तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत्
tāṃ śrutvā divyasaṅkāśāṃ kathāmadbhutadarśanām |
lakṣmaṇaḥ paramaprīto rāghavaṃ vākyamabravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥
20 श्लोक · 57 में से 111
मित्र और वरुण के तेज वाले कुम्भ से दो ऋषि जन्मे। पहले अगस्त्य हुए, जो मित्र से 'मैं आपका पुत्र नहीं हूँ' कहकर चले गए। फिर वसिष्ठ जन्मे और इक्ष्वाकु ने उन्हें कुल का पुरोहित वरण किया। निमि का शरीर ऋषियों ने यज्ञ भर सुरक्षित रखा। यज्ञ पूरा होने पर देवताओं ने पूछा कि निमि का चित्त कहाँ रहना चाहता है। निमि ने कहा, सब प्राणियों के नेत्रों में। देवताओं ने वर दिया कि तुम वायु-रूप होकर वहाँ विचरोगे और तुम्हारे कारण नेत्र विश्राम के लिए बार-बार निमेष करेंगे। फिर ऋषियों ने पुत्र के लिए अरणि से निमि के शरीर का मन्थन किया। उससे मिथि प्रकट हुए; जन्म के कारण जनक कहलाए और देहहीन से उत्पन्न होने के कारण वैदेह।
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत्
tāṃ śrutvā divyasaṅkāśāṃ kathāmadbhutadarśanām |
lakṣmaṇaḥ paramaprīto rāghavaṃ vākyamabravīt
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ
nikṣiptadehau kākutstha kathaṃ tau dvijapārthivau |
punardehena saṃyogaṃ jagmurdevasammatau
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
तां कथां कथयामास वसिष्ठस्य महात्मनः
tasya tadbhāṣitaṃ śrutvā rāmaḥ satyaparākramaḥ |
tāṃ kathāṃ kathayāmāsa vasiṣṭhasya mahātmanaḥ
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।
तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ
yastu kumbho raghuśreṣṭha tejaḥpūrṇo mahātmanoḥ |
tasmiṃstejomayau viprau sambhūtāvṛṣisattamau
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।
नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत्
pūrvaṃ samabhavattatra hyagastyo bhagavānṛṣiḥ |
nāhaṃ sutastavetyuktvā mitraṃ tasmādapākramat
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।
तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम्
taddhi tejastu mitrasya urvasyāḥ pūrvamāhitam |
tasminsamabhavatkumbhe tattejo yatra vāruṇam
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।
वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम्
kasyacittvatha kālasya mitrāvaruṇasambhavaḥ |
vasiṣṭhastejasā yukto jajñe ikṣvākudaivatam
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।
वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः
tamikṣvākurmahātejā jātamātramaninditam |
vavre purodhasaṃ saumya vaṃśasyāsya bhavāya naḥ
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।
कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत्
evaṃ tvapūrvadehasya vasiṣṭhasya mahātmanaḥ |
kathito nirgamaḥ saumya nimeḥ śṛṇu yathā 'bhavat
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।
तं च ते योजयामासुर्यागदीक्षां मनीषिणः
dṛṣṭvā videhaṃ rājānamṛṣayaḥ sarva eva te |
taṃ ca te yojayāmāsuryāgadīkṣāṃ manīṣiṇaḥ
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।
गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः
taṃ ca dehaṃ narendrasya rakṣanti sma dvijottamāḥ |
gandhairmālyaiśca vastraiśca paurabhṛtyasamanvitāḥ
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।
आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव
tato yajñe samāpte tu bhṛgustatredamabravīt |
ānayiṣyāmi te cetastuṣṭo 'smi tava pārthiva
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।
वरं वरय राजर्षे क्व ते चेतो निरूप्यताम्
suprītāśca surāḥ sarve nimeścetastathābruvan |
varaṃ varaya rājarṣe kva te ceto nirūpyatām
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।
नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः
evamuktaḥ suraiḥ sarvairnimeścetastadābravīt |
netreṣu sarvabhūtānāṃ vaseyaṃ surasattamāḥ
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।
नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि
bāḍhamityeva vibudhā nimeścetastadā 'bruvan |
netreṣu sarvabhūtānāṃ vāyubhūtaścariṣyasi
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।
वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः
tvatkṛte ca nimiṣyanti cakṣūṃṣi pṛthivīpate |
vāyubhūtena caratā viśramārthaṃ muhurmuhuḥ
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।
ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन्
evamuktvā tu vibudhāḥ sarve jagmuryathāgatam |
ṛṣayo 'pi mahātmāno nimerdehaṃ samāharan
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा
araṇiṃ tatra nikṣipya mathanaṃ cakrurojasā |
mantrahomairmahātmānaḥ putrahetornimestadā
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।
मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।
यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः
araṇyāṃ mathyāmānāyāṃ prādurbhūto mahātapāḥ |
mathanānmithirityāhurjananājjanako 'bhavat |
yasmādvidehātsambhūto vaidehastu tataḥ smṛtaḥ
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।
मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत्
evaṃ videharājaśca janakaḥ pūrvako 'bhavat |
mithirnāma mahātejāstenāyaṃ maithilo 'bhavat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)