तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः
tasyāmātyā guṇairāsanvikṣvākoḥ sumahātmanaḥ |
mantrajñāśceṅgitajñāśca nityaṃ priyahite ratāḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥
24 श्लोक · 7 में से 77
दशरथ के मन्त्रियों का वर्णन है। वे आठ हैं: धृष्टि, जयन्त, विजय, सिद्धार्थ, अर्थसाधक, अशोक, मन्त्रपाल और सुमन्त्र। वसिष्ठ और वामदेव प्रधान ऋत्विज हैं, और अन्य विद्वान ब्राह्मण भी परामर्श देते हैं। मन्त्री ईमानदार, स्वामिभक्त और विनम्र हैं, सलाह देने में कुशल और मन का संकेत तुरन्त समझने वाले। गुप्तचरों द्वारा वे अपने और पराए देशों की हर बात जानते हैं, जो हो चुका और जो होने वाला है। वे ब्राह्मणों और क्षत्रियों को कष्ट दिए बिना कोष भरते हैं, और किसी को दण्ड देने से पहले उसके बल और दोष को तौलते हैं; निर्दोष हो तो शत्रु के पुत्र को भी नहीं सताते। ऐसे मन्त्रियों से घिरे राजा को अपने बराबर कोई शत्रु नहीं मिलता, और वे किरणों से घिरे उगते सूर्य की तरह चमकते हैं।
तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः
tasyāmātyā guṇairāsanvikṣvākoḥ sumahātmanaḥ |
mantrajñāśceṅgitajñāśca nityaṃ priyahite ratāḥ
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः
aṣṭau babhūvurvīrasya tasyāmātyā yaśasvinaḥ |
śucayaścānuraktāśca rājakṛtyeṣu nityaśaḥ
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित्
dhṛṣṭirjayanto vijayaḥ surāṣṭro rāṣṭrvardhanaḥ |
akopo dharmapālaśca sumantraścāṣṭamo'rthavit
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे
ṛtvijau dvāvabhimatau tasyāstāmṛṣisattamau |
vasiṣṭho vāmadevaśca mantriṇaśca tathāpare
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः
suyajño'pyatha jābāliḥ kāśyapo'pyatha gautamaḥ |
mārkaṇḍeyastu dīrghāyustathā kātyāyano dvijaḥ
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः
etairbrahmarṣibhirnityamṛtvijastasya paurvakāḥ |
vidyāvinītā hrīmantaḥ kuśalā niyatendriyāḥ
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः
śrīmantaśca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ |
kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः
tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ |
krodhāt kāmārthahetorvā na brūyuranṛtaṃ vacaḥ
तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्
teṣāmaviditaṃ kiṃcit sveṣu nāsti pareṣu vā |
kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि
kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ |
prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣvapi
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न हिंस्युरविदूषकम्
kośasaṃgrahaṇe yuktā balasya ca parigrahe |
ahitaṃ cāpi puruṣaṃ na hiṃsyuravidūṣakam
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्
vīrāśca niyatotsāhā rājaśāstramanuṣṭhitāḥ |
śucīnāṃ rakṣitāraśca nityaṃ viṣayavāsinām
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्
brahmakṣatramahiṃsantaste kośaṃ samapūrayan |
sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्
śucīnāmekabuddhīnāṃ sarveṣāṃ samprajānatām |
nāsītpure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत्
kvacinna duṣṭastatrāsīt paradāraratirnaraḥ |
praśāntaṃ sarvamevāsīd rāṣṭraṃ puravaraṃ ca tat
सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः ।
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा
suvāsasaḥ suveśāśca te ca sarve śucivratāḥ |
hitārthāśca narendrasya jāgrato nayacakṣuṣā
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः
gurorguṇagṛhītāśca prakhyātāśca parākramaiḥ |
videśeṣvapi vijñātāḥ sarvato buddhiniścayāḥ
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।
सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः
abhito guṇavantaśca na cāsan guṇavarjitāḥ |
sandhivigrahatatvajñāḥ prakṛtyā sampadānvitāḥ
मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः
maṃtrasaṃvaraṇe śaktāḥ śaktāḥ sūkṣmāsu buddhiṣu |
nītiśāstraviśeṣajñāḥ satataṃ priyavādinaḥ
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम्
īdṛśaistairamātyaiśca rājā daśaratho'naghaḥ |
upapanno guṇopetairanvaśāsad vasundharām
अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्
avekṣyamāṇaścāreṇa prajā dharmeṇa rakṣayan |
prajānāṃ pālanaṃ kurvannadharmaṃ parivarjayan
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्
viśrutastriṣu lokeṣu vadānyaḥ satyasaṃgaraḥ |
sa tatra puruṣavyāghraḥ śaśāsa pṛthivīmimām
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद् राजा दिवि देवपतिर्यथा
nādhyagacchadviśiṣṭaṃ vā tulyaṃ vā śatrumātmanaḥ |
mitravānnatasāmantaḥ pratāpahatakaṇṭakaḥ |
sa śaśāsa jagad rājā divi devapatiryathā
तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै-
र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त-
स्तेजोमयैर्गोभिरिवोदितोऽर्कः
tairmantribhirmantrahitai niviṣṭai-
rvṛto'nuraktaiḥ kuśalaiḥ samarthaiḥ |
sa pārthivo dīptimavāpa yukta-
stejomayairgobhirivodito'rkaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)