तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम्
tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha |
vākyaṃ cādbhutasaṅkāśaṃ tadā provāca lakṣmaṇam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्युत्तरशततमः सर्गः ॥ १०२ ॥
17 श्लोक · 102 में से 111
श्रीराम लक्ष्मण से कहते हैं कि तुम्हारे दोनों पुत्र अंगद और चन्द्रकेतु का राज्याभिषेक होना चाहिए; ऐसा सुन्दर, खुला देश खोजो जहाँ किसी राजा को पीड़ा न हो, न किसी आश्रम का नाश। भरत कारुपथ देश सुझाते हैं, जो रमणीय और रोगरहित है। श्रीराम मान जाते हैं। अंगद के लिए अंगदीया नगरी बसाई जाती है, और मल्लभूमि में चन्द्रकेतु के लिए चन्द्रकान्ता। श्रीराम अंगद को पश्चिम और चन्द्रकेतु को उत्तर भेजते हैं; लक्ष्मण अंगद के साथ जाते हैं और भरत चन्द्रकेतु के साथ। लक्ष्मण एक वर्ष अंगदीया में रहकर पुत्र के स्थिर होने पर लौटते हैं। तीनों भाई धर्म और प्रजा-कार्य में लगे रहते हैं, और दस हजार वर्ष बीत जाते हैं।
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम्
tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha |
vākyaṃ cādbhutasaṅkāśaṃ tadā provāca lakṣmaṇam
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ
imau kumārau saumitre tava dharmaviśāradau |
aṅgadaścandraketuśca rājyārthe dṛḍhavikramau
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ
imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām |
ramaṇīyo hyasambādho rametāṃ yatra dhanvinau
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा
na rājño yatra pīḍā syānnāśramāṇāṃ vināśanam |
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः
tathoktavati rāme tu bharataḥ pratyuvāca ha |
ayaṃ kārupatho deśo ramaṇīyo nirāmayaḥ
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम्
niveśyatāṃ tatra puramaṅgadasya mahātmanaḥ |
candraketoḥ suruciraṃ candrakāntaṃ nirāmayam
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत्
tadvākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ |
taṃ ca kṛtvā vaśe deśamaṅgadasya nyaveśayat
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा
aṅgadīyā purī ramyāpyaṅgadasya niveśitā |
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा
candraketośca mallasya mallabhūmyāṃ niveśitā |
candrakānteti vikhyātā divyā svargapurī yathā
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे
tato rāmaḥ parāṃ prītiṃ lakṣmaṇo bharatastathā |
yayuryuddhe durādharṣā abhiṣekaṃ ca cakrire
अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्
abhiṣicya kumārau sa prasthāpayati rāghavaḥ |
aṅgadaṃ paścimāṃ bhūmiṃ candraketumudaṅmukham
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह
aṅgadaṃ cāpi saumitrirlakṣmaṇo 'nujagāma ha |
candraketostu bharataḥ pārṣṇigrāho babhūva ha
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत्
lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaramathoṣitaḥ |
putre sthite durādharṣe ayodhyāṃ punarāgamat
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः
bharato 'pi tathaivoṣya saṃvatsaramato 'dhikam |
ayodhyāṃ punarāgamya rāmapādāvupāsta saḥ
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ
ubhau saumitribharatau rāmapādāvanuvratau |
kālaṃ gatamapi snehānna jajñāte 'tidhārmikau
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा
evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā |
dharme prayatamānānāṃ paurakāryeṣu nityadā
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः
vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapure susaṃsthitāḥ |
trayaḥ samiddhā iva dīptatejaso mahādhvare sādhu hutāstrayo 'gnayaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)