उत्तरकाण्ड

सर्ग 104: ब्रह्मा का संदेश, समय पूरा हुआ

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः ॥ १०४ ॥

19 श्लोक · 104 में से 111

इस अध्याय में क्या होता है

ब्रह्मा का संदेश, समय पूरा हुआ

तपस्वी बताते हैं कि मुझे ब्रह्मा ने भेजा है; मैं काल हूँ, जो आपकी ही माया से उत्पन्न हुआ। ब्रह्मा कहते हैं: बहुत पहले महासागर के जल पर शयन करते हुए आपने काल, अनन्त, मधु और कैटभ को रचा। नाभि-कमल से सृष्टि के लिए ब्रह्मा को उत्पन्न किया, और आप अदिति के पुत्र विष्णु बने। रावण के वध के लिए मनुष्यों में जन्म लेकर आपने पृथ्वी पर अपना निवास ग्यारह हजार वर्ष निश्चित किया। वह अवधि अब पूरी हुई है। आप रहकर राज करना चाहें तो रहें, या देवलोक लौटें, जहाँ देवता फिर विष्णु को अपना रक्षक पाएँगे। श्रीराम हँसकर कहते हैं कि मेरा जन्म तीनों लोकों के कार्य के लिए हुआ था, और मैं जहाँ से आया हूँ वहीं लौटूँगा।

104.1

शृणु राजन्महासत्व यदर्थमहमागतः ।
पितामहेन देवेन प्रेषितो ऽस्मि महाबल

śṛṇu rājanmahāsatva yadarthamahamāgataḥ |
pitāmahena devena preṣito 'smi mahābala

104.2

तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।
मायासम्भावितो वीर कालः सर्वसमाहरः

tavāhaṃ pūrvasadbhāve putraḥ parapurañjaya |
māyāsambhāvito vīra kālaḥ sarvasamāharaḥ

104.3

पितामहश्च भगवानाह लोकपतिः प्रभुः ।
समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम्

pitāmahaśca bhagavānāha lokapatiḥ prabhuḥ |
samayaste kṛtaḥ saumya lokānsamparirakṣitum

104.4

सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।
महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः

saṅkṣipya hi purā lokānmāyayā svayameva hi |
mahārṇave śayāno 'psu māṃ tvaṃ pūrvamajījanaḥ

104.5

भोगवन्तं ततो नागमनन्तमुदकेशयम् ।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ

bhogavantaṃ tato nāgamanantamudakeśayam |
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau

104.6

मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।
इयं पर्वतसम्बाधा मेदिनी चाभवन्मही

madhuṃ ca kaiṭabhaṃ caiva yayorasthicayairvṛtā |
iyaṃ parvatasambādhā medinī cābhavanmahī

104.7

पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम्

padme divye 'rkasaṅkāśe nābhyāmutpādya māmapi |
prājāpatyaṃ tvayā karma mayi sarvaṃ niveśitam

104.8

सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्

so 'haṃ sannyastabhāro hi tvāmupāse jagatpatim |
rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān

104.9

ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्

tatastvamapi durdharṣāttasmādbhāvātsanātanāt |
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān

104.10

अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे

adityāṃ vīryavānputro bhrāta'ṇāṃ vīryavardhanaḥ |
samutpanneṣu kṛtyeṣu teṣāṃ sāhyāya kalpase

104.11

स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।
रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः

sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara |
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ

104.12

दश वर्षसहस्राणि दश वर्षशतानि च ।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा

daśa varṣasahasrāṇi daśa varṣaśatāni ca |
kṛtvā vāsasya niyatiṃ svayamevātmanā purā

104.13

स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।
कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम्

sa tvaṃ manomayaḥ putraḥ pūrṇāyurmānuṣeṣviha |
kālo 'yaṃ te naraśreṣṭha samīpamupavartitum

104.14

यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।
वस वा वीर भद्रं त एवमाह पितामहः

yadi bhūyo mahārāja prajā icchasyupāsitum |
vasa vā vīra bhadraṃ ta evamāha pitāmahaḥ

104.15

अथ वा विजिगीषा ते सुरलोकाय राघव ।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः

atha vā vijigīṣā te suralokāya rāghava |
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ

104.16

श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत्

śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam |
rāghavaḥ prahasanvākyaṃ sarvasaṃhāramabravīt

104.17

श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।
प्रीतिर्हि महती जाता तवागमनसम्भवा

śrutvā me devadevasya vākyaṃ paramamadbhutam |
prītirhi mahatī jātā tavāgamanasambhavā

104.18

त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।
भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः

trayāṇāmapi lokānāṃ kāryārthaṃ mama sambhavaḥ |
bhadraṃ te 'stu gamiṣyāmi yata evāhamāgataḥ

104.19

हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।
स्थातव्यं सर्वसंहार यथा ह्याह पितामहः

hadgato hyasi samprāpto na me tatra vicāraṇā |
mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām |
sthātavyaṃ sarvasaṃhāra yathā hyāha pitāmahaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)