किष्किन्धाकाण्ड

सर्ग 35: तारा का लक्ष्मण को शान्त करना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥

23 श्लोक · 35 में से 67

इस अध्याय में क्या होता है

तारा का लक्ष्मण को शान्त करना

चन्द्रमुखी तारा क्रोध से दमकते लक्ष्मण से कहती हैं: सुग्रीव कृतघ्न, क्रूर, झूठे या कुटिल नहीं। वे राम का उपकार नहीं भूले, जिससे उन्हें राज्य, यश, रुमा और मैं मिली। लम्बे समय तक सुख से वंचित, थके हुए वे भोग में लग गए; काम ने बड़े-बड़े ऋषियों को भी भटका दिया है। राम उन्हें क्षमा करें। वे कहती हैं, सुग्रीव के लिए मैं आपसे प्रार्थना करती हूँ, क्रोध छोड़िए। सुग्रीव राम के लिए रुमा, मुझे, अंगद और राज्य भी त्याग देंगे। कहा जाता है कि रावण की लंका में असंख्य राक्षस हैं, और सुग्रीव जानते थे कि अकेले उनसे नहीं लड़ सकते; इसीलिए वानरों को बुलाया है। आज ही सहस्रों करोड़ भालू और वानर उनके पास आएँगे; क्रोध त्याग दीजिए।

35.1

तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना

tathā brūvāṇaṃ saumitriṃ pradīptamiva tejasā |
abravīllakṣmaṇaṃ tārā tārādhipanibhānanā

35.2

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः

naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣamarhati |
harīṇāmīśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ

35.3

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः

naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ |
naivānṛtakatho vīra na jihmaśca kapīśvaraḥ

35.4

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे

upakāraṃ kṛtaṃ vīro nāpyayaṃ vismṛtaḥ kapiḥ |
rāmeṇa vīra sugrīvo yadanyairduṣkaraṃ raṇe

35.5

रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परंतप

rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam |
prāptavāniha sugrīvo rumāṃ māṃ ca paraṃtapa

35.6

सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः

suduḥkhaśayitaḥ pūrvaṃ prāpyedaṃ sukhamuttamam |
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ

35.7

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण ।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः

ghṛtācyāṃ kila saṃsakto daśa varṣāṇi lakṣmaṇa |
aho'manyata dharmātmā viśvāmitro mahāmuniḥ

35.8

स हि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः

sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ |
viśvāmitro mahātejāḥ kiṃ punaryaḥ pṛthagjanaḥ

35.9

देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति

dehadharmagatasyāsya pariśrāntasya lakṣmaṇa |
avitṛptasya kāmeṣu rāmaḥ kṣantumihārhati

35.10

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा

na ca roṣavaśaṃ tāta gantumarhasi lakṣmaṇa |
niścayārthamavijñāya sahasā prākṛto yathā

35.11

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्

sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha |
avimṛśya na roṣasya sahasā yānti vaśyatām

35.12

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता ।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्

prasādaye tvāṃ dharmajña sugrīvārthaṃ samāhitā |
mahān roṣasamutpannaḥ saṃrambhastyajyatāmayam

35.13

रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च ।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम

rumāṃ māṃ cāṅgadaṃ rājyaṃ dhanadhānyapaśūni ca |
rāmapriyārthaṃ sugrīvastyajediti matirmama

35.14

समानेष्यति सुग्रीवः सीतया सह राघवम् ।
शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्

samāneṣyati sugrīvaḥ sītayā saha rāghavam |
śaśāṅkamiva rohiṇyā hatvā taṃ rākṣasādhamam

35.15

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च

śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām |
ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca

35.16

अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः ।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता

ahatvā tāṃśca durdharṣān rākṣasān kāmarūpiṇaḥ |
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā

35.17

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः

te na śakyā raṇe hantumasahāyena lakṣmaṇa |
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ

35.18

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्

evamākhyātavān vālī sa hyabhijño harīśvaraḥ |
āgamastu na me vyaktaḥ śravāt tasya bravīmyaham

35.19

त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः ।
आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्

tvatsahāyanimittaṃ hi preṣitā haripuṅgavāḥ |
ānetuṃ vānarān yuddhe subahūn haripuṅgavān

35.20

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् ।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः

tāṃśca pratīkṣamāṇo'yaṃ vikrāntān sumahābalān |
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ

35.21

कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा ।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः

kṛtā susaṃsthā saumitre sugrīveṇa purā yathā |
adya tairvānaraiḥ sarvairāgantavyaṃ mahābalaiḥ

35.22

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।
अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम ।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्

ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca |
adya tvāmupayāsyanti jahi kopamariṃdama |
koṭyo'nekāstu kākutstha kapīnāṃ dīptatejasām

35.23

तव हि मुखमिदं निरीक्ष्य कोपात्
क्षतजसमे नयने निरीक्षमाणाः ।
हरिवरवनिता न यान्ति शान्तिं
प्रथमभयस्य हि शङ्किताः स्म सर्वाः

tava hi mukhamidaṃ nirīkṣya kopāt
kṣatajasame nayane nirīkṣamāṇāḥ |
harivaravanitā na yānti śāntiṃ
prathamabhayasya hi śaṅkitāḥ sma sarvāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)