कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत्
kasyacittvatha kālasya rāme dharmapare sthite |
kālastāpasarūpeṇa rājadvāramupāgamat
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥
17 श्लोक · 103 में से 111
बहुत समय बाद स्वयं काल तपस्वी के रूप में राजद्वार पर आते हैं। वे लक्ष्मण से कहते हैं कि मैं एक महर्षि का दूत हूँ, श्रीराम को सूचना दो। लक्ष्मण श्रीराम को बताते हैं कि तपस्वी दूत आया है। श्रीराम उन्हें भीतर बुलाते हैं। श्रीराम उनका सत्कार कर संदेश पूछते हैं। मुनि कहते हैं कि यह बात हम दोनों के बीच ही होगी; जो हमारी बातचीत सुने या देखे, वह आपके हाथों वध्य होगा। श्रीराम स्वीकार करते हैं और लक्ष्मण से कहते हैं कि स्वयं द्वार पर खड़े रहो; जो बातचीत देखे या सुने, वह मारा जाएगा। लक्ष्मण को द्वार पर नियुक्त कर श्रीराम मुनि से निःसंकोच बात कहने को कहते हैं।
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत्
kasyacittvatha kālasya rāme dharmapare sthite |
kālastāpasarūpeṇa rājadvāramupāgamat
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।
मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात्
so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśaśvinam |
māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।
रामं दिदृक्षुरायातः कार्येण हि महाबल
dūto 'smyatibalasyāhaṃ maharṣeramitaujasaḥ |
rāmaṃ didṛkṣurāyātaḥ kāryeṇa hi mahābala
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।
न्यवेदयत रामाय तापसं तं समागतम्
tasya tadvacanaṃ śrutvā saumitristvarayā 'nvitaḥ |
nyavedayata rāmāya tāpasaṃ taṃ samāgatam
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः
jayasva rāma dharmeṇa ubhau lokau mahādyute |
dūtastvāṃ draṣṭumāyātastapasā bhāskaraprabhaḥ
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत्
tadvākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha |
praveśyatāṃ munistāta mahaujāstasya vākyadhṛt
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः
saumitristu tathetyuktvā prāveśayata taṃ munim |
jvalantameva tejobhiḥ pradahantamivāṃśubhiḥ
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्
so 'bhigamya raghuśreṣṭhaṃ dīpyapānaṃ svatejasā |
ṛṣirmadhurayā vācā vardhasvetyāha rāghavam
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे
tasmai rāmo mahātejāḥ pūjāmarghyapurogamām |
dadau kuśalamavyagraṃ praṣṭumevopacakrame
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः
pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ |
āsane kāñcane divye niṣasāda mahāyaśāḥ
तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः
tamuvāca tato rāmaḥ svāgataṃ te mahāmune |
prāpayāsya ca vākyāni yato dūtastvamāgataḥ
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे
codito rājasiṃhena munirvākyamabhāṣata |
dvandvametatpravaktavyaṃ hitaṃ vai yadyapekṣase
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे
yaḥ śṛṇoti nirīkṣedvā sa vadhyo bhavitā tava |
bhavedvai munimukhyasya vacanaṃ yadyapekṣase
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय
sa tatheti pratijñāya rāmo lakṣmaṇamabravīt |
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः
sa me vadhyaḥ khalu bhavet kathādvandvaṃ samīritam |
ṛṣermama ca saumitre paśyedvā śṛṇuyācca yaḥ
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः
tato nikṣipya kākutstho lakṣmaṇaṃ dvāri saṅgraham |
tamuvāca mune vākyaṃ kathayasveti rāghavaḥ
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते
yatte manīṣitaṃ vākyaṃ yena vā 'si samāhitaḥ |
kathayasvāviśaṅkastvaṃ mamāpi hṛdi vartate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)