उत्तरकाण्ड

सर्ग 39: वानरों और राक्षसों को उपहार

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

30 श्लोक · 39 में से 111

इस अध्याय में क्या होता है

वानरों और राक्षसों को उपहार

भरत के बुलावे पर सेनाओं सहित आए राजा लौटते हुए परिहास करते हैं कि रावण से लड़ने का अवसर ही नहीं मिला, और श्रीराम को घोड़े, हाथी, रत्न, चन्दन, आभूषण और रथ उपहार में भेजते हैं। भरत, लक्ष्मण और शत्रुघ्न उन्हें अयोध्या लाते हैं। श्रीराम सब कुछ सुग्रीव, विभीषण और विजय दिलाने वाले वानरों-राक्षसों को दे देते हैं। वे हनुमान और अंगद को गोद में बिठाकर अपने आभूषण उन्हें पहनाते हैं। नील, नल, जाम्बवान, सुषेण आदि को बुलाकर कहते हैं कि आप मेरे मित्र, भाई और मेरा शरीर ही हैं, जिन्होंने मुझे दुःख से उबारा। वानर मधु, फल और मूल का आनंद लेते हैं और दो महीने पल भर-से बीत जाते हैं।

39.1

ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम्

te prayātā mahātmānaḥ pārthivāste prahṛṣṭavat |
gajavājisahasraughaiḥ kampayanto vasundharām

39.2

अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।
भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः

akṣauhiṇyo hi tatrāsanrāghavārthe samudyatāḥ |
bharatasyājñayā 'nekāḥ prahṛṣṭā balavāhanāḥ

39.3

ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न रामरावणं युद्धे पश्यामः पुरतः स्थितम्

ūcuste ca mahīpālā baladarpasamanvitāḥ |
na rāmarāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam

39.4

भरतेन वयं पश्चात्समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः

bharatena vayaṃ paścātsamānītā nirarthakam |
hatā hi rākṣasāḥ kṣipraṃ pārthivaiḥ syurna saṃśayaḥ

39.5

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारेसमुद्रस्य युध्येम विगतज्वराः

rāmasya bāhuvīryeṇa rakṣitā lakṣmaṇasya ca |
sukhaṃ pāresamudrasya yudhyema vigatajvarāḥ

39.6

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः

etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ |
kathayantaḥ svarājyāni jagmurharṣasamanvitāḥ

39.7

स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च

svāni rājyāni mukhyāni ṛddhāni muditāni ca |
samṛddhadhanadhānyāni pūrṇāni vasumanti ca

39.8

यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।
रामस्य प्रियकामार्थमुपहारान् नृपा ददुः

yathāpurāṇi te gatvā ratnāni vividhānyatha |
rāmasya priyakāmārthamupahārān nṛpā daduḥ

39.9

अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च

aśvānyānāni ratnāni hastinaśca madotkaṭān |
candanāni ca mukhyāni divyānyābharaṇāni ca

39.10

मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।
अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः

maṇimuktāpravālāṃstu dāsyo rūpasamanvitāḥ |
ajāvikāṃśca vividhān rathāṃstu vividhāndaduḥ

39.11

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः

bharato lakṣmaṇaścaiva śatrughnaśca mahābalāḥ |
ādāya tāni ratnāni svāṃ purīṃ punarāgatāḥ

39.12

आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपाहरन्

āgamya ca purīṃ ramyāmayodhyāṃ puruṣarṣabhāḥ |
tāni ratnāni citrāṇi rāmāya samupāharan

39.13

प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे

pratigṛhya ca tatsarvaṃ rāmaḥ prītisamanvitaḥ |
sugrīvāya dadau rājñe mahātmā kṛtakarmaṇe

39.14

बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान्

bibhīṣaṇāya ca dadau tathānyebhyo 'pi rāghavaḥ |
rākṣasebhyaḥ kapibhyaśca yairvṛto jayamāptavān

39.15

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः

te sarve rāmadattāni ratnāni kapirākṣasāḥ |
śirobhirdhārayāmāsurbāhubhiśca mahābalāḥ

39.16

हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान्

hanūmantaṃ ca nṛpatirikṣvākūṇāṃ mahārathaḥ |
aṅgadaṃ ca mahābāhumaṅkamāropya vīryavān

39.17

रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।
अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः

rāmaḥ kamalapatrākṣaḥ sugrīvamidamabravīt |
aṅgadaste suputro 'yaṃ mantrī cāpyanilātmajaḥ

39.18

सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर

sugrīvamantrite yuktau mama cāpi hite ratau |
arhato vividhāṃ pūjāṃ tvatkṛte vai harīśvara

39.19

इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः

ityuktvā vyavamucyāṅgādbhūṣaṇāni mahāyaśāḥ |
sa babandha mahārhāṇi tadāṅgadahanūmatoḥ

39.20

आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम्

ābhāṣya ca mahāvīryānrāghavo yūthaparṣabhān |
nīlaṃ nalaṃ kesariṇaṃ kumudaṃ gandhamādanam

39.21

सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च

suṣeṇaṃ panasaṃ vīraṃ maindaṃ dvividameva ca |
jāmbavantaṃ gavākṣaṃ ca vinataṃ dhūmrameva ca

39.22

वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम्

valīmukhaṃ prajaṅghaṃ ca sannādaṃ ca mahābalam |
darīmukhaṃ dadhimukhamindrajānuṃ ca yūthapam

39.23

मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।
सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा

madhuraṃ ślakṣṇayā vācā netrābhyāmāpibanniva |
suhṛdo me bhavantaśca śarīraṃ bhrātarastathā

39.24

युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः

yuṣmābhiruddhṛtaścāhaṃ vyasanātkānanaukasaḥ |
dhanyo rājā ca sugrīvo bhavadbhiḥ suhṛdāṃ varaiḥ

39.25

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः

evamuktvā dadau tebhyo bhūṣaṇāni yathārhataḥ |
vajrāṇi ca mahārhāṇi sasvaje ca nararṣabhaḥ

39.26

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च

te pibantaḥ sugandhīni madhūni madhupiṅgalāḥ |
māṃsāni ca sumṛṣṭāni mūlāni ca phalāni ca

39.27

एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे

evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro yayau tadā |
muhūrtamiva te sarve rāmabhaktyā ca menire

39.28

रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः

rāmo 'pi reme taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ |
rākṣasaiśca mahāvīryairṛkṣaiścaiva mahābalaiḥ

39.29

एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः

evaṃ teṣāṃ yayau māso dvitīyaḥ śiśiraḥ sukham |
vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ

39.30

इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ

ikṣvākunagare ramye parāṃ prītimupāsatām |
rāmasya prītikaraṇaiḥ kālasteṣāṃ sukhaṃ yayau

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)