उत्तरकाण्ड

सर्ग 48: श्रीराम के लिए सीता का संदेश

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ४८ ॥

26 श्लोक · 48 में से 111

इस अध्याय में क्या होता है

श्रीराम के लिए सीता का संदेश

कठोर समाचार सुनकर सीता मूर्छित होकर गिर पड़ती हैं। होश में आकर वे रोती हैं: पूर्वजन्म में मैंने कौन-सा पाप किया कि शुद्ध आचरण होते हुए भी त्याग दी गई? मैं गंगा में प्राण दे देती, पर इससे पति का वंश नष्ट होगा। वे लक्ष्मण से कहती हैं कि राजा की आज्ञा मानो, सासों को प्रणाम कहना और राजा से कहना: आप जानते हैं कि सीता शुद्ध और आपकी भक्त है; अपयश के भय से आपने मुझे त्यागा है, और आप ही मेरी गति हैं। वे कहती हैं, जाने से पहले देख लो कि मैं गर्भवती हूँ। लक्ष्मण रोते हुए परिक्रमा करते हैं और बार-बार पीछे देखते हुए रथ पर चले जाते हैं। अकेली सीता फूट-फूटकर रोती हैं।

48.1

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।
परं विषादमागम्य वैदेही निपपात ह

lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā |
paraṃ viṣādamāgamya vaidehī nipapāta ha

48.2

सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा ।
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा

sā muhūrtamivāsañjñā bāṣpaparyākulekṣaṇā |
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā

48.3

मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।
धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते

māmikeyaṃ tanurnūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa |
dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate

48.4

किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।
या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती

kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārairviyojitaḥ |
yā 'haṃ śuddhasamācārā tyaktā nṛpatinā satī

48.5

पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी ।
अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी

purā 'hamāśrame vāsaṃ rāmapādānuvartinī |
anurudhyāpi saumitre duḥkhe ca parivartinī

48.6

सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा

sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā |
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā

48.7

किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।
कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना

kiṃ nu vakṣyāmi muniṣu karma vā satkṛtaṃ ca kim |
kasmiṃścit kāraṇe tyaktā rāghaveṇa mahātmanā

48.8

न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते

na khalvadyaiva saumitre jīvitaṃ jāhnavījale |
tyajeyaṃ rājavaṃśastu bharturme parihāsyate

48.9

यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम

yathājñaṃ kuru somitre tyaja māṃ duḥkhabhāginīm |
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama

48.10

श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।
शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्

śvaśrūṇāmaviśeṣeṇa prāñjalipragraheṇa ca |
śirasā ' 'vandya caraṇau kuśalaṃ brūhi pārthivam

48.11

शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।
वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः

śirasā 'bhinato brūyāḥ sarvāsāmeva lakṣmaṇa |
vaktavyaścāpi nṛpatirdharmeṣu susamāhitaḥ

48.12

जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।
भक्त्या च परया युक्ता हिता च तव नित्यशः

jānāsi ca yathā śuddhā sītā tattvena rāghava |
bhaktyā ca parayā yuktā hitā ca tava nityaśaḥ

48.13

अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।
यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।
मया च परिहर्तव्यं त्वं हि मे परमा गतिः

ahaṃ tyaktā tvayā vīra ayaśobhīruṇā jane |
yacca te vacanīyaṃ syādapavādasamutthitam |
mayā ca parihartavyaṃ tvaṃ hi me paramā gatiḥ

48.14

वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा

vaktavyaśceti nṛpatirdhameṇa susamāhitaḥ |
yathā bhrātṛṣu vartethāstathā paureṣu nityadā

48.15

परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा

paramo hyeṣa dharmaste tasmātkīrtiranuttamā

48.16

यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।
अहं तु नानुशोचामि स्वशरीरं नरर्षभ

yattu paurajano rājandharmeṇa samavāpnuyāt |
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha

48.17

यथापवादं पौराणां तथैव रघुनन्दन ।
पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः

yathāpavādaṃ paurāṇāṃ tathaiva raghunandana |
patirhi devatā nāryāḥ patirbandhuḥ patirguruḥ

48.18

प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।
इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः ।
निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम्

prāṇairapi priyaṃ tasmādbhartuḥ kāryaṃ viśeṣataḥ |
iti madvacanādrāmo vaktavyo mama saṅgrahaḥ |
nirīkṣya mā 'dya gaccha tvamṛtukālātivartinīm

48.19

एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।
शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह

evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ |
śirasā ' 'vandya dharaṇīṃ vyāhartuṃ na śaśāka ha

48.20

प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।
ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने

pradakṣiṇaṃ ca tāṃ kṛtvā rudanneva mahāsvanaḥ |
dhyātvā muhūrtaṃ tāmāha kiṃ māṃ vakṣyasi śobhane

48.21

दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।
कथमत्र हि पश्यामि रामेण रहितां वने

dṛṣṭapūrvaṃ na te rūpaṃ pādau dṛṣṭau tavānaghe |
kathamatra hi paśyāmi rāmeṇa rahitāṃ vane

48.22

इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।
आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत्

ityuktvā tāṃ namaskṛtya punarnāvamupāruhat |
āruhya ca punarnāvaṃ nāvikaṃ cābhyacodayat

48.23

स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।
सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम्

sa gatvā cottaraṃ tīraṃ śokabhārasamanvitaḥ |
sammūḍha iva duḥkhena rathamadhyāruhaddrutam

48.24

मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।
चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ

muhurmuhuḥ parāvṛtya dṛṣṭvā sītāmanāthavat |
ceṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha

48.25

दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।
निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत्

dūrasthaṃ rathamālokya lakṣmaṇaṃ ca muhūrmuhuḥ |
nirīkṣamāṇāṃ tūdvignāṃ sītāṃ śokaḥ samāviśat

48.26

सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।
रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती

sā duḥkhabhārāvanatā yaśasvinī yaśodhanā nāthamapaśyatī satī |
ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)