अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्
atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ |
āruroha samāyuktāṃ pūrvamāropya maithilīm
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
18 श्लोक · 47 में से 111
सुमन्त्र को पीछे छोड़ लक्ष्मण निषादों की नाव से सीता के साथ गंगा पार करते हैं। उस पार हाथ जोड़कर, आँसू बहाते हुए वे कहते हैं कि मेरे हृदय में बड़ा काँटा गड़ा है; ऐसे कार्य में लगाए जाने से तो मृत्यु अच्छी थी। वे विनती करते हैं कि मुझे दोष न दें, और भूमि पर गिर पड़ते हैं। घबराई सीता पूछती हैं कि क्या बात है। सिर झुकाए लक्ष्मण बताते हैं कि सभा में श्रीराम ने पुर और जनपद में आपके विषय में कठोर अपवाद सुना और दुःखी लौट गए। लोकापवाद के भय से राजा ने आपको, निर्दोष होते हुए भी, त्याग दिया है। यह ब्रह्मर्षियों का पवित्र तपोवन है, और महर्षि वाल्मीकि आपको आश्रय देंगे।
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्
atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ |
āruroha samāyuktāṃ pūrvamāropya maithilīm
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।
उवाच शोकसन्तप्तः प्रयाहीति च नाविकम्
sumantraṃ caiva sarathaṃ sthīyatāmiti lakṣmaṇaḥ |
uvāca śokasantaptaḥ prayāhīti ca nāvikam
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः
tatastīramupāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ |
uvāca maithilīṃ vākyaṃ prāñjalirbāṣpasamplutaḥ
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः
hṛdgataṃ me mahacchalyaṃ yasmādāryeṇa dhīmatā |
asminnimitte vaidehi lokasya vacanīkṛtaḥ
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते
śreyo hi maraṇaṃ me 'dya mṛtyurvā yatparaṃ bhavet |
na cāsminnīdṛśe kārye niyojyo lokanindite
प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः
prasīda ca na me pāpaṃ kartumarhasi śobhane |
ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्
rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyumātmanaḥ |
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyamabravīt
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः
kimidaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa |
paśyāmi tvāṃ na ca svasthamapi kṣemaṃ mahīpateḥ
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।
तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते
śāpito 'si narendreṇa yattvaṃ santāpamāgataḥ |
tadbrūyāḥ sannidhau mahyamahamājñāpayāmi te
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।
अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह
vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ |
avāṅmukho bāṣpakalaṃ vākyametaduvāca ha
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।
पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।
रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः
śrutvā pariṣado madhye hyapavādaṃ sudāruṇam |
pure janapade caiva tvatkṛte janakātmaje |
rāmaḥ santaptahṛdayo mā nivedya gṛhaṃ gataḥ
न तानि वचनीयानि मया देवि तवाग्रतः ।
यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः
na tāni vacanīyāni mayā devi tavāgrataḥ |
yāni rājñā hṛdi nyastānyamarṣātpṛṣṭhataḥ kṛtaḥ
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।
पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा
sā tvaṃ tyaktā nṛpatinā nirdoṣā mama sannidhau |
paurāpavādabhītena grāhyaṃ devi na te 'nyathā
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।
राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम्
āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi |
rājñaḥ śāsanamājñāya tavedaṃ kila daurhṛdam
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे
tadetajjāhnavītīre brahmarṣīṇāṃ tapovanam |
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।
सखा परमको विप्रो वाल्मीकिः सुमहायशाः
rājño daśarathasyeṣṭaḥ piturme munipuṅgavaḥ |
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ
पादच्छायामुपागम्य सुखमस्य महात्मनः ।
उपवासपरैकाग्रा वस त्वं जनकात्मजे
pādacchāyāmupāgamya sukhamasya mahātmanaḥ |
upavāsaparaikāgrā vasa tvaṃ janakātmaje
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति
pativratātvamāsthāya rāmaṃ kṛtvā sadā hṛdi |
śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)