सुन्दरकाण्ड

सर्ग 28: सीता का प्राण-त्याग का निश्चय

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः ॥ ५.२८॥

19 श्लोक · 28 में से 68

इस अध्याय में क्या होता है

सीता का प्राण-त्याग का निश्चय

रावण के क्रूर वचन सुनकर सीता वन में सिंह से घिरी हथिनी के बच्चे-सी काँपती हैं। वे कहती हैं, निश्चय ही मेरा हृदय पत्थर का है, जो ऐसे दुःख में भी नहीं फटता। मृग-रूप में आए काल ने मुझ अभागिन को छला, जब मैंने रघुकुल के दोनों पुत्रों को दूर भेज दिया। अब मैं केवल मृत्यु की प्रतीक्षा में हूँ। मेरा पतिव्रत, क्षमा, भूमि पर शयन और धर्म-पालन सब व्यर्थ गए, जैसे कृतघ्न पर किया उपकार। शोकाकुल, राम का ध्यान करती वे अपनी लम्बी वेणी से फाँसी लगाने का निश्चय करती हैं। फूले शिंशपा वृक्ष की डाल पकड़कर, राम, लक्ष्मण और अपने कुल का स्मरण करती हुई वे खड़ी हो जाती हैं।

28.1

सा राक्षसेन्द्रस्य वचो निशम्य
तद् रावणस्याप्रियमप्रियार्ता ।
सीता वितत्रास यथा वनान्ते
सिंहाभिपन्ना गजराजकन्या

sā rākṣasendrasya vaco niśamya
tad rāvaṇasyāpriyamapriyārtā |
sītā vitatrāsa yathā vanānte
siṃhābhipannā gajarājakanyā

28.2

सा राक्षसीमध्यगता च भीरु-
र्वाग्भिर्भृशं रावणतर्जिता च ।
कान्तारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता

sā rākṣasīmadhyagatā ca bhīru-
rvāgbhirbhṛśaṃ rāvaṇatarjitā ca |
kāntāramadhye vijane visṛṣṭā
bāleva kanyā vilalāpa sītā

28.3

सत्यं बतेदं प्रवदन्ति लोके
नाकालमृत्युर्भवतीति सन्तः ।
यत्राहमेवं परिभर्त्स्यमाना
जीवामि यस्मात् क्षणमप्यपुण्या

satyaṃ batedaṃ pravadanti loke
nākālamṛtyurbhavatīti santaḥ |
yatrāhamevaṃ paribhartsyamānā
jīvāmi yasmāt kṣaṇamapyapuṇyā

28.4

सुखाद् विहीनं बहुदुःखपूर्ण-
मिदं तु नूनं हृदयं स्थिरं मे ।
विदीर्यते यन्न सहस्रधाद्य
वज्राहतं शृंगमिवाचलस्य

sukhād vihīnaṃ bahuduḥkhapūrṇa-
midaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me |
vidīryate yanna sahasradhādya
vajrāhataṃ śṛṃgamivācalasya

28.5

नैवास्ति नूनं मम दोषमत्र
वध्याहमस्याप्रियदर्शनस्य ।
भावं न चास्याहमनुप्रदातु-
मलं द्विजो मन्त्रमिवाद्विजाय

naivāsti nūnaṃ mama doṣamatra
vadhyāhamasyāpriyadarśanasya |
bhāvaṃ na cāsyāhamanupradātu-
malaṃ dvijo mantramivādvijāya

28.6

तस्मिन्ननागच्छति लोकनाथे
गर्भस्थजन्तोरिव शल्यकृन्तः ।
नूनं ममांगान्यचिरादनार्यः
शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः

tasminnanāgacchati lokanāthe
garbhasthajantoriva śalyakṛntaḥ |
nūnaṃ mamāṃgānyacirādanāryaḥ
śastraiḥ śitaiśchetsyati rākṣasendraḥ

28.7

दुःखं बतेदं ननु दुःखिताया
मासौ चिरायाभिगमिष्यतो द्वौ ।
बद्धस्य वध्यस्य यथा निशान्ते
राजोपरोधादिव तस्करस्य

duḥkhaṃ batedaṃ nanu duḥkhitāyā
māsau cirāyābhigamiṣyato dvau |
baddhasya vadhyasya yathā niśānte
rājoparodhādiva taskarasya

28.8

हा राम हा लक्ष्मण हा सुमित्रे
हा राममातः सह मे जनन्यः ।
एषा विपद्याम्यहमल्पभाग्या
महार्णवे नौरिव मूढवाता

hā rāma hā lakṣmaṇa hā sumitre
hā rāmamātaḥ saha me jananyaḥ |
eṣā vipadyāmyahamalpabhāgyā
mahārṇave nauriva mūḍhavātā

28.9

तरस्विनौ धारयता मृगस्य
सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।
नूनं विशस्तौ मम कारणात् तौ
सिंहर्षभौ द्वाविव वैद्युतेन

tarasvinau dhārayatā mṛgasya
sattvena rūpaṃ manujendraputrau |
nūnaṃ viśastau mama kāraṇāt tau
siṃharṣabhau dvāviva vaidyutena

28.10

नूनं स कालो मृगरूपधारी
मामल्पभाग्यां लुलुभे तदानीम् ।
यत्रार्यपुत्रौ विससर्ज मूढा
रामानुजं लक्ष्मणपूर्वजं च

nūnaṃ sa kālo mṛgarūpadhārī
māmalpabhāgyāṃ lulubhe tadānīm |
yatrāryaputrau visasarja mūḍhā
rāmānujaṃ lakṣmaṇapūrvajaṃ ca

28.11

हा राम सत्यव्रत दीर्घबाहो
हा पूर्णचन्द्रप्रतिमानवक्त्र ।
हा जीवलोकस्य हितः प्रियश्च
वध्यां न मां वेत्सि हि राक्षसानाम्

hā rāma satyavrata dīrghabāho
hā pūrṇacandrapratimānavaktra |
hā jīvalokasya hitaḥ priyaśca
vadhyāṃ na māṃ vetsi hi rākṣasānām

28.12

अनन्यदेवत्वमियं क्षमा च
भूमौ च शय्या नियमश्च धर्मे ।
पतिव्रतात्वं विफलं ममेदं
कृतं कृतघ्नेष्विव मानुषाणाम्

ananyadevatvamiyaṃ kṣamā ca
bhūmau ca śayyā niyamaśca dharme |
pativratātvaṃ viphalaṃ mamedaṃ
kṛtaṃ kṛtaghneṣviva mānuṣāṇām

28.13

मोघो हि धर्मश्चरितो ममायं
तथैकपत्नीत्वमिदं निरर्थकम् ।
या त्वां न पश्यामि कृशा विवर्णा
हीना त्वया संगमने निराशा

mogho hi dharmaścarito mamāyaṃ
tathaikapatnītvamidaṃ nirarthakam |
yā tvāṃ na paśyāmi kṛśā vivarṇā
hīnā tvayā saṃgamane nirāśā

28.14

पितुर्निदेशं नियमेन कृत्वा
वनान्निवृत्तश्चरितव्रतश्च ।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः
संरंस्यसे वीतभयः कृतार्थः

piturnideśaṃ niyamena kṛtvā
vanānnivṛttaścaritavrataśca |
strībhistu manye vipulekṣaṇābhiḥ
saṃraṃsyase vītabhayaḥ kṛtārthaḥ

28.15

अहं तु राम त्वयि जातकामा
चिरं विनाशाय निबद्धभावा ।
मोघं चरित्वाथ तपो व्रतं च
त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्

ahaṃ tu rāma tvayi jātakāmā
ciraṃ vināśāya nibaddhabhāvā |
moghaṃ caritvātha tapo vrataṃ ca
tyakṣyāmi dhigjīvitamalpabhāgyām

28.16

संजीवितं क्षिप्रमहं त्यजेयं
विषेण शस्त्रेण शितेन वापि ।
विषस्य दाता न तु मेऽस्ति कश्चि-
च्छस्त्रस्य वा वेश्मनि राक्षसस्य

saṃjīvitaṃ kṣipramahaṃ tyajeyaṃ
viṣeṇa śastreṇa śitena vāpi |
viṣasya dātā na tu me'sti kaści-
cchastrasya vā veśmani rākṣasasya

28.17

शोकाभितप्ता बहुधा विचिन्त्य
सीताथ वेणीग्रथनं गृहीत्वा ।
उद्बद्ध्य वेण्युद्ग्रथनेन शीघ्र-
महं गमिष्यामि यमस्य मूलम्

śokābhitaptā bahudhā vicintya
sītātha veṇīgrathanaṃ gṛhītvā |
udbaddhya veṇyudgrathanena śīghra-
mahaṃ gamiṣyāmi yamasya mūlam

28.18

उपस्थिता सा मृदुसर्वगात्री
शाखां गृहीत्वा च नगस्य तस्य ।
तस्यास्तु रामं परिचिन्तयन्त्या
रामानुजं स्वं च कुलं शुभांग्याः

upasthitā sā mṛdusarvagātrī
śākhāṃ gṛhītvā ca nagasya tasya |
tasyāstu rāmaṃ paricintayantyā
rāmānujaṃ svaṃ ca kulaṃ śubhāṃgyāḥ

28.19

तस्या विशोकानि तदा बहूनि
धैर्यार्जितानि प्रवराणि लोके ।
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धान्युपलक्षितानि

tasyā viśokāni tadā bahūni
dhairyārjitāni pravarāṇi loke |
prādurnimittāni tadā babhūvuḥ
purāpi siddhānyupalakṣitāni

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)