdro vā satyavāgbhava
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः
ityevamuktaḥ sa narādhipena hyavākchirā dāśarathāya tasmai |
uvāca jātiṃ nṛpapuṅgavāya yatkāraṇe caiva tapaḥprayatnaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)