सुन्दरकाण्ड

सर्ग 40: सीता का अन्तिम सन्देश और हनुमान की विदा

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ५.४० ॥

25 श्लोक · 40 में से 68

इस अध्याय में क्या होता है

सीता का अन्तिम सन्देश और हनुमान की विदा

पवनपुत्र की बात सुनकर देवकन्या-सी सीता अपने हित की बात कहती हैं: तुम्हें देखकर मैं वैसे प्रसन्न हूँ जैसे आधी उगी खेती वर्षा पाकर। राम से कहना कि मेरे प्राण जाने से पहले मुझे बचाएँ, और चिह्न के रूप में उस कौए और क्रोध में फेंके गए कुश की याद दिलाना। लक्ष्मण को मेरा प्रणाम कहना और राम से कहना कि मैं केवल एक मास और जी सकती हूँ। हनुमान सत्य की शपथ लेकर कहते हैं कि राम शोक छोड़कर आएँगे, और लक्ष्मण भी राम के दुःख से पीड़ित हैं। वे सिर झुकाकर प्रणाम करते हैं और जाने को तैयार होते हैं। रोती हुई सीता कहती हैं कि राम को मेरे तीव्र शोक और राक्षसियों की धमकियों के विषय में बताना, और उनकी कुशल यात्रा की कामना करती हैं।

40.1

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा

śrutvā tu vacanaṃ tasya vāyusūnormahātmanaḥ |
uvācātmahitaṃ vākyaṃ sītā surasutopamā

40.2

त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर ।
अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा

tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara |
ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā

40.3

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि

yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ |
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi

40.4

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्

abhijñānaṃ ca rāmasya dadyā harigaṇottama |
kṣiptāmiṣīkāṃ kākasya kopādekākṣiśātanīm

40.5

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि

manaḥśilāyāstilako gaṇḍapārśve niveśitaḥ |
tvayā praṇaṣṭe tilake taṃ kila smartumarhasi

40.6

स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम

sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase |
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama

40.7

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ

eṣa cūḍāmaṇirdivyo mayā suparirakṣitaḥ |
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvāmivānagha

40.8

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा

eṣa niryātitaḥ śrīmān mayā te vārisambhavaḥ |
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā

40.9

असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ।
राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम्

asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ |
rākṣasaiḥ saha saṃvāsaṃ tvatkṛte marṣayāmyaham

40.10

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज

dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana |
māsādūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja

40.11

घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ।
त्वां च श्रुत्वा विषज्जन्तं न जीवेयमपि क्षणम्

ghoro rākṣasarājo'yaṃ dṛṣṭiśca na sukhā mayi |
tvāṃ ca śrutvā viṣajjantaṃ na jīveyamapi kṣaṇam

40.12

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam |
athābravīnmahātejā hanūmān mārutātmajaḥ

40.13

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे शोकाभिभूते तु लक्ष्मणः परितप्यते

tvacchokavimukho rāmo devi satyena te śape |
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate

40.14

दृष्टा कथंचिद् भवती न कालः परिदेवितुम् ।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि

dṛṣṭā kathaṃcid bhavatī na kālaḥ paridevitum |
imaṃ muhūrtaṃ duḥkhānāmantaṃ drakṣyasi bhāmini

40.15

तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः

tāvubhau puruṣavyāghrau rājaputrāvaninditau |
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ

40.16

हत्वा तु समरे रक्षो रावणं सहबान्धवैः ।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यतः

hatvā tu samare rakṣo rāvaṇaṃ sahabāndhavaiḥ |
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prati neṣyataḥ

40.17

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसंजननं भूयस्तस्य त्वं दातुमर्हसि

yattu rāmo vijānīyādabhijñānamanindite |
prītisaṃjananaṃ bhūyastasya tvaṃ dātumarhasi

40.18

साब्रवीद् दत्तमेवाहो मयाभिज्ञानमुत्तमम् ।
एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम्

sābravīd dattamevāho mayābhijñānamuttamam |
etadeva hi rāmasya dṛṣṭvā yatnena bhūṣaṇam

40.19

श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः

śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati |
sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ

40.20

प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।
तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम्

praṇamya śirasā devīṃ gamanāyopacakrame |
tamutpātakṛtotsāhamavekṣya hariyūthapam

40.21

वर्धमानं महावेगमुवाच जनकात्मजा ।
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा

vardhamānaṃ mahāvegamuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā

40.22

हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्

hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau |
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam

40.23

यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ |
asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātumarhasi

40.24

इदं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं
शिवश्च तेऽध्वास्तु हरिप्रवीर

idaṃ ca tīvraṃ mama śokavegaṃ
rakṣobhirebhiḥ paribhartsanaṃ ca |
brūyāstu rāmasya gataḥ samīpaṃ
śivaśca te'dhvāstu haripravīra

40.25

स राजपुत्र्या प्रतिवेदितार्थः
कपिः कृतार्थः परिहृष्टचेताः ।
तदल्पशेषं प्रसमीक्ष्य कार्यं
दिशं ह्युदीचीं मनसा जगाम

sa rājaputryā prativeditārthaḥ
kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ |
tadalpaśeṣaṃ prasamīkṣya kāryaṃ
diśaṃ hyudīcīṃ manasā jagāma

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)