रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम्
rāmasya bhāṣitaṃ śrutvā lakṣmaṇaḥ paramārthavit |
uvāca prāñjalirvākyaṃ rāghavaṃ dīptatejasam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
19 श्लोक · 54 में से 111
लक्ष्मण कहते हैं कि इतने छोटे अपराध के लिए ब्राह्मणों का शाप भारी था; उस पर नृग ने क्या कहा? श्रीराम आगे बताते हैं। नृग ने मन्त्रियों, पुरवासियों और पुरोहितों को शाप की बात बताई और पुत्र वसु का राज्याभिषेक कराया। उन्होंने शिल्पियों को आज्ञा दी कि मेरे लिए गड्ढे बनाओ, एक वर्षा से, एक शीत से और एक गर्मी से बचाने वाला, जिनके चारों ओर फलदार वृक्ष और फूलों वाली लताएँ हों, ताकि मैं समय पूरा होने तक वहाँ रह सकूँ। उन्होंने वसु से कहा कि प्रजा का पालन करो और मेरे लिए दुःख मत करो; सुख और दुःख पिछले जन्मों के कर्मों से मिलते हैं। फिर नृग शाप भोगने गड्ढे में चले गए।
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम्
rāmasya bhāṣitaṃ śrutvā lakṣmaṇaḥ paramārthavit |
uvāca prāñjalirvākyaṃ rāghavaṃ dīptatejasam
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।
महान्नृगस्य राजर्षेर्यमदण्ड इवापरः
alpāparādhe kākutstha dvijābhyāṃ śāpa īdṛśaḥ |
mahānnṛgasya rājarṣeryamadaṇḍa ivāparaḥ
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ ।
किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ
śrutvā tu pāpasaṃyuktamātmānaṃ puraṣarṣabha |
kimuvāca nṛgo rājā dvijau krodhasamanvitau
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।
शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः
lakṣmaṇenaivamuktastu rāghavaḥ punarabravīt |
śṛṇu saumya yathā pūrvaṃ sa rājā śāpavikṣataḥ
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।
आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः
athādhvani gatau viprau vijñāya sa nṛgastadā |
āhūya mantriṇaḥ sarvānnaigamānsapurodhasaḥ
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।
दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः
tānuvāca nṛgo rājā sarvāśca prakṛtīstathā |
duḥkhena susamāviṣṭaḥ śrūyatāṃ me samāhitaiḥ
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् ।
गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ
nāradaḥ parvataścaiva mama dattvā mahadbhayam |
gatau tribhuvanaṃ bhadrau vāyubhūtāvaninditau
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् ।
श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।
यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम्
kumāro 'yaṃ vasurnāma sa devo 'dyābhiṣicyatām |
śvabhraṃ ca yatsukhasparśaṃ kriyatāṃ śilpibhirmama |
yatrāhaṃ saṅkṣayiṣyāmi śāpaṃ brāhmaṇaniḥsṛtam
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।
ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः
varṣaghnamekaṃ śvabhraṃ tu himaghnamaparaṃ tathā |
grīṣmaghnaṃ tu sukhasparśamekaṃ kurvantu śilpinaḥ
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ।
विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः
phalavantaśca ye vṛkṣāḥ puṣpavatyaśca yā latāḥ |
viropyantāṃ bahuvidhāśchāyāvantaśca gulminaḥ
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् ।
सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः
kriyatāṃ ramaṇīyaṃ ca śvabhrāṇāṃ sarvatodiśam |
sukhamatra vasiṣyāmi yāvatkālasya paryayaḥ
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः ।
परिवार्य यथा मे स्युरध्यर्धं योजनं तथा
puṣpāṇi ca sugandhīni kriyatāṃ teṣu nityaśaḥ |
parivārya yathā me syuradhyardhaṃ yojanaṃ tathā
एवं कृत्वा विधानं स सन्दिदेश वसं तदा ।
धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय
evaṃ kṛtvā vidhānaṃ sa sandideśa vasaṃ tadā |
dharmanityaḥ prajāḥ putra kṣatradharmeṇa pālaya
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।
नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे
pratyakṣaṃ te yathā śāpo dvijābhyāṃ mayi pātitaḥ |
naraśreṣṭha saroṣābhyāmaparādhe 'pi tādṛśe
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ ।
कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः
mā kṛthāstanusantāpaṃ matkṛte 'pi nararṣabha |
kṛtāntaḥ kuśalaḥ putra yenāsmi vyasanīkṛtaḥ
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।
लब्धव्यान्येव लभते दुःखानि च सुखानि च
prāptavyānyeva prāpnoti gantavyānyeva gacchati |
labdhavyānyeva labhate duḥkhāni ca sukhāni ca
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह
pūrve jātyantare vatsa mā viṣādaṃ kuruṣva ha
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।
श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ
evamuktvā nṛpastatra sutaṃ rājā mahāyaśāḥ |
śvabhraṃ jagāma sukṛtaṃ vāsāya puruṣarṣabha
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।
सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम्
evaṃ praviśyaiva nṛpastadānīṃ śvabhraṃ mahāratnavibhūṣitaṃ tat |
sampādayāmāsa tadā mahātmā śāpaṃ dvijābhyāṃ hi ruṣā vimuktam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)