उत्तरकाण्ड

सर्ग 37: प्रभात में श्रीराम का दरबार

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

24 श्लोक · 37 में से 111

इस अध्याय में क्या होता है

प्रभात में श्रीराम का दरबार

अभिषेक के बाद की पहली रात बीतती है और प्रभात में वन्दीजन और सूत मधुर स्तुतियों से राजा को जगाते हैं: कौसल्या का आनंद बढ़ाने वाले वीर, जागिए; आपका पराक्रम विष्णु-सा, क्षमा पृथ्वी-सी, गम्भीरता समुद्र-सी है। श्रीराम ऐसे उठते हैं जैसे शेषशय्या से नारायण। वे स्नान करके समय पर अग्निहोत्र करते हैं और इक्ष्वाकुओं के देवमन्दिर में देवताओं, पितरों और ब्राह्मणों की पूजा करते हैं। फिर वे सभा में आते हैं। वसिष्ठ और मन्त्री पास बैठते हैं; अनेक देशों के राजा, भरत, लक्ष्मण और शत्रुघ्न, वानरों सहित सुग्रीव और चार राक्षसों के साथ विभीषण उनकी सेवा में उपस्थित हैं। ऋषियों, राजाओं, वानरों और राक्षसों से घिरे श्रीराम इन्द्र से भी अधिक शोभा पाते हैं, और विद्वान धर्ममयी कथाएँ सुनाते हैं।

37.1

अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।
व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी

abhiṣikte tu kākutsthe dharmeṇa viditātmani |
vyatītā yā niśā pūrvā paurāṇāṃ harṣavardhinī

37.2

तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।
वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि

tasyāṃ rajanyāṃ vyuṣṭāyāṃ prātarnṛpatibodhakāḥ |
vandinaḥ samupātiṣṭhansaumyā nṛpativeśmani

37.3

ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।
तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः

te raktakaṇṭhinaḥ sarve kinnarā iva śikṣitāḥ |
tuṣṭuvurnapatiṃ vīraṃ yathāvat sampraharṣiṇaḥ

37.4

वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप

vīra saumya prabudhyasva kausalyāprītivardhana |
jagaddhi sarvaṃ svapiti tvayi supte narādhipa

37.5

विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।
बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि

vikramaste yathā viṣṇo rūpaṃ caivāśvinoriva |
buddhyā bṛhaspatestulyaḥ prajāpatisamo hyasi

37.6

क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।
वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव

kṣamā te pṛthivītulyā tejasā bhāskaropamaḥ |
vegaste vāyunā tulyo gāmbhīryamudadheriva

37.7

अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।
नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप

aprakampyo yatā sthāṇuścandre saumyatvamīdṛśam |
nedṛśāḥ pārthivāḥ pūrvaṃ bhavitāro narādhipa

37.8

यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।
न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ

yathā tvamatidurdharṣo dharmanityaḥ prajāhitaḥ |
na tvāṃ jahāti kīrtiśca lakṣmīśca puruṣarṣabha

37.9

श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।
एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः

śrīśca dharmaśca kākutstha tvayi nityaṃ pratiṣṭhitau |
etāścānyāśca madhurā vandibhiḥ parikīrtitāḥ

37.10

सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।
स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः

sūtāśca saṃstavairdivyairbodhayanti sma rāghavam |
stutibhiḥ stūyamānābhiḥ pratyabudhyata rāghavaḥ

37.11

स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् ।
उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा

sa tadvihāya śayanaṃ pāṇḍarācchādanāstṛtam |
uttasthau nāgaśayanāddharirnārāyaṇo yathā

37.12

तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।
सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः

tamutthitaṃ mahātmānaṃ prahvāḥ prāñjalayo narāḥ |
salilaṃ bhājanaiḥ śubhrairupatasthuḥ sahasraśaḥ

37.13

कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।
देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम्

kṛtodakaśucirbhūtvā kāle hutahutāśanaḥ |
devāgāraṃ jagāmāśu puṇyamikṣvākusevitam

37.14

तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि ।
बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः

tatra devānpita'nviprānarcayitvā yathāvidhi |
bāhyakakṣāntaraṃ rāmo nirjagāma janairvṛtaḥ

37.15

उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।
वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः

upatasthurmahātmāno mantriṇaḥ sapurohitāḥ |
vasiṣṭhapramukhāḥ sarve dīpyamānā ivāgnayaḥ

37.16

क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।
रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः

kṣatriyāśca mahātmāno nānājanapadeśvarāḥ |
rāmasyopāviśanpārśve śakrasyeva yathā 'marāḥ

37.17

भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।
उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम्

bharato lakṣmaṇaścātra śatrughnaśca mahāyaśāḥ |
upāsāñcakrire hṛṣṭā vedāstraya ivādhvaram

37.18

याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः ।
मुदिता नाम पार्श्वस्था बहवः समुपाविशन्

yātāḥ prāñjalayo bhūtvā kiṅkarā muditānanāḥ |
muditā nāma pārśvasthā bahavaḥ samupāviśan

37.19

वानराश्च महावीर्या विंशतिः कामरूपिणः ।
सुग्रीवप्रमुखा राममुपासन्ते महौजसः

vānarāśca mahāvīryā viṃśatiḥ kāmarūpiṇaḥ |
sugrīvapramukhā rāmamupāsante mahaujasaḥ

37.20

विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।
उपासते महात्मानं धनेशमिव गुह्यकाः

vibhīṣaṇaśca rakṣobhiścaturbhiḥ parivāritaḥ |
upāsate mahātmānaṃ dhaneśamiva guhyakāḥ

37.21

तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।
शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः

tathā nigamavṛddhāśca kulīnā ye ca mānavāḥ |
śirasā ' 'vandya rājānamupāsante vicakṣaṇāḥ

37.22

तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः ।
राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः

tathā parivṛto rājā śrīmadbhirṛṣibhirvṛtaḥ |
rājabhiśca mahāvīryairvānaraiśca sarākṣasaiḥ

37.23

यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।
अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते

yathā deveśvaro nityamṛṣibhiḥ samupāsyate |
adhikastena rūpeṇa sahasrākṣādvirocate

37.24

तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।
कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः

teṣāṃ samupaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ |
kathyante dharmasaṃyuktāḥ purāṇajñairmahātmabhiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)