तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।
रोषेण महताऽऽविष्टो रावणो लोकरावणः
tamudvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam |
roṣeṇa mahatā''viṣṭo rāvaṇo lokarāvaṇaḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५.५० ॥
19 श्लोक · 50 में से 68
क्रोध से लाल आँखों वाला रावण सामने खड़े पीली आँखों वाले वानर को देखकर सोचता है, क्या यह नन्दी है या वानर-रूप में बाणासुर? वह प्रहस्त से पूछने को कहता है कि यह कौन है, कहाँ से आया और वाटिका क्यों तोड़ी तथा राक्षसों को क्यों मारा। प्रहस्त हनुमान से कहता है, डरो मत: क्या तुम्हें इन्द्र ने भेजा है, या कुबेर, यम, वरुण, या विजय चाहने वाले विष्णु ने? हनुमान कहते हैं कि मैं इनमें से किसी का नहीं; मैं वानर हूँ, राक्षसराज को देखने आया हूँ। दर्शन के लिए ही वाटिका तोड़ी और केवल आत्मरक्षा में लड़ा। ब्रह्मास्त्र मुझे नहीं बाँध सका, फिर भी मैंने बँधना स्वीकार किया; मैं राम के कार्य से आया हूँ।
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।
रोषेण महताऽऽविष्टो रावणो लोकरावणः
tamudvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam |
roṣeṇa mahatā''viṣṭo rāvaṇo lokarāvaṇaḥ
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम् ।
किमेष भगवान् नन्दी भवेत् साक्षादिहागतः
śaṅkāhatātmā dadhyau sa kapīndraṃ tejasā vṛtam |
kimeṣa bhagavān nandī bhavet sākṣādihāgataḥ
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा ।
सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः
yena śapto'smi kailāse mayā prahasite purā |
so'yaṃ vānaramūrtiḥ syātkiṃsvid bāṇo'pi vāsuraḥ
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।
कालयुक्तमुवाचेदं वचो विपुलमर्थवत्
sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam |
kālayuktamuvācedaṃ vaco vipulamarthavat
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् ।
वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने
durātmā pṛcchyatāmeṣa kutaḥ kiṃ vāsya kāraṇam |
vanabhaṅge ca ko'syārtho rākṣasānāṃ ca tarjane
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम् ।
आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः
matpurīmapradhṛṣyāṃ vai gamane kiṃ prayojanam |
āyodhane vā kaṃ kāryaṃ pṛcchyatāmeṣa durmatiḥ
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे
rāvaṇasya vacaḥ śrutvā prahasto vākyamabravīt |
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम् ।
तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे
yadi tāvat tvamindreṇa preṣito rāvaṇālayam |
tattvamākhyāhi mā te bhūd bhayaṃ vānara mokṣyase
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्
yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca |
cārurūpamidaṃ kṛtvā praviṣṭo naḥ purīmimām
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।
नहि ते वानरं तेजो रूपमात्रं तु वानरम्
viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā |
nahi te vānaraṃ tejo rūpamātraṃ tu vānaram
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।
अनृतं वदतश्चापि दुर्लभं तव जीवितम्
tattvataḥ kathayasvādya tato vānara mokṣyase |
anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam
अथवा यन्निमित्तस्ते प्रवेशो रावणालये ।
एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्
athavā yannimittaste praveśo rāvaṇālaye |
evamukto harivarastadā rakṣogaṇeśvaram
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च ।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः
abravīnnāsmi śakrasya yamasya varuṇasya ca |
dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
जातिरेव मम त्वेषा वानरोऽहमिहागतः ।
दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया
jātireva mama tveṣā vānaro'hamihāgataḥ |
darśane rākṣasendrasya tadidaṃ durlabhaṃ mayā
वनं राक्षसराजस्य दर्शनार्थं विनाशितम् ।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः
vanaṃ rākṣasarājasya darśanārthaṃ vināśitam |
tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ।
अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe |
astrapāśairna śakyo'haṃ baddhuṃ devāsurairapi
पितामहादेष वरो ममापि हि समागतः ।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्
pitāmahādeṣa varo mamāpi hi samāgataḥ |
rājānaṃ draṣṭukāmena mayāstramanuvartitam
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः ।
केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम्
vimukto'pyahamastreṇa rākṣasaistvabhiveditaḥ |
kenacid rāmakāryeṇa āgato'smi tavāntikam
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः ।
श्रूयतामेव वचनं मम पथ्यमिदं प्रभो
dūto'hamiti vijñāya rāghavasyāmitaujasaḥ |
śrūyatāmeva vacanaṃ mama pathyamidaṃ prabho
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)