किष्किन्धाकाण्ड

सर्ग 34: लक्ष्मण की सुग्रीव को फटकार

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥

19 श्लोक · 34 में से 67

इस अध्याय में क्या होता है

लक्ष्मण की सुग्रीव को फटकार

लक्ष्मण को बेरोक, क्रुद्ध भीतर आते देखकर सुग्रीव काँप जाते हैं और इन्द्रध्वज-से अपने सोने के आसन से कूद पड़ते हैं। लक्ष्मण कठोर वचन कहते हैं: जो राजा कुलीन, दयालु और सत्यवादी हो, वह सम्मान पाता है; जो उपकारी मित्रों से किया वचन तोड़े, वह नीचतम है। मित्र के उपकार का बदला न चुकाने वाला सब प्राणियों द्वारा वध के योग्य है। तुच्छ भोगों में डूबे, वचन से मुकरने वाले तुम मेंढक की बोली बोलने वाले साँप हो, जिसे राम अभी पहचान नहीं पाए। लक्ष्मण चेताते हैं: जिस मार्ग से वाली गया, वह बन्द नहीं हुआ; सुग्रीव, वचन पर टिको और वाली के मार्ग पर मत जाओ।

34.1

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः

tamapratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham |
sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ

34.2

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्

kruddhaṃ niḥśvasamānaṃ taṃ pradīptamiva tejasā |
bhrāturvyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam

34.3

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।
महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः

utpapāta hariśreṣṭho hitvā sauvarṇamāsanam |
mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ

34.4

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।
सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव

utpatantamanūtpetū rumāprabhṛtayaḥ striyaḥ |
sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva

34.5

संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः ।
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव

saṃraktanayanaḥ śrīmān saṃcacāra kṛtāñjaliḥ |
babhūvāvasthitastatra kalpavṛkṣo mahāniva

34.6

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा

rumādvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam |
abravīllakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā

34.7

सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।
कृतज्ञः सत्यवादी च राजा लोके महीयते

sattvābhijanasampannaḥ sānukrośo jitendriyaḥ |
kṛtajñaḥ satyavādī ca rājā loke mahīyate

34.8

यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः

yastu rājā sthito'dharme mitrāṇāmupakāriṇām |
mithyā pratijñāṃ kurute ko nṛśaṃsatarastataḥ

34.9

शतमश्वानृते हन्ति सहस्रं तु गवानृते ।
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते

śatamaśvānṛte hanti sahasraṃ tu gavānṛte |
ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte

34.10

पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर

pūrvaṃ kṛtārtho mitrāṇāṃ na tatpratikaroti yaḥ |
kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara

34.11

गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।
दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम

gīto'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ |
dṛṣṭvā kṛtaghnaṃ kruddhena tannibodha plavaṃgama

34.12

गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

goghne caiva surāpe ca caure bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ

34.13

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्

anāryastvaṃ kṛtaghnaśca mithyāvādī ca vānara |
pūrvaṃ kṛtārtho rāmasya na tatpratikaroṣi yat

34.14

ननु नाम कृतार्थेन त्वया रामस्य वानर ।
सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता

nanu nāma kṛtārthena tvayā rāmasya vānara |
sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtamicchatā

34.15

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।
न त्वां रामो विजानीते सर्पं मण्डूकराविणम्

sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ |
na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam

34.16

महाभागेन रामेण पापः करुणवेदिना ।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना

mahābhāgena rāmeṇa pāpaḥ karuṇavedinā |
harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā

34.17

कृतं चेन्नातिजानीषे राघवस्य महात्मनः ।
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्

kṛtaṃ cennātijānīṣe rāghavasya mahātmanaḥ |
sadyastvaṃ niśitairbāṇairhato drakṣyasi vālinam

34.18

न स संकुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः

na sa saṃkucitaḥ panthā yena vālī hato gataḥ |
samaye tiṣṭha sugrīva mā vālipathamanvagāḥ

34.19

न नूनमिक्ष्वाकुवरस्य कार्मुका-
च्छरांश्च तान् पश्यसि वज्रसंनिभान् ।
ततः सुखं नाम विषेवसे सुखी
न रामकार्यं मनसाप्यवेक्षसे

na nūnamikṣvākuvarasya kārmukā-
ccharāṃśca tān paśyasi vajrasaṃnibhān |
tataḥ sukhaṃ nāma viṣevase sukhī
na rāmakāryaṃ manasāpyavekṣase

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)