किष्किन्धाकाण्ड

सर्ग 49: थके वानरों को अंगद का प्रोत्साहन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥

22 श्लोक · 49 में से 67

इस अध्याय में क्या होता है

थके वानरों को अंगद का प्रोत्साहन

थके होने पर भी बुद्धिमान अंगद कोमलता से वानरों को प्रोत्साहित करते हैं: हमने वन, पर्वत, नदियाँ और गुफाएँ खोजीं, फिर भी न सीता मिलीं न उनका हरण करने वाला। बहुत समय बीत गया है। सुग्रीव कठोर दण्ड देने वाले कठोर राजा हैं; हमें उनसे सदा डरना चाहिए और राम की सेवा करनी चाहिए। थकान और नींद छोड़कर फिर खोजें; उत्साह, सहनशीलता और मन की दृढ़ता से सफलता मिलती है। थके-प्यासे गन्धमादन कहते हैं कि अंगद ने उचित और हितकर बात कही है, इसे मानें; विन्ध्य की गुफाएँ, वन और पर्वत फिर खोजें। कुछ विश्राम करके महाबली वानर फिर उठते हैं और गुफाओं और शिखरों वाले विन्ध्य-वनों में सारे दक्षिण प्रदेश को खोजने निकल पड़ते हैं।

49.1

अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ।
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः

athāṅgadastadā sarvān vānarānidamabravīt |
pariśrānto mahāprājñaḥ samāśvāsya śanairvacaḥ

49.2

वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः

vanāni girayo nadyo durgāṇi gahanāni ca |
darī giriguhāścaiva vicitāḥ sarvamantataḥ

49.3

तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।
तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती

tatra tatra sahāsmābhirjānakī na ca dṛśyate |
tathā rakṣo'pahartā ca sītāyāścaiva duṣkṛtī

49.4

कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः ।
तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः

kālaśca no mahān yātaḥ sugrīvaścograśāsanaḥ |
tasmād bhavantaḥ sahitā vicinvantu samantataḥ

49.5

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम्

vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām |
vicinudhvaṃ tathā sītāṃ paśyāmo janakātmajām

49.6

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्

anirvedaṃ ca dākṣyaṃ ca manasaścāparājayam |
kāryasiddhikarāṇyāhustasmādetad bravīmyaham

49.7

अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।
खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम्

adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ |
khedaṃ tyaktvā punaḥ sarvaṃ vanameva vicinvatām

49.8

अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम् ।
परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम्

avaśyaṃ kurvatāṃ tasya dṛśyate karmaṇaḥ phalam |
paraṃ nirvedamāgamya nahi nonmīlanaṃ kṣamam

49.9

सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः

sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaśca vānarāḥ |
bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ

49.10

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः

hitārthametaduktaṃ vaḥ kriyatāṃ yadi rocate |
ucyatāṃ hi kṣamaṃ yat tat sarveṣāmeva vānarāḥ

49.11

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।
उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया

aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ |
uvāca vyaktayā vācā pipāsāśramakhinnayā

49.12

सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियतामस्य भाषितम्

sadṛśaṃ khalu vo vākyamaṅgado yaduvāca ha |
hitaṃ caivānukūlaṃ ca kriyatāmasya bhāṣitam

49.13

पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च

punarmārgāmahe śailān kandarāṃśca śilāṃstathā |
kānanāni ca śūnyāni giriprasravaṇāni ca

49.14

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः

yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā |
vicinvantu vanaṃ sarve giridurgāṇi saṃgatāḥ

49.15

ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।
विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्

tataḥ samutthāya punarvānarāste mahābalāḥ |
vindhyakānanasaṃkīrṇāṃ vicerurdakṣiṇāṃ diśam

49.16

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः

te śāradābhrapratimaṃ śrīmadrajataparvatam |
śṛṅgavantaṃ darīvantamadhiruhya ca vānarāḥ

49.17

तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ।
विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः

tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca |
vicinvanto harivarāḥ sītādarśanakāṃkṣiṇaḥ

49.18

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्

tasyāgramadhirūḍhāste śrāntā vipulavikramāḥ |
na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām

49.19

ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् ।
अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः

te tu dṛṣṭigataṃ dṛṣṭvā taṃ śailaṃ bahukandaram |
adhyārohanta harayo vīkṣamāṇāḥ samantataḥ

49.20

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।
स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः

avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ |
sthitā muhūrtaṃ tatrātha vṛkṣamūlamupāśritāḥ

49.21

ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्

te muhūrtaṃ samāśvastāḥ kiṃcidbhagnapariśramāḥ |
punarevodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam

49.22

हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः ।
विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः

hanumatpramukhāstāvat prasthitāḥ plavagarṣabhāḥ |
vindhyamevāditaḥ kṛtvā viceruśca samantataḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)