उत्तरकाण्ड

सर्ग 49: वाल्मीकि सीता को आश्रय देते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥

24 श्लोक · 49 में से 111

इस अध्याय में क्या होता है

वाल्मीकि सीता को आश्रय देते हैं

मुनियों के बालक सीता को रोते देखकर महर्षि वाल्मीकि के पास दौड़े जाते हैं: नदी तट पर लक्ष्मी-सी एक स्त्री अकेली रो रही है। वाल्मीकि अर्घ्य लेकर गंगा तट जाते हैं और श्रीराम की प्रिय पत्नी को पाते हैं। वे स्वागत करते हैं: तुम दशरथ की पुत्रवधू, श्रीराम की पटरानी, जनक की पुत्री हो। वे कहते हैं कि ध्यान से मैंने तुम्हारा आना जान लिया था और तप से देखता हूँ कि तुम निष्पाप हो। मेरे आश्रम के पास तपस्विनियाँ रहती हैं, जो तुम्हें बछड़े की तरह पालेंगी; घर की तरह निश्चिन्त रहो। सीता प्रणाम कर उनके पीछे चलती हैं। वाल्मीकि मुनिपत्नियों से कहते हैं कि पति द्वारा त्यागी गई सीता सदा रक्षा और सम्मान की पात्र है।

49.1

सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः

sītāṃ tu rudatīṃ dṛṣṭvā te tatra munidārakāḥ |
prādravanyatra bhagavānāste vālmīkirugradhīḥ

49.2

अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम्

abhivādya muneḥ pādau muniputrā maharṣaye |
sarvaṃ nivedayāmāsustasyāstu ruditasvanam

49.3

अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।
पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना

adṛṣṭapūrvā bhagavankasyāpyeṣā mahātmanaḥ |
patnī śrīriva sammohādvirauti vikṛtānanā

49.4

भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।
नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता

bhagavansādhu paśya tvaṃ devatāmiva khāccyutām |
nadyāstu tīre bhagavanvarastrī kāpi duḥkhitā

49.5

दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।
अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत्

dṛṣṭāsmābhiḥ praruditā dṛḍhaṃ śokaparāyaṇā |
anarhā duḥkhaśokābhyāmekāṃ dīnāṃ hyanāthavat

49.6

न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।
आश्रमस्याविदूरे च त्वामियं शरणं गता

na hyenāṃ mānuṣīṃ vidmaḥ satkriyā 'syāḥ prayujyatām |
āśramasyāvidūre ca tvāmiyaṃ śaraṇaṃ gatā

49.7

त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।
तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली

trātāramicchate sādhvī bhagavaṃstrātumarhasi |
teṣāṃ tu vacanaṃ śrutvā buddhyā niścitya dharmavit |
tapasā labdhacakṣuṣmān prādravadyatra maithilī

49.8

तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।
तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः

taṃ prayāntamabhipretya śiṣyā hyenaṃ mahāmatim |
taṃ tu deśamabhi pretya kiñcitpadbhyāṃ mahāmatiḥ

49.9

अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत्

arghyamādāya ruciraṃ jāhnavītīramāgamat |
dadarśa rāghavasyeṣṭāṃ sītāṃ patnīmanāthavat

49.10

तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा

tāṃ sītāṃ śokabhārārtāṃ vālmīkirmunipuṅgavaḥ |
uvāca madhurāṃ vāṇīṃ hlādayanniva tejasā

49.11

स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते

snuṣā daśarathasya tvaṃ rāmasya mahiṣī priyā |
janakasya sutā rājñaḥ svāgataṃ te pativrate

49.12

आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम्

āyāntī cāsi vijñātā mayā dharmasamādhinā |
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam

49.13

तव चैव महाभागे विदितं मम तत्त्वतः ।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते

tava caiva mahābhāge viditaṃ mama tattvataḥ |
sarvaṃ ca viditaṃ mahyaṃ trailokye yaddhi vartate

49.14

अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।
विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे

apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā |
visrabdhā bhava vaidehi sāmprataṃ mayi vartase

49.15

आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः

āśramasyāvidūre me tāpasyastapasi sthitāḥ |
tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ

49.16

इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः

idamardhyaṃ pratīccha tvaṃ visrabdhā vigatajvarā |
yathā svagṛhamabhyetya viṣādaṃ caiva mā kṛthāḥ

49.17

श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।
शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः

śrutvā tu bhāṣitaṃ sītā muneḥ paramamadbhutam |
śirasā ' 'vandya caraṇau tathetyāha kṛtāñjaliḥ

49.18

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात्

taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt

49.19

तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन्

taṃ dṛṣṭvā munimāyāntaṃ vaidehyā munipatnayaḥ |
upājagmurmudā yuktā vacanaṃ cedamabruvan

49.20

स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।
अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे

svāgataṃ te muniśreṣṭha cirasyāgamanaṃ ca te |
abhivādayāmastvāṃ sarvā ucyatāṃ ki ca kurmahe

49.21

तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः

tāsāṃ tadvacanaṃ śrutvā vālmīkiridamabravīt |
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ

49.22

स्नुषा दशरथस्यैषा जनकस्य सुता सती ।
अपापा पतिना त्यक्ता परिपाल्या मया सदा

snuṣā daśarathasyaiṣā janakasya sutā satī |
apāpā patinā tyaktā paripālyā mayā sadā

49.23

इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ।
गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः

imāṃ bhavantyaḥ paśyantu snehena parameṇa hi |
gauravānmama vākyācca pūjyā vo 'stu viśeṣataḥ

49.24

मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः

muhurmuhuśca vaidehīṃ praṇidhāya mahāyaśāḥ |
svamāśramaṃ śiṣyavṛtaḥ punarāyānmahātapāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)