ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता
tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ |
sumantramabravīdvākyaṃ mukhena pariśuṣyatā
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
34 श्लोक · 46 में से 111
प्रातःकाल लक्ष्मण रथ जुतवाते हैं और सीता से कहते हैं कि आपकी इच्छा के अनुसार राजा ने मुझे आपको गंगा तट के ऋषि-आश्रमों में ले जाने की आज्ञा दी है। प्रसन्न सीता ऋषिपत्नियों के लिए वस्त्र और आभूषण लेती हैं। मार्ग में उन्हें अपशकुन दिखते हैं: आँख फड़कती है, अंग काँपते हैं। वे श्रीराम, सासों और सारी प्रजा के कल्याण की प्रार्थना करती हैं; लक्ष्मण केवल कहते हैं, 'कल्याण हो।' गोमती तट पर रात बिताकर वे दोपहर को गंगा पहुँचते हैं। लक्ष्मण फूट-फूटकर रो पड़ते हैं। सीता पूछती हैं कि हर्ष के समय तुम क्यों रोते हो; क्या दो रात श्रीराम से दूर रहने के कारण? आँसू पोंछकर लक्ष्मण नाविकों को बुलाते हैं और गंगा पार कराते हैं।
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता
tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ |
sumantramabravīdvākyaṃ mukhena pariśuṣyatā
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु
sārathe turagāñchīghraṃ yojayasva rathottame |
svāstīrṇaṃ rājabhavanātsītāyāścāsanaṃ kuru
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।
मया नेया महर्षीणां श्रीघ्रमानीयतां रथः
sītā hi rājavacanādāśramaṃ puṇyakarmaṇām |
mayā neyā maharṣīṇāṃ śrīghramānīyatāṃ rathaḥ
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया
sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ |
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।
रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो
ānīyovāca saumitriṃ mitrāṇāṃ mānavardhanam |
ratho 'yaṃ samanuprāpto yatkāryaṃ kriyatāṃ prabho
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः
evamuktaḥ sumantreṇa rājaveśmani lakṣmaṇaḥ |
praviśya sītāmāsādya vyājahāra nararṣabhaḥ
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।
नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति
tvayā kilaiṣa nṛpatirvaraṃ vai yācitaḥ prabhuḥ |
nṛpeṇa ca pratijñātamājñaptaścāśramaṃ prati
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।
शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।
अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि
gaṅgītīre mayā devi ṛṣīṇāmāśramāñchubhān |
śīghraṃ gatvā tu vaidehi śāsanātpārthivasya naḥ |
araṇye munibhirjuṣṭe apaneyā bhaviṣyasi
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।
प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत्
evamuktā tu vaidehī lakṣmaṇena mahātmanā |
praharṣamatulaṃ lebhe gamanaṃ cāpyarocayat
वासांसि च महार्हाणि रत्नानि विविधानि च ।
गृहीत्वा तानि वैदेही गमनायोपचक्रमे
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca |
gṛhītvā tāni vaidehī gamanāyopacakrame
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।
वस्त्राणि च महार्हाणि धनानि विविधानि च
imāni munipatnīnāṃ dāsyāmyābharaṇānham |
vastrāṇi ca mahārhāṇi dhanāni vividhāni ca
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।
प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन्
saumitristu tathetyuktvā rathamāropya maithilīm |
prayayau śīghraturagai rāmasyājñāmanusmaran
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।
अशुभानि बहून्येव पश्यामि रघुनन्दन
abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam |
aśubhāni bahūnyeva paśyāmi raghunandana
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये
nayanaṃ me sphuratyadya gātrotkampaśca jāyate |
hṛdayaṃ caiva saumitre asvasthamiva lakṣaye
औत्सुक्यं परमं चापि अधृतिश्च परा मम ।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन
autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama |
śūnyāmeva ca paśyāmi pṛthivīṃ pṛthulocana
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः
api svasti bhavettasya bhrātuste bhrātṛvatsala |
śvaśrūṇāṃ caiva me vīra sarvāsāmaviśeṣataḥ
पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत
pure janapade caiva kuśalaṃ prāṇināmapi |
ityañjalikṛtā sītā devatā abhyayācata
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता
lakṣmaṇo 'rthaṃ tataḥ śrutvā śirasā vandya maithilīm |
śivamityabravīddhṛṣṭo hṛdayena viśuṣyatā
ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत्
tato vāsamupāgamya gomatītīra āśrame |
prabhāte punarutthāya saumitriḥ sūtamabravīt
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा
yojayasva rathaṃ śīghramadya bhāgīrathījalam |
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत्
so 'śvān rajvātha caturo rathe yuṅktvā manojavān |
ārohasveti vaidehīṃ sūtaḥ prāñjalirabravīt
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता
sā tu sūtasya vacanādāruroha rathottamam |
sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्
āsasāda viśālākṣī gaṅgāṃ pāpavināśinīm |
athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanaḥ
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।
उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया
sītā tu paramāyattā dṛṣṭvā lakṣmaṇamāturam |
uvāca vākyaṃ dharmajñā kimidaṃ rudyate tvayā
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण
jāhnavītīramāsādya cirābhilaṣitaṃ mama |
harṣakāle kimarthaṃ māṃ viṣādayasi lakṣmaṇa
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः
nityaṃ tvaṃ rāmapārśveṣu vartase puruṣarṣabha |
kaccidvinākṛtastena dvirātraṃ śokamāgataḥ
ममापि दयितो रामो जीवितादपि लक्ष्मण ।
न चाहमेवं शोचामि मैवं त्वं बालिशो भव
mamāpi dayito rāmo jīvitādapi lakṣmaṇa |
na cāhamevaṃ śocāmi maivaṃ tvaṃ bāliśo bhava
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।
ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च
tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān |
tato munibhyo dāsyāmi vāṃsāsyābharaṇāni ca
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः
tataḥ kṛtvā maharṣīṇāṃ yathārhamabhivādanam |
tatra caikāṃ niśāmuṣya yāsyāmastāṃ purīṃ punaḥ
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।
त्वरते हि मनो द्रष्टुं रामं रमयतां वरम्
mamāpi padmapatrākṣaṃ siṃhoraskaṃ kṛśodaram |
tvarate hi mano draṣṭuṃ rāmaṃ ramayatāṃ varam
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।
नाविकानाह्वयामास लक्ष्मणः परवीरहा
tasyāstadvacanaṃ śrutvā pramṛjya nayane śubhe |
nāvikānāhvayāmāsa lakṣmaṇaḥ paravīrahā
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन्
iyaṃ ca sajjā nauśceti dāśāḥ prāñjalayo 'bruvan
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।
गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः
titīrṣurlakṣmaṇo gaṅgāṃ śubhāṃ nāvamupāruhat |
gaṅgāṃ santārayāmāsa lakṣmaṇastāṃ samāhitaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)