तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः
tasyāṃ puryāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ |
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥
28 श्लोक · 6 में से 77
यह सर्ग राजा और उनकी प्रजा का वर्णन करता है। दशरथ वेदज्ञ हैं, दूरदर्शी हैं, यज्ञ करने वाले हैं, और तीनों लोकों में राजर्षि के रूप में प्रसिद्ध हैं, जैसे देवताओं में इन्द्र। उनके राज्य में अयोध्या भरी-पूरी और सन्तुष्ट है। कोई लोभी, झूठा, कंजूस या अशिक्षित नहीं। हर पुरुष कुण्डल, मुकुट और माला पहनता है; कोई बिना स्नान या बिना सुगन्ध के नहीं दिखता। कोई ब्राह्मण ऐसा नहीं जो छह अंगों को न जानता हो, व्रत न रखता हो या हज़ारों का दान न देता हो। हर वर्ण अपने धर्म में लगा है। नगर की रक्षा शस्त्र-कुशल वीर करते हैं, कम्बोज और बाह्लीक के घोड़े और विन्ध्य तथा हिमालय के हाथी उसकी शोभा हैं। दशरथ उस पर ऐसे राज्य करते हैं जैसे चन्द्रमा तारों पर।
तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः
tasyāṃ puryāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ |
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः
ikṣvākūṇāmatiratho yajvā dharmaparo vaśī |
maharṣikalpo rājarṣistriṣu lokeṣu viśrutaḥ
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः
balavān nihatāmitro mitravān vijitendriyaḥ |
dhanaiśca saṃcayaiścānyaiḥ śakravaiśravaṇopamaḥ
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा लोकस्य परिरक्षिता
yathā manurmahātejā lokasya parirakṣitā |
tathā daśaratho rājā lokasya parirakṣitā
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती
tena satyābhisaṃdhena trivargamanutiṣṭhatā |
pālitā sā purī śreṣṭhā indreṇevāmarāvatī
तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः
tasmin puravare hṛṣṭā dharmātmāno bahuśrutāḥ |
narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ
नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्
nālpasaṃnicayaḥ kaścidāsīt tasmin purottame |
kuṭumbī yo hyasiddhārtho'gavāśvadhanadhānyavān
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः
kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit |
draṣṭuṃ śakyamayodhyāyāṃ nāvidvān na ca nāstikaḥ
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः
sarve narāśca nāryaśca dharmaśīlāḥ susaṃyatāḥ |
muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते
nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān |
nāmṛṣṭo na naliptāṅgo nāsugandhaśca vidyate
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्
nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk |
nāhastābharaṇo vāpi dṛśyate nāpyanātmavān
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः
nānāhitāgnirnāyajvā na kṣudro vā na taskaraḥ |
kaścidāsīdayodhyāyāṃ na cārvṛtto na saṃkaraḥ
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे
svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ |
dānādhyayanaśīlāśca saṃyatāśca pratigrahe
नास्तिको नानृती वापि न कश्चिदबहुश्रुतः ।
नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित्
nāstiko nānṛtī vāpi na kaścidabahuśrutaḥ |
nāsūyako na cāśakto nāvidvān vidyate kvacit
नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन
nāṣaḍaṅgavidatrāsti nāvrato nāsahasradaḥ |
na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana
कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्
kaścinnaro vā nārī vā nāśrīmān nāpyarūpavān |
draṣṭuṃ śakyamayodhyāyāṃ nāpi rājanyabhaktimān
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः
varṇeṣvagryacaturtheṣu devatātithipūjakāḥ |
kṛtajñāśca vadānyāśca śūrā vikramasaṃyutāḥ
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ |
sahitāḥ putrapautraiśca nityaṃ strībhiḥ purottame
क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः ।
शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः
kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatramanuvratāḥ |
śūdrāḥ svadharmaniratāstrīn varṇānupacāriṇaḥ
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता
sā tenekṣvākunāthena purī suparirakṣitā |
yathā purastānmanunā mānavendreṇa dhīmatā
योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव
yodhānāmagnikalpānāṃ peśalānāmamarṣiṇām |
sampūrṇā kṛtavidyānāṃ guhā kesariṇāmiva
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः
kāmbojaviṣaye jātairbāhlīkaiśca hayottamaiḥ |
vanāyujairnadījaiśca pūrṇā harihayottamaiḥ
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः
vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi |
madānvitairatibalairmātaṅgaiḥ parvatopamaiḥ
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः
airāvatakulīnaiśca mahāpadmakulaistathā |
añjanādapi niṣkrāntairvāmanādapi ca dvipaiḥ
भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी
bhadairmandrairmṛgaiścaiva bhadramandramṛgaistathā |
bhadramandrairbhadramṛgairmṛgamandraiśca sā purī
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।
सा योजने द्वे च भूयः सत्यनामा प्रकाशते ।
यस्यां दशरथो राजा वसञ्जगदपालयत्
nityamattaiḥ sadā pūrṇā nāgairacalasaṃnibhaiḥ |
sā yojane dve ca bhūyaḥ satyanāmā prakāśate |
yasyāṃ daśaratho rājā vasañjagadapālayat
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः
tāṃ purīṃ sa mahātejā rājā daśaratho mahān |
śaśāsa śamitāmitro nakṣatrāṇīva candramāḥ
तां सत्यनामां दृढतोरणार्गलाम्
गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसंकुलां
शशास वै शक्रसमो महीपतिः
tāṃ satyanāmāṃ dṛḍhatoraṇārgalām
gṛhairvicitrairupaśobhitāṃ śivām |
purīmayodhyāṃ nṛsahasrasaṃkulāṃ
śaśāsa vai śakrasamo mahīpatiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)