बालकाण्ड

सर्ग 8: दशरथ अश्वमेध यज्ञ का संकल्प करते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥

24 श्लोक · 8 में से 77

इस अध्याय में क्या होता है

दशरथ अश्वमेध यज्ञ का संकल्प करते हैं

इतने महान होते हुए भी दशरथ के कोई पुत्र नहीं है जो वंश आगे बढ़ाए, और यह चिन्ता उन्हें तपाती है। वे पुत्र के लिए अश्वमेध यज्ञ करने का निश्चय करते हैं। सुमन्त्र को बुलाकर वे पुरोहितों को बुलवाते हैं: सुयज्ञ, वामदेव, जाबालि, कश्यप और वसिष्ठ। राजा उन्हें अपना दुःख और संकल्प बताते हैं। वे सहमत होकर कहते हैं कि सामग्री जुटाइए, अश्व छोड़िए और सरयू के उत्तरी तट पर यज्ञभूमि तैयार कराइए; आपको अवश्य पुत्र होंगे। राजा मन्त्रियों को सावधान करते हैं कि कोई भूल न हो, क्योंकि विद्वान ब्रह्मराक्षस बड़े यज्ञ में दोष ढूँढते रहते हैं। फिर वे रानियों के पास जाकर कहते हैं कि दीक्षा लो, मैं पुत्र के लिए यज्ञ करूँगा। यह सुनकर उनके मुख ऐसे खिल उठते हैं जैसे शीत बीतने पर कमल।

8.1

तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः

tasya caivaṃ prabhāvasya dharmajñasya mahātmanaḥ |
sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ

8.2

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्

cintayānasya tasyaivaṃ buddhirāsīnmahātmanaḥ |
sutārthaṃ vājimedhena kimarthaṃ na yajāmyaham

8.3

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः

sa niścitāṃ matiṃ kṛtvā yaṣṭavyamiti buddhimān |
mantribhiḥ saha dharmātmā sarvaireva kṛtātmabhiḥ

8.4

ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्

tato'bravīnmahātejāḥ sumantraṃ mantrisattama |
śīghramānaya me sarvān gurūṃstān sapurohitān

8.5

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान्

tataḥ sumantrastvaritaṃ gatvā tvaritavikramaḥ |
samānayat sa tān sarvān samastān vedapāragān

8.6

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः

suyajñaṃ vāmadevaṃ ca jābālimatha kāśyapam |
purohitaṃ vaśiṣṭhaṃ ca ye cāpyanye dvijottamāḥ

8.7

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्

tān pūjayitvā dharmātmā rājā daśarathastadā |
idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanamabravīt

8.8

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम

mama lālapyamānasya sutārthaṃ nāsti vai sukham |
tadarthaṃ hayamedhena yakṣyāmīti matirmama

8.9

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम्

tadahaṃ yaṣṭumicchāmi śāstradṛṣṭena karmaṇā |
kathaṃ prāpsyāmyahaṃ kāmaṃ buddhiratravicintyatām

8.10

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम्

tataḥ sādhviti tadvākyaṃ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarve pārthivasya mukheritam

8.11

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्

ūcuśca paramaprītāḥ sarve daśarathaṃ vacaḥ |
sambhārāḥ sambhriyantāṃ te turagaśca vimucyatām

8.12

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव

sarayvāścottare tīre yajñabhūmirvidhīyatām |
sarvathā prāpsyase putrānabhipretāṃśca pārthiva

8.13

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम्

yasya te dhārmikī buddhiriyaṃ putrārthamāgatā |
tatastuṣṭo'bhavad rājā śrutvaitad dvijabhāṣitam

8.14

अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह

amātyānabravīd rājā harṣavyākulalocanaḥ |
sambhārāḥ sambhriyantāṃ me gurūṇāṃ vacanādiha

8.15

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्

samarthādhiṣṭhitaścāśvaḥ sopādhyāyo vimucyatām |
sarayvāścottare tīre yajñabhūmirvidhīyatām

8.16

शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता

śāntayaścāpi vardhantāṃ yathākalpaṃ yathāvidhi |
śakyaḥ prāptumayaṃ yajñaḥ sarveṇāpi mahīkṣitā

8.17

नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।
च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः

nāparādho bhavet kaṣṭo yadyasmin kratusattame |
cchidraṃ hi mṛgayante sma vidvāṃso brahmarākṣasāḥ

8.18

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते

vidhihīnasya yajñasya sadyaḥ kartā vinaśyati |
tadyathā vidhipūrvaṃ me kratureṣa samāpyate

8.19

तथा विधानं क्रियतां समर्थाः साधनेष्विति ।
तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः

tathā vidhānaṃ kriyatāṃ samarthāḥ sādhaneṣviti |
tatheti cābruvan sarve maṃtriṇaḥ pratipūjitāḥ

8.20

पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।
तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्

pārthivendrasya tad vākyaṃ yathāpūrvaṃ niśamya te |
tathā dvijāste dharmajñā vardhayanto nṛpottamam

8.21

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्

anujñātāstataḥ sarve punarjagmuryathāgatam |
visarjayitvā tān viprān sacivānidamabravīt

8.22

ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान्

ṛtvigbhirupasaṃdiṣṭo yathāvat kraturāpyatām |
ityuktvā nṛpaśārdūlaḥ sacivān samupasthitān

8.23

विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः

visarjayitvā svaṃ veśma praviveśa mahāmatiḥ |
tataḥ sa gatvā tāḥ patnīrnarendro hṛdayaṃgamāḥ

8.24

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये

uvāca dīkṣāṃ viśata yakṣye'haṃ sutakāraṇāt |
tāsāṃ tenātikāntena vacanena suvarcasām |
mukhapadmānyaśobhanta padmānīva himātyaye

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)