ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम् ।
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
tatastad dāruṇaṃ karma duṣkaraṃ sahasā kṛtam |
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकषष्ठितमः सर्गः ॥४-६१॥
17 श्लोक · 61 में से 67
सम्पाति ने मुनि को अपना पूरा कठिन और दुस्साहसी कर्म बताया: सूर्य के पीछे दौड़। बल के गर्व में, होड़ में मैं और जटायु यह परखने आकाश में ऊँचे उड़े कि कौन सूर्य का अनुसरण कर सकता है। वहाँ से पृथ्वी के नगर रथ के पहियों-से, और हिमवान, विन्ध्य और मेरु तालाब में हाथियों-से दिखते थे। सूर्य के पास पहुँचते ही पसीना और थकान छा गई, हम व्याकुल हुए और जटायु गिरने लगे। मैंने भाई को पंखों से ढक लिया, जिससे जटायु नहीं जले, पर मेरी असावधानी से मेरे पंख झुलस गए। मेरा अनुमान है कि जटायु जनस्थान में गिरे, और मैं पंख जले, असहाय होकर विन्ध्य पर गिरा।
ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम् ।
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
tatastad dāruṇaṃ karma duṣkaraṃ sahasā kṛtam |
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā
भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः ।
परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्
bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ |
pariśrānto na śaknomi vacanaṃ paribhāṣitum
अहं चैव जटायुश्च संघर्षाद् गर्वमोहितौ ।
आकाशं पतितौ दूराज्जिज्ञासन्तौ पराक्रमम्
ahaṃ caiva jaṭāyuśca saṃgharṣād garvamohitau |
ākāśaṃ patitau dūrājjijñāsantau parākramam
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् ।
रविः स्यादनुयातव्यो यावदस्तं महागिरिम्
kailāsaśikhare baddhvā munīnāmagrataḥ paṇam |
raviḥ syādanuyātavyo yāvadastaṃ mahāgirim
अप्यावां युगपत् प्राप्तावपश्याव महीतले ।
रथचक्रप्रमाणानि नगराणि पृथक् पृथक्
apyāvāṃ yugapat prāptāvapaśyāva mahītale |
rathacakrapramāṇāni nagarāṇi pṛthak pṛthak
क्वचिद् वादित्रघोषश्च क्वचिद् भूषणनिःस्वनः ।
गायन्तीः स्माङ्गना बह्वीः पश्यावो रक्तवाससः
kvacid vāditraghoṣaśca kvacid bhūṣaṇaniḥsvanaḥ |
gāyantīḥ smāṅganā bahvīḥ paśyāvo raktavāsasaḥ
तूर्णमुत्पत्य चाकाशमादित्यपदमास्थितौ ।
आवामालोकयावस्तद् वनं शाद्वलसंस्थितम्
tūrṇamutpatya cākāśamādityapadamāsthitau |
āvāmālokayāvastad vanaṃ śādvalasaṃsthitam
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः ।
आपगाभिश्च संवीता सूत्रैरिव वसुंधरा
upalairiva saṃchannā dṛśyate bhūḥ śiloccayaiḥ |
āpagābhiśca saṃvītā sūtrairiva vasuṃdharā
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहागिरिः ।
भूतले सम्प्रकाशन्ते नागा इव जलाशये
himavāṃścaiva vindhyaśca meruśca sumahāgiriḥ |
bhūtale samprakāśante nāgā iva jalāśaye
तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः ।
समाविशत मोहश्च ततो मूर्च्छा च दारुणा
tīvraḥ svedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ |
samāviśata mohaśca tato mūrcchā ca dāruṇā
न च दिग् ज्ञायते याम्या न चाग्नेयी न वारुणी ।
युगान्ते नियतो लोको हतो दग्ध इवाग्निना
na ca dig jñāyate yāmyā na cāgneyī na vāruṇī |
yugānte niyato loko hato dagdha ivāgninā
मनश्च मे हतं भूयश्चक्षुः प्राप्य तु संश्रयम् ।
यत्नेन महता ह्यस्मिन् मनः संधाय चक्षुषी
manaśca me hataṃ bhūyaścakṣuḥ prāpya tu saṃśrayam |
yatnena mahatā hyasmin manaḥ saṃdhāya cakṣuṣī
यत्नेन महता भूयो भास्करः प्रतिलोकितः ।
तुल्यपृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ
yatnena mahatā bhūyo bhāskaraḥ pratilokitaḥ |
tulyapṛthvīpramāṇena bhāskaraḥ pratibhāti nau
जटायुर्मामनापृच्छ्य निपपात महीं ततः ।
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्
jaṭāyurmāmanāpṛcchya nipapāta mahīṃ tataḥ |
taṃ dṛṣṭvā tūrṇamākāśādātmānaṃ muktavānaham
पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत ।
प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम्
pakṣābhyāṃ ca mayā gupto jaṭāyurna pradahyata |
pramādāt tatra nirdagdhaḥ patan vāyupathādaham
आशङ्के तं निपतितं जनस्थाने जटायुषम् ।
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः
āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam |
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ
राज्याच्च हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।
सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः
rājyācca hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca |
sarvathā martumevecchan patiṣye śikharād gireḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)