ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।
उपविष्टा गिरौ रम्ये परिवार्य समन्ततः
tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ |
upaviṣṭā girau ramye parivārya samantataḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
21 श्लोक · 60 में से 67
स्नान और जलांजलि के बाद सम्पाति पर्वत पर वानरों से घिरे बैठकर मौन होकर सुनने को कहते हैं और अपनी कथा सुनाते हैं। बहुत पहले मेरे पंख जल गए और मैं इस विन्ध्य पर्वत पर निशाकर मुनि के आश्रम के पास गिरा। छह दिन मैं अचेत पड़ा रहा; फिर स्थान पहचानकर बड़े यत्न से मुनि के दर्शन की इच्छा से उनके आश्रम तक रेंगता गया। मैं जटायु के साथ अक्सर उनके पास आता था। भालू, मृग, बाघ, सिंह और सर्प उन्हें दाता की भाँति घेरे रहते थे। स्नान करके आए निशाकर ने मुझे पहचानकर पूछा कि तुम्हारे पंख क्यों जले और बल कहाँ गया। उन्होंने कहा, बड़े सम्पाति और छोटे जटायु मनुष्य-रूप धरकर मेरे चरण छूते थे; तुम्हें क्या हुआ?
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।
उपविष्टा गिरौ रम्ये परिवार्य समन्ततः
tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ |
upaviṣṭā girau ramye parivārya samantataḥ
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ।
जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत्
tamaṅgadamupāsīnaṃ taiḥ sarvairharibhirvṛtam |
janitapratyayo harṣāt sampātiḥ punarabravīt
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम ।
तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम्
kṛtvā niḥśabdamekāgrāḥ śṛṇvantu harayo mama |
tathyaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ ।
सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः
asya vindhyasya śikhare patito'smi purānagha |
sūryatāpaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ
लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव ।
वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन
labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalanniva |
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana
ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।
वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता
tatastu sāgarān śailān nadīḥ sarvāḥ sarāṃsi ca |
vanāni ca pradeśāṃśca nirīkṣya matirāgatā
हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान् ।
दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः
hṛṣṭapakṣigaṇākīrṇaḥ kandarodarakūṭavān |
dakṣiṇasyodadhestīre vindhyo'yamiti niścitaḥ
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत्
āsīccātrāśramaṃ puṇyaṃ surairapi supūjitam |
ṛṣirniśākaro nāma yasminnugratapā'bhavat
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ ।
वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे
aṣṭau varṣasahasrāṇi tenāsminnṛṣiṇā girau |
vasato mama dharmajñe svargate tu niśākare
अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः ।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः
avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ |
tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punarāgataḥ
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् ।
जटायुषा मया चैव बहुशोऽधिगतो हि सः
tamṛṣiṃ draṣṭukāmo'smi duḥkhenābhyāgato bhṛśam |
jaṭāyuṣā mayā caiva bahuśo'dhigato hi saḥ
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।
वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते
tasyāśramapadābhyāśe vavurvātāḥ sugandhinaḥ |
vṛkṣo nāpuṣpitaḥ kaścidaphalo vā na dṛśyate
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।
द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्
upetya cāśramaṃ puṇyaṃ vṛkṣamūlamupāśritaḥ |
draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram
अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम् ।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्
atha paśyāmi dūrasthamṛṣiṃ jvalitatejasam |
kṛtābhiṣekaṃ durdharṣamupāvṛttamudaṅmukham
तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः ।
परिवार्योपगच्छन्ति दातारं प्राणिनो यथा
tamṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nānāsarīsṛpāḥ |
parivāryopagacchanti dātāraṃ prāṇino yathā
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्
tataḥ prāptamṛṣiṃ jñātvā tāni sattvāni vai yayuḥ |
praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः ।
मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत
ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ |
muhūrtamātrānnirgamya tataḥ kāryamapṛcchata
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते ।
अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके
saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate |
agnidagdhāvimau pakṣau prāṇāścāpi śarīrake
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ
gṛdhrau dvau dṛṣṭapūrvau me mātariśvasamau jave |
gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau
ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव ।
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम
jyeṣṭho'vitastvaṃ sampāte jaṭāyuranujastava |
mānuṣaṃ rūpamāsthāya gṛhṇītāṃ caraṇau mama
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।
दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः
kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham |
daṇḍo vāyaṃ dhṛtaḥ kena sarvamākhyāhi pṛcchataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)