सुन्दरकाण्ड

सर्ग 43: चैत्य-प्रासाद का विध्वंस

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ५.४३ ॥

25 श्लोक · 43 में से 68

इस अध्याय में क्या होता है

चैत्य-प्रासाद का विध्वंस

किंकरों को मारकर हनुमान सोचते हैं कि वाटिका तो तोड़ दी, पर राक्षसों का चैत्य-प्रासाद नहीं। वे मेरु-से ऊँचे उस प्रासाद पर कूदकर उदय होते सूर्य-से दमकते हैं। उनकी गर्जना से लंका काँप उठती है और वे फिर राम, लक्ष्मण और सुग्रीव की जय और स्वयं को लंका का नाश करने वाला राम का दास हनुमान घोषित करते हैं। प्रासाद के सौ रक्षक शूल, तलवारें और फरसे लेकर टूट पड़ते हैं। हनुमान प्रासाद का सोने से मढ़ा खम्भा उखाड़कर ऐसा घुमाते हैं कि आग निकलती है, भवन जल उठता है, और सौ रक्षकों को मार डालते हैं। आकाश में खड़े होकर वे घोषणा करते हैं कि सुग्रीव के भेजे मुझ जैसे सहस्रों वानर पृथ्वी पर घूम रहे हैं, और लाखों-करोड़ों वानर राक्षसों का नाश करने आएँगे।

43.1

ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः ।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः

tataḥ sa kiṃkarān hatvā hanūmān dhyānamāsthitaḥ |
vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ

43.2

तस्मात् प्रासादमद्यैवमिमं विध्वंसयाम्यहम् ।
इति संचिन्त्य हनुमान् मनसादर्शयन् बलम्

tasmāt prāsādamadyaivamimaṃ vidhvaṃsayāmyaham |
iti saṃcintya hanumān manasādarśayan balam

43.3

चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् ।
आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः

caityaprāsādamutplutya meruśṛṅgamivonnatam |
āruroha hariśreṣṭho hanūmān mārutātmajaḥ

43.4

आरुह्य गिरिसंकाशं प्रासादं हरियूथपः ।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः

āruhya girisaṃkāśaṃ prāsādaṃ hariyūthapaḥ |
babhau sa sumahātejāḥ pratisūrya ivoditaḥ

43.5

सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम् ।
हनूमान् प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्

sampradhṛṣya tu durdharṣaścaityaprāsādamunnatam |
hanūmān prajvalam̐llakṣmyā pāriyātropamo'bhavat

43.6

स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्

sa bhūtvā sumahākāyaḥ prabhāvān mārutātmajaḥ |
dhṛṣṭamāsphoṭayāmāsa laṅkāṃ śabdena pūrayan

43.7

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।
पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः

tasyāsphoṭitaśabdena mahatā śrotraghātinā |
peturvihaṃgamāstatra caityapālāśca mohitāḥ

43.8

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः

astravijjayatāṃ rāmo lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvo rāghaveṇābhipālitaḥ

43.9

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः

dāso'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ |
hanūmān śatrusainyānāṃ nihantā mārutātmajaḥ

43.10

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः

na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet |
śilābhiśca praharataḥ pādapaiśca sahasraśaḥ

43.11

धर्षयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्

dharṣayitvā purīṃ laṅkāmabhivādya ca maithilīm |
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām

43.12

एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः ।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्

evamuktvā mahākāyaścaityastho hariyūthapaḥ |
nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam

43.13

तेन नादेन महता चैत्यपालाः शतं ययुः ।
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान्

tena nādena mahatā caityapālāḥ śataṃ yayuḥ |
gṛhītvā vividhānastrān prāsān khaḍgān paraśvadhān

43.14

विसृजन्तो महाकाया मारुतिं पर्यवारयन् ।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः

visṛjanto mahākāyā mārutiṃ paryavārayan |
te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ

43.15

आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसंनिभैः ।
आवर्त इव गङ्गायास्तोयस्य विपुलो महान्

ājagmurvānaraśreṣṭhaṃ bāṇaiścādityasaṃnibhaiḥ |
āvarta iva gaṅgāyāstoyasya vipulo mahān

43.16

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः

parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ |
tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ

43.17

प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् ।
उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः

prāsādasya mahāṃstasya stambhaṃ hemapariṣkṛtam |
utpāṭayitvā vegena hanūmān mārutātmajaḥ

43.18

ततस्तं भ्रामयामास शतधारं महाबलः ।
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत

tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ |
tatra cāgniḥ samabhavat prāsādaścāpyadahyata

43.19

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्

dahyamānaṃ tato dṛṣṭvā prāsādaṃ hariyūthapaḥ |
sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān

43.20

अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् ।
मादृशानां सहस्राणि विसृष्टानि महात्मनाम्

antarikṣasthitaḥ śrīmānidaṃ vacanamabravīt |
mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām

43.21

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः

balināṃ vānarendrāṇāṃ sugrīvavaśavartinām |
aṭanti vasudhāṃ kṛtsnāṃ vayamanye ca vānarāḥ

43.22

दशनागबलाः केचित् केचिद् दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः

daśanāgabalāḥ kecit kecid daśaguṇottarāḥ |
kecinnāgasahasrasya babhūvustulyavikramāḥ

43.23

सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः ।
अप्रमेयबलाः केचित् तत्रासन् हरियूथपाः

santi caughabalāḥ kecit santi vāyubalopamāḥ |
aprameyabalāḥ kecit tatrāsan hariyūthapāḥ

43.24

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि

īdṛgvidhaistu haribhirvṛto dantanakhāyudhaiḥ |
śataiḥ śatasahasraiśca koṭibhiścāyutairapi

43.25

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।
नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।
यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना

āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ |
neyamasti purī laṅkā na yūyaṃ na ca rāvaṇaḥ |
yasya tvikṣvākuvīreṇa baddhaṃ vairaṃ mahātmanā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)