बालकाण्ड

सर्ग 9: सुमन्त्र ऋष्यशृंग की भविष्यवाणी सुनाते हैं

इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥

20 श्लोक · 9 में से 77

इस अध्याय में क्या होता है

सुमन्त्र ऋष्यशृंग की भविष्यवाणी सुनाते हैं

एकान्त में सुमन्त्र राजा को एक पुराना वृत्तान्त सुनाते हैं, जो उन्होंने ऋत्विजों से सुना था और जिसे पहले भगवान सनत्कुमार ने कहा था। कश्यप के पुत्र विभाण्डक के ऋष्यशृंग नाम का पुत्र होगा, जो वन में पलेगा और पिता तथा अग्नि के सिवा कुछ नहीं जानेगा। उसी समय अंगदेश के राजा रोमपाद के किसी दोष से उनके राज्य में भयंकर अकाल पड़ेगा। ब्राह्मण उन्हें बताएँगे कि उपाय यही है कि ऋष्यशृंग को अंगदेश लाकर उन्हें अपनी पुत्री शान्ता ब्याह दी जाए। राजा सोचेंगे कि जिसने संसार देखा ही नहीं, उसे कैसे लाया जाए। सुमन्त्र कहते हैं कि रोमपाद के जामाता ऋष्यशृंग ही दशरथ को भी पुत्र देंगे। प्रसन्न होकर दशरथ पूछते हैं कि उस मुनि को किस उपाय से लाया गया।

9.1

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।
श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम्

etacchrutvā rahaḥ sūto rājānamidamabravīt |
śrūyatāṃ tat purāvṛttaṃ purāṇe ca mayā śrutam

9.2

ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्

ṛtvigbhirupadiṣṭo'yaṃ purāvṛtto mayā śrutaḥ |
sanatkumāro bhagavān pūrvaṃ kathitavān kathām

9.3

ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ।
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः

ṛṣīṇāṃ saṃnidhau rājaṃstava putrāgamaṃ prati |
kāśyapasya ca putro'sti vibhāṇḍaka iti śrutaḥ

9.4

ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ।
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा

ṛśyaśṛṅga iti khyātastasya putro bhaviṣyati |
sa vane nityasaṃvṛddho munirvanacaraḥ sadā

9.5

नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः

nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt |
dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ

9.6

लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।
तस्यैवं वर्तमानस्य कालः समभिवर्तत

lokeṣu prathitaṃ rājan vipraiśca kathitaṃ sadā |
tasyaivaṃ vartamānasya kālaḥ samabhivartata

9.7

अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।
एतस्मिन्नेव काले तु रोमपादः प्रतापवान्

agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam |
etasminneva kāle tu romapādaḥ pratāpavān

9.8

अङ्गेषु प्रथितो राजा भविष्यति महाबलः ।
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा

aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ |
tasya vyatikramād rājño bhaviṣyati sudāruṇā

9.9

अनावृष्टिः सुघोरा वै सर्वलोकभयावहा ।
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः

anāvṛṣṭiḥ sughorā vai sarvalokabhayāvahā |
anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ

9.10

ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व ।
भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः

brāhmaṇāñchrutasaṃvṛddhān samānīya pravakṣyati va |
bhavantaḥ śrutakarmāṇo lokacāritravedinaḥ

9.11

समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः

samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet |
ityuktāste tato rājñā sarve brāhmaṇasattamāḥ

9.12

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभाण्डकसुतं राजन् सर्वोपायैरिहानय

vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ |
vibhāṇḍakasutaṃ rājan sarvopāyairihānaya

9.13

आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् ।
विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः

ānāyya tu mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam |
vibhāṇḍakasutaṃ rājan brāhmaṇaṃ vedapāragam |
prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ

9.14

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्

teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate |
kenopāyena vai śakyamihānetuṃ sa vīryavān

9.15

ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्

tato rājā viniścitya saha mantribhirātmavān |
purohitamamātyāṃśca preṣayiṣyati satkṛtān

9.16

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्

te tu rājño vacaḥ śrutvā vyathitā vinatānanāḥ |
na gacchema ṛṣerbhītā anuneṣyanti taṃ nṛpam

9.17

वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति

vakṣyanti cintayitvā te tasyopāyāṃśca tānkṣamān |
āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati

9.18

एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।
आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते

evamaṅgādhipenaiva gaṇikābhirṛṣeḥ sutaḥ |
ānīto'varṣayad devaḥ śāntā cāsmai pradīyate

9.19

ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावद् व्याहृतं मया

ṛśyaśṛṅgastu jāmātā putrāṃstava vidhāsyati |
sanatkumārakathitametāvad vyāhṛtaṃ mayā

9.20

अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम्

atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata |
yatharṣyaśṛṅgastvānīto yenopāyena socyatām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)