सुन्दरकाण्ड

सर्ग 17: राक्षसी पहरेदार और उनके बीच सीता

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥

32 श्लोक · 17 में से 68

इस अध्याय में क्या होता है

राक्षसी पहरेदार और उनके बीच सीता

कमल-सा श्वेत चन्द्रमा निर्मल आकाश में उठता है, मानो हनुमान की सहायता कर रहा हो। उसकी चाँदनी में वे जल में डूबती नाव-सी शोक से दबी सीता को देखते हैं। उनके पास वे विकराल राक्षसी पहरेदार देखते हैं: एक आँख वाली, एक कान वाली, शरीर ढकते कानों वाली, बिना कानों वाली, कील-से कानों वाली, ललाट पर नाक वाली, बिना नाक वाली, मोटे होंठों वाली, पशुओं-से सिर वाली, कोई लम्बी कोई ठिगनी, शूल और मुद्गर लिए, मांस-रक्त से सनी, मांस-रक्त खाने वाली। उनके बीच सीता बैठी हैं, जैसे पुण्य क्षीण होने पर पृथ्वी पर गिरा तारा, दुर्दशा में भी चरित्र से समृद्ध, कुत्तों के बीच हिरणी-सी। उस मृगनयनी को देखकर हनुमान हर्ष के आँसू बहाते हैं और मन में राम को प्रणाम करते हैं।

17.1

ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः ।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्

tataḥ kumudakhaṇḍābho nirmalaṃ nirmalodayaḥ |
prajagāma nabhaścandro haṃso nīlamivodakam

17.2

साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्

sācivyamiva kurvan sa prabhayā nirmalaprabhaḥ |
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam

17.3

स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ।
शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि

sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām |
śokabhārairiva nyastāṃ bhārairnāvamivāmbhasi

17.4

दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः ।
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः

didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ |
sa dadarśāvidūrasthā rākṣasīrghoradarśanāḥ

17.5

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।
अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्

ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā |
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām

17.6

अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम् ।
ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्

atikāyottamāṃgīṃ ca tanudīrghaśirodharām |
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm

17.7

लम्बकर्णललाटां च लम्बोदरपयोधराम् ।
लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्

lambakarṇalalāṭāṃ ca lambodarapayodharām |
lamboṣṭhīṃ cibukoṣṭhīṃ ca lambāsyāṃ lambajānukām

17.8

ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा ।
करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम्

hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā |
karālāṃ bhugnavaktrāṃ ca piṃgākṣīṃ vikṛtānanām

17.9

विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः ।
कालायसमहाशूलकूटमुद्गरधारिणीः

vikṛtāḥ piṃgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ |
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ

17.10

वराहमृगशार्दूलमहिषाजशिवामुखाः ।
गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः

varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ |
gajoṣṭrahayapādāśca nikhātaśiraso'parāḥ

17.11

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।
गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः

ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ |
gokarṇīrhastikarṇīśca harikarṇīstathāparāḥ

17.12

अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः ।
गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः

atināsāśca kāścicca tiryaṅnāsā anāsikāḥ |
gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ

17.13

हस्तिपादा महापादा गोपादाः पादचूलिकाः ।
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः

hastipādā mahāpādā gopādāḥ pādacūlikāḥ |
atimātraśirogrīvā atimātrakucodarīḥ

17.14

अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा ।
अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः

atimātrāsyanetrāśca dīrghajihvānanāstathā |
ajāmukhīrhastimukhīrgomukhīḥ sūkarīmukhīḥ

17.15

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः

hayoṣṭrakharavaktrāśca rākṣasīrghoradarśanāḥ |
śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ

17.16

कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः ।
पिबन्ति सततं पानं सुरामांससदाप्रियाः

karālā dhūmrakeśinyo rākṣasīrvikṛtānanāḥ |
pibanti satataṃ pānaṃ surāmāṃsasadāpriyāḥ

17.17

मांसशोणितदिग्धांगीर्मांसशोणितभोजनाः ।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः

māṃsaśoṇitadigdhāṃgīrmāṃsaśoṇitabhojanāḥ |
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ

17.18

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।
तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्

skandhavantamupāsīnāḥ parivārya vanaspatim |
tasyādhastācca tāṃ devīṃ rājaputrīmaninditām

17.19

लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम् ।
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्

lakṣayāmāsa lakṣmīvān hanūmāñjanakātmajām |
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām

17.20

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्

kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitāmiva |
cāritravyapadeśāḍhyāṃ bhartṛdarśanadurgatām

17.21

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् ।
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्

bhūṣaṇairuttamairhīnāṃ bhartṛvātsalyabhūṣitām |
rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām

17.22

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्

viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūmiva |
candrarekhāṃ payodānte śāradābhrairivāvṛtām

17.23

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।
स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे

kliṣṭarūpāmasaṃsparśādayuktāmiva vallakīm |
sa tāṃ bhartṛhite yuktāmayuktāṃ rakṣasāṃ vaśe

17.24

अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्

aśokavanikāmadhye śokasāgaramāplutām |
tābhiḥ parivṛtāṃ tatra sagrahāmiva rohiṇīm

17.25

ददर्श हनुमांस्तत्र लतामकुसुमामिव ।
सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता ।
मृणाली पङ्कदिग्धेव विभाति च न भाति च

dadarśa hanumāṃstatra latāmakusumāmiva |
sā malena ca digdhāṃgī vapuṣā cāpyalaṃkṛtā |
mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca

17.26

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।
संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः

malinena tu vastreṇa parikliṣṭena bhāminīm |
saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ

17.27

तां देवीं दीनवदनामदीनां भर्तृतेजसा ।
रक्षितां स्वेन शीलेन सीतामसितलोचनाम्

tāṃ devīṃ dīnavadanāmadīnāṃ bhartṛtejasā |
rakṣitāṃ svena śīlena sītāmasitalocanām

17.28

तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् ।
मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः

tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām |
mṛgakanyāmiva trastāṃ vīkṣamāṇāṃ samantataḥ

17.29

दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।
संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्

dahantīmiva niḥśvāsairvṛkṣān pallavadhāriṇaḥ |
saṃghātamiva śokānāṃ duḥkhasyormimivotthitām

17.30

तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम् ।
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्

tāṃ kṣamāṃ suvibhaktāṃgīṃ vinābharaṇaśobhinīm |
praharṣamatulaṃ lebhe mārutiḥ prekṣya maithilīm

17.31

हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।
मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्

harṣajāni ca so'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām |
mumoca hanumāṃstatra namaścakre ca rāghavam

17.32

नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान् ।
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्

namaskṛtvātha rāmāya lakṣmaṇāya ca vīryavān |
sītādarśanasaṃhṛṣṭo hanumān saṃvṛto'bhavat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)