उत्तरकाण्ड

सर्ग 105: द्वार पर दुर्वासा

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

18 श्लोक · 105 में से 111

इस अध्याय में क्या होता है

द्वार पर दुर्वासा

दुर्वासा राजद्वार पर आकर लक्ष्मण से तुरंत भीतर ले चलने को कहते हैं। लक्ष्मण उन्हें क्षण भर प्रतीक्षा करने को कहते हैं। दुर्वासा कहते हैं: इसी क्षण श्रीराम को सूचना दो, नहीं तो मैं श्रीराम, भरत, तुम्हें और तुम सबकी संतानों को शाप दूँगा। लक्ष्मण निश्चय करते हैं: सबके नाश से अच्छा है कि अकेला मैं मरूँ। श्रीराम काल को विदा कर दुर्वासा से पूछते हैं कि क्या चाहिए। दुर्वासा कहते हैं कि आज मेरा हजार वर्ष का उपवास पूरा हुआ है, भोजन चाहिए। श्रीराम भोजन कराते हैं; मुनि आश्रम लौटते हैं। तब श्रीराम को काल के वचन याद आते हैं और वे दुःख से भर जाते हैं। वे बोल नहीं पाते और मौन बैठे रहते हैं।

105.1

तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्

tathā tayoḥ saṃvadatordurvāsā bhagavānṛṣiḥ |
rāmasya darśanākāṅkṣī rājadvāramupāgamat

105.2

सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।
रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते

so 'bhigamya tu saumitrimuvāca ṛṣisattamaḥ |
rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate

105.3

मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह

munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā |
abhivādya mahātmānaṃ vākyametaduvāca ha

105.4

किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् ।
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम्

kiṃ kāryaṃ brūhi bhagavanko vā 'rthaḥ kiṃ karomyaham |
vyagro hi rāghavo brahmanmuhūrtaṃ pratipālyatām

105.5

तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा

tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ |
uvāca lakṣmaṇaṃ vākyaṃ nirdahanniva cakṣuṣā

105.6

अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।
अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि

asminkṣaṇe māṃ saumitre rāmāya prativedaya |
asminkṣaṇe māṃ saumitre na nivedayase yadi

105.7

विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।
भरतं चैव सौमित्रे युष्माकं या च सन्ततिः

viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā |
bharataṃ caiva saumitre yuṣmākaṃ yā ca santatiḥ

105.8

न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।
तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्

na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi |
tacchrutvā ghorasaṅkāśaṃ vākyaṃ tasya mahātmanaḥ |
cintayāmāsa manasā tasya vākyasya niścayam

105.9

एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् ।
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्

ekasya maraṇaṃ me 'stu mā bhūtsarvavināśanam |
iti buddhyā viniścitya rāghavāya nyavedayat

105.10

लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।
निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह

lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca |
nissṛtya tvaritaṃ rājā atreḥ putraṃ dadarśa ha

105.11

सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत

so 'bhivādya mahātmānaṃ jvalantamiva tejasā |
kiṃ kāryamiti kākutsthaḥ kṛtāñjalirabhāṣata

105.12

तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल

tadvākyaṃ rāghaveṇoktaṃ śrutvā munivaraḥ prabhum |
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala

105.13

अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।
सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ

adya varṣasahasrasya samāptistapaso mama |
so 'haṃ bhojanamicchāmi yathāsiddhaṃ tavānagha

105.14

तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्

tacchrutvā vacanaṃ rājā rāghavaḥ prītamānasaḥ |
bhojanaṃ munimukhyāya yathāsiddhamupāharat

105.15

स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।
साधु रामेति सम्भाष्य स्वमाश्रममुपागमत्

sa tu bhuktvā muniśreṣṭhastadannamamṛtopamam |
sādhu rāmeti sambhāṣya svamāśramamupāgamat

105.16

तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।
संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत्

tasmin gate munivare svāśramaṃ lakṣmaṇāgrajaḥ |
saṃsmṛtya kālavākyāni tato duḥkhamupāgamat

105.17

दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह

duḥkhena ca susantaptaḥ smṛtvā tadghoradarśanam |
avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha

105.18

ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः

tato buddhyā viniścitya kālavākyāni rāghavaḥ |
naitadastīti niścitya tūṣṇīmāsīnmahāyaśāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)